#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00002a Uniform title: ahirbudhnya saṃhita Volume 1 Main title: ahirbudhnya saṃhita of the pāñcarātrāgama Volume 1 Editor : Schrader, F. Otto Editor : Pandit M. D. Ramanujacarya Description: E-text transcribed from the ahirbudhnya saṃhita of the pāñcarātrāgama volume 1 edited by Pandit M. D. Ramanujacarya under the supervision of F. Otto Schrader Notes: This e-text was data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 15, 2007 Publisher : The Adyar Library and Research Center Publication year : 1916 Publication city : Publication country : India #################################################### श्रीपाञ्चरात्रे अहिर्बुध्न्यसंहिता शास्त्रावतारो नाम प्रथमोऽध्यायः शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये || मङ्गलाचरणम् अक्षरत्रितयाव्यक्तविकाराक्षादिरूपिणे | परव्यूहादितत्त्वाय नमश्चक्राय चक्रिणे || १-१ || सोमसूर्यानलाकल्पामकल्पामिन्दुशेखराम् | पञ्चबिन्दुं हरेः शक्तिं पञ्चकृत्यकरीं नुमः || १-२ || भरद्वाजस्य दुर्वाससं प्रति सुदर्शनमाहात्म्यकारणप्रश्नः आप्लुतं दिव्यगङ्गायामुपासीनं परं पदम् | भरद्वाजोऽथ पप्रच्छ दुर्वाससमकल्मषम् || १-३ || भरद्वाजः - अनसूयाहृदानन्द भगवंस्तपसां निधे | अस्ति मे संशयः कश्चित् तं मे व्याख्या तु मर्हसि || १-४ || प्. २) अग्निषोमक्रियायोगिन्याथर्वणविनिर्णये | महोदयेऽस्त्रसंघे च प्रवर्तकनिवर्तके || १-५ || लोकपालास्त्रसंघे च तत्तत्सामर्थ्यसंभृते | महोदयासु शक्तीषु वह्निसूर्येन्दुवर्त्मनाम् || १-६ || अस्त्राश्रये च शस्त्रौघे ब्रह्मरुद्रादिनिर्मिते | त्रैलोक्यत्राणसंहारजनिकर्मविचक्षणे || १-७ || महर्षिगणसंदृष्टे मन्त्रग्रामे महोदये | वैष्णवे च गदाशार्ङ्गशङ्खखड्गादिपूर्वके || १-८ || लाक्ष्मे च दलगण्डाब्जपूर्वेऽस्त्रौघे महोदये | अन्यत्रोच्चावचेऽप्येवं कीर्त्यमाने प्रभावतः || १-९ || सुदर्शनाश्रयत्वं तु तत्र तत्र निरूपितम् | किंकृतं तस्य माहात्म्यं स्वतः संसर्गतोऽपि वा || १-१० || किं तत् सुदर्शनं नाम कश्च शब्दार्थ इष्यते | तेन किं क्रियते कर्म जगद् व्याप्नोति तत् कथम् || १-११ || कियन्तः कीदृशाः के च व्यूहास्तस्योदिता मुने | प्रयोजनं च किं तेषां व्यूही तेषां च कीदृशी || १-१२ || विष्णुना तस्य संबन्धः कश्च कीदृक् च संमतः | किं तेन नियतं नित्यमुतान्यत्रापि दृश्यते || १-१३ || प्. ३) एष मे संशयो जातो नानाशास्त्रनिरीक्षणात् | छिन्ध्येनं भगवन् सम्यगुपसन्नोऽस्म्यधीहि भोः || १-१४ || दुर्वाससः प्रश्नप्रशंसापूर्वकं तत्प्रतिवचनम् दुर्वासाः - उपपन्नमिदं वत्स यत् त्वयैवं विमृश्यते | तानि तानि तपांस्यद्य व्युछन्ति तव सुव्रत || १-१५ || पक्वकषायस्यैव परतत्त्वजिज्ञासोदयः आन्तःकरणिके तैस्तैः क्षयं नीते कषायके | मनीषा जायते पुंसां परतत्त्वविमर्शिनी || १-१६ || अत्र ब्रह्मादीनामपि संशयः न संशयी भवानेव पूर्वोपन्यस्तवस्तुनि | ब्रह्माद्याश्च यतन्तेऽत्र संशयाना मनीषिणः || १-१७ || स्वस्याहिर्बुध्न्यात् तत्त्वनिर्णयप्राप्तिः निर्णयोऽत्र मया प्राप्तो नारदाय सुरर्षये | साक्षात् कथयतः पृष्टाच्छंकराल्लोकशंकरात् || १-१८ || नारदस्योत्कर्षः प्राप्याग्र्यां तपसो व्युष्टिं नारदो देवसंमतः | प्. ४) छिन्दानः संशयान् सर्वान् ब्रह्मदेवमहर्षिषु || १-१९ || तस्यापि तत्त्वविषयसंदेहादहिर्बुध्न्याभिगमनम् स्वयं तु संशयं प्राप्य गहनं दुर्विदं सुरैः | अरागरोगकलुषस्तपस्वी संयतेन्द्रियः || १-२० || पदवाक्यप्रमाणानां याथातथ्यविधानवित् | ब्रह्मचारी दमावासः परापरविभागवित् || १-२१ || शुश्रूषुरनहंवादी यथार्थज्ञानतत्परः | नारदो मुनिशार्दूलस्त्रीन् लोकाननुसंचरन् || १-२२ || छेत्तारं संशयस्यास्य दुर्विदस्य सुरर्षिभिः | देवादनभिगम्यान्यं सर्वज्ञाच्चन्द्रशेखरात् || १-२३ || कैलासवर्णनम् प्रभाभिः स्वाभिरखिलान् प्रहसन्तमिवाचलान् | उन्मेषमिव सत्त्वस्य प्रकृष्टज्ञानकारिणः || १-२४ || सिद्धविद्याधराकीर्णं देवगन्धर्वसेवितम् | कैलासं शंकरावासं शंकरं द्रष्टुमाययौ || १-२५ || अहिर्बुध्न्यवर्णनम् रुद्रैर्वसुभिरादित्यैः सिद्धैः साध्यैर्मरुद्गणैः | ऋषिभिर्योगिभिर्दिव्यैर्भूतैर्नानाविधैरपि || १-२६ || प्. ५) ददर्श सेवितं तत्र समासीनं सहोमया | त्र्यक्षं वरदमीशानं शूलिनं चन्द्रशेखरं || १-२७ || पतिं पशूनामनिशं भवपाशाविभेदिनम् | स्थितं मूर्तिभिरष्टाभिरवष्टभ्य जगत्त्रयम् || १-२८ || तं दृष्ट्वा देवमीशानं नारदो देवदर्शनः | प्रणिपत्याथ तुष्टाव गीर्भिरग्र्याभिरादरात् || १-२९ || नारदकृताहिर्बुध्न्यस्तुतिः नारदः - नमस्ते देवदेवेश नमस्ते वृषकेतन | वृषप्रवरवाहाय वृष्णे कामप्रवर्षिणे || १-३० || ओजीयसे परस्मै ते मीढुष्टम नमोऽस्तु ते | सर्वज्ञाय स्वतन्त्राय नित्यतृप्ताय ते नमः || १-३१ || अनादिबोधरूपाय नमस्ते नित्यशक्तये | कर्त्रे हर्त्रे च जगतां षडङ्गाय नमोऽस्तु ते || १-३२ || दशाव्यय नमस्तुभ्यं नमस्ते कृत्तिवाससे | अघोरायाथ घोराय घोरघोरतराय च || १-३३ || [सद्योजाताय देवाय वामदेवाय ते नमः | प्. ६) नमो ज्येष्ठाय रुद्राय भवोद्भव नमोऽस्तु ते || १-३४ || नमो बलविकाराय बलप्रमथनाय ते | नमः - - - - - - - - - - - - - - - - - - - - - - य ते नमः] || १-३५ || नमः कलविकाराय कालाय कलनात्मने | नमस्ते सर्वभूतानां दमनाय मनोन्मन || १-३६ || नमः शर्वाय शान्ताय शंभवे शंभवे नमः | विद्येश्वर नमस्तुभ्यं भूतेश्वर नमोऽस्तु ते || १-३७ || महादेव नमस्तेऽस्तु नमस्तत्पुरुषाय ते | ज्ञानरूप नमस्तुभ्यं नमो वैराग्यवारिधे || १-३८ || ऐश्वर्यगुणपूर्णाय नमस्ते तपसां निधे | नित्यसत्य नमस्तेऽस्तु क्षमासार नमोऽस्तु ते || १-३९ || धृतिसार नमस्तुभ्यं स्रष्ट्रे ते जगतां नमः | आत्मसंबोधपूर्णाय त्रीन् लोकानधितिष्ठते || १-४० || दशाव्ययाय ते नित्यमव्ययाय नमो नमः | क्षोण्यम्ब्वनलवायवभ्रचन्द्रादित्यात्मने नमः || १-४१ || नमः सर्वोपकाराय त्रिलोकीमधितस्थुषे | दुर्वासाः - इति स्तुवानमग्र्याभिर्वाग्भिर्देवर्षिसत्तमम् || १-४२ || प्रसादमधुरं वाक्यमित्युवाच वृषध्वजः | प्. ७) अहिर्बुध्न्यः - स्तोत्रेणानेन भक्त्या च तुष्टोऽस्मि मुनिपुंगव || १-४३ || ब्रूहि किं करवाण्यद्य यद्यपि स्यात् सुदुर्लभम् | नारदः - किमन्यदिह वक्तव्यं यदि तुष्टो जगत्पतिः || १-४४ || एतदेव हि काङ्क्षन्ति यतमाना विपश्चितः | अहिर्बुध्न्यः - प्रसन्नोऽस्मि तवाद्यास्तु दर्शनं सफलं मम || १-४५ || ब्रूहि नारद तत्त्वेन यत् ते मनसि वर्तते | कालनेमिसंग्रामे नारदस्य सुदर्शनमहिमदर्शनम् नारदः - तारकामयसंकाशे संग्रामे कालनेमिनः || १-४६ || संप्रवृत्ते जगद्धातुर्देवदेवस्य शार्ङ्गिणः | देवदानवगन्धर्वयक्षरक्षोभयावहे || १-४७ || मध्याह्नार्कसहस्राभशस्त्रास्त्रगणसंकुले | सुरासुरेन्द्रसैन्येषु निकृत्तेषु महास्त्रतः || १-४८ || भीतविस्मितसंभूतहृतसंगतसंप्लुतैः | पिशाचप्रेतवेतालभूतसंघैः समाकुले || १-४९ || प्. ८) उद्यन्तीष्वतिघोरासु ह्रादिनीष्वशनीषु च | देवदानवदेहेभ्यः क्षरद्भिः क्षतजैस्तथा || १-५० || स्यन्दमानासु वेगेन स्यन्दिनीषु समन्ततः | विद्रुतैः सर्वतो भीतैर्हतशेषैः सुरासुरैः || १-५१ || गरुडस्थे जगन्नाथे सुदर्शनकराम्बुजे | प्रादुश्चक्रे कालनेमिरस्त्रग्रामानशेषतः || १-५२ || भृशाश्वतनया ये ते ये ते त्वन्मुखनिःसृताः | ये ते ब्रह्ममुखोद्भूता ये ते संवर्तकालजाः || १-५३ || लोकपालोद्भवा ये ते ये ते पातालवासिनः | महाभूतमया ये ते ये ते वैकारिकोद्भवाः || १-५४ || गुणत्रयमया ये ते ये ते गन्धर्वयोनयः | रक्षोयक्षोद्भवा ये ते ये ते विद्याधराह्वया || १-५५ || ये ते द्वन्द्वगुणोद्भूता ये ते शक्तिसमुद्भवाः | अथर्वाङ्गिरसा ये ते ये ते मन्त्रान्तरोद्भवाः || १-५६ || सर्वकार्यकरा ये ते प्रवर्तकनिवर्तकाः | यष्टयः शक्तयो यास्ता ये ते दण्डादिरूपकाः || १-५७ || महाबला महावीर्यास्त्रैलोक्यक्षपणोद्यताः | शैलेन्द्रसंनिभाः केचित् केचिन्नागेन्द्रसंनिभाः || १-५८ || प्. ९) पारावारनिभाः केचित् केचिद् गगनसंनिभाः | ज्वलज्ज्वालाशतालीढा रोदसीमध्यवर्तिनः || १-५९ || नृत्यन्तश्च हसन्तश्च क्ष्वेलन्तः पतयालवः | अनिर्देश्या अनौपम्या गौराः श्वेतारुणासिताः || १-६० || नानासंस्थानवर्णाश्च नानाविभ्रमरोचिषः | सर्वे संभूय संयत्ताः कालनेमिप्रचोदिताः || १-६१ || सर्वास्त्राणां सुदर्शनेन पराभवः सप्रयोगोपसंहारैः सरहस्यैश्च संगतैः | अस्त्रग्रामैरशेषैस्तैर्नारायणकरोद्यते || १-६२ || सुदर्शनमहावह्नौ संभूय शलभायितम् | पूर्णाहुतिरभूत् तस्मिन् कालनेमिर्महासुरः || १-६३ || अत्यद्भुतमहिमदर्शनात् संशयोदयः तं दृष्ट्वा विस्मयाविष्टः संग्रामं महदद्भुतम् | अन्तर्हितं क्षणात् कृष्णं प्रणिपत्य जगद्गुरुम् || १-६४ || इमं संदेहसंदोहं हृदयेन वहन् गुरुम् | तवान्तिकमिह प्राप्तः संशयच्छेदनाय वै || १-६५ || न हि सर्वज्ञमीशानं विना छेत्तास्य विद्यते | प्. १०) अहिर्बुध्न्यः - देवर्षे संशयान् ब्रूहि ये वर्तन्ते तवान्तरे || १-६६ || अप्यनिर्वचनीयास्ते सर्वांश्छेत्तास्मि सांप्रतम् | दुर्वासाः - अथ प्रश्नान् क्रमेणोक्तान् नारदेन सुरर्षिणा || १-६७ || व्याचष्ट भगवान् शर्वः सर्वतः प्रीतमानसः | संहितावतरणम् संहिता सेयमाख्याता नानामन्त्रार्थगोचरा || १-६८ || पञ्चरात्रमयी दिव्या नाम्नाहिर्बुध्न्यपूर्विका | अर्थैः परकृतिप्रायैः पुराकल्पैश्च संयुता || १-६९ || नानासिद्धान्तसंभेदा नानाविद्योपशोभिता | शतद्वयमिहाध्यायाश्चत्वारिंशच्च दर्शिताः || १-७० || ततो द्वापरवेलायां मनुष्याणां हिताय वै | अध्यायानां शतेनाथ विंशत्या च समन्विता || १-७१ || अतिविस्तरमुत्सृज्य गुह्येन प्रतिसंस्कृता | ततोऽपि बुद्धिसंकोचान्मनुष्याणां हिताय वै || १-७२ || प्. ११) याति द्वापरसन्ध्यंशे व्यासस्यानुमतेर्मया | षष्ट्यध्यायैरियं भूयः संहिता प्रतिसंस्कृता || १-७३ || उपन्यास्थद्यथाप्रश्नं नारदो भगवानृषिः | निरुवाच यथा शर्वस्तान् सर्वांस्त्वं निबोध मे || १-७४ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शास्त्रावतारो नाम प्रथमोऽध्यायः || १ || श्लोकाः ७४ षाड्गुण्यब्रह्मविवेको नाम द्वितीयोऽध्यायः अहिर्बुध्न्यं प्रति नारदप्रश्नः नारदः - मन्त्रग्रामानशेषांस्तान् सूर्यवैश्वानरोपमान् | अनायासेन जग्राह हरेश्चक्रं सुदर्शनम् || २-१ || सांसिद्धिकप्रभावोऽयमस्य सांसर्गिकोऽपि वा | किं तत् सुदर्शनं नाम कश्च शब्दार्थ उच्यते || २-२ || अहिर्बुध्न्येन संकर्षणात् स्वस्य ज्ञानप्राप्तिकथनम् अहिर्बुध्न्यः - शृणु नारद तत्त्वेन यत् तज्ज्ञानमनुत्तमम् | वर्षायुतगणान् घोरं तपस्तप्त्वा मया पुरा || २-३ || प्राप्तं संकर्षणात् साक्षाद् विज्ञानबलवारिधेः | ब्रह्मादिषु यदन्येषु न महर्षिषु विद्यते || २-४ || सुदर्शनस्वरूपं तत् प्रोच्यमानं मया शृणु | श्रुते यत्राखिलाधारे संशयास्ते न सन्ति वै || २-५ || प्. १३) परब्रह्मस्वरूपसंक्षेपः अनाद्यन्तं परं ब्रह्म यत् तदक्षरमव्ययम् | अनामरूपसंभेद्यमवाङ्मनसगोचरम् || २-६ || सर्वशक्ति समस्ताख्यं षाड्गुण्यमजरं ध्रुवम् | सुदर्शनशब्दार्थनिरूपणम् तस्य स्यामिति संकल्पो भावतोऽभावतोऽपि वा || २-७ || स्वातन्त्र्याननुयोज्येन रूपेण परिवर्तते | यत् तत् प्रेक्षणमित्युक्तं दर्शनं तत् प्रगीयते || २-८ || वस्तुतः कालतो देशात् तस्य त्वव्याहतिर्हि या | पूजा सात्र सुशब्दार्थस्तत् सुदर्शनमीर्यते || २-९ || सर्वस्य सुदर्शनाधीनत्वम् कारणं जगतो यत् तदाधारो जगतश्च यः | प्रमाणं जगतो यत् तत् प्रमाणार्थोऽखिलश्च यः || २-१० || तत्राधिकारिणो ये च विभागा ये च तद्गताः | रक्षाविधिश्च यस्तस्य स च यस्य प्रकीर्तितः || २-११ || सर्वं सुदर्शनायत्तं सुदर्शनमयं च यत् | इति सांसिद्धिकं रूपं तस्य सर्वातिशायि च || २-१२ || प्. १४) अस्त्रग्रामेष्वशेषेषु यत् तत् सामर्थ्यमैश्वरम् | एतदीयमशेषं तदित्याप्तं स्वेन तत् स्वकम् || २-१३ || पुनर्नारदकृताः प्रश्नाः नारदः - देवदेव जगन्नाथ लोकत्रितयशंकर | विमुह्यतीव चित्तं मे संशयो बहुलीकृतः || २-१४ || षाड्गुण्यं किं परं ब्रह्म किंप्रकारं च तद्भवेत् | संकल्पः कीदृशस्तस्य कथं दर्शनतास्य च || २-१५ || कथं चाविहतिस्तस्य सर्वदेशातिगोचरा | किं कारणं च जगतः कीदृशं किंविधं च तत् || २-१६ || को वा जगत आधारः कीदृक् कतिविधश्च सः | किं तत् प्रमाणमित्युक्तं कीदृक् कतिविधं च तत् || २-१७ || प्रमाणार्थश्च को नाम कीदृक् कतिविधश्च सः | के तेऽधिकारिणो नाम कीदृशाः किंविधाश्च ते || २-१८ || सर्वस्यास्य च का रक्षा तद्विधिः कश्च किंविधः | कश्च तत्राधिकार्यर्थः स च किंगुण इष्यते || २-१९ || एतन्मे भगवन् ब्रूहि प्रश्नजातमशेषतः | उपसंगृह्य चरणावुपसन्नोऽस्म्यधीहि भोः || २-२० || प्. १५) दुर्वासाः - ततो दर्शनपूताय प्रणिपत्याभियाचते | उपसन्नाय मुनये सर्वं व्याचष्ट शंकरः || २-२१ || विस्तरेण परब्रह्मस्वरूपनिरूपणम् अहिर्बुध्न्यः - एकं निर्दुःखनिःसीमसुखानुभवलक्षणम् | अनाद्यन्तं परं ब्रह्म नारायणमनामयम् || २-२२ || सर्वभूतकृतावासं सर्वं व्याप्य व्यवस्थितम् | निरवद्यमविक्षिप्तमतरङ्गार्णवोपमम् || २-२३ || परब्रह्मणः हेयप्रतिभटत्वं कल्याणगुणाकारत्वं च अप्राकृतगुणस्पर्शमप्राकृतगुणास्पदम् | भवोदधेः परं पारं निष्कलङ्कं निरञ्जनम् || २-२४ || आकाराद् देशतः कालादनवच्छेदयोगतः | पूर्णं नित्योदितं व्यापि हेयोपादेयतोज्झितम् || २-२५ || इदमीदृगियत्ताभिरपरिच्छेद्यमञ्जसा | परब्रह्मणः परमात्मादिसकलशब्दवाच्यत्वम् उपर्युपरि तत्त्वानां पूर्वपूर्वात्मभाविनाम् || २-२६ || पारम्येणात्मभावित्वात् परमात्मा प्रकीर्तितः | ओमित्यापन्नयोगेन सर्वतत्त्वप्रवेशतः || २-२७ || प्. १६) षाड्गुण्यगुणयोगेन भगवान् परिकीर्तितः | समस्तभूतवासित्वाद् वासुदेवः प्रकीर्तितः || २-२८ || आप्नोति जगदित्येवमात्मत्वेन निरूपितः | रूपात् प्रकारतोऽव्यक्तेरव्यक्तः परिगीयते || २-२९ || सर्वप्रकृतिशक्तित्वात् सर्वप्रकृतिरीरितः | प्रधीयमानकार्यत्वात् प्रधानः परिगीयते || २-३० || नेतृत्वादनितृत्वाच्च नित्य इत्यपि पठ्यते | अननाददनाच्चापि ह्यनन्तः परिपठ्यते || २-३१ || परितो मित्यभावाच्च प्रोक्तोऽपरिमितो वुधैः | अक्षयादक्षरः प्रोक्तो ह्यरिष्टो रिष्टवर्जनात् || २-३२ || अविकार्यस्वभावत्वादव्याप्यत्वात् तथाच्युतः | रागादिदोषनिर्मुक्तेः समधीगोचरत्वतः || २-३३ || सर्वोपादानतासाम्यात् समः संपरिकीर्तितः | ध्यानवर्त्मबहिर्भावात् स्वभावाननुयोगतः || २-३४ || इयत्तयाप्यचिन्त्यत्वादचिन्त्यः परिकीर्तितः | जगन्ति प्रभवन्त्यस्मात् सर्वत्र प्रभवत्यपि || २-३५ || प्रकृष्टश्च भवो यस्मात् प्रभवः परिकीर्तितः | सर्वप्रलयभूमित्वादव्ययो व्ययनाशनात् || २-३६ || बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मेति श्रुतिगह्वरे | कपिलः श्रेष्ठविद्यत्वात् तेजिष्ठत्वाच्च कापिलः || २-३७ || प्. १७) हितश्च रमणीयश्च गर्भो हृदयनामवान् | हिरण्यगर्भ इत्येवं योगिभिः समुदाहृतः || २-३८ || अपनाशतपोयोगादपान्तरतपाः श्रुतः | शिवंकरतया प्रोक्तः शिवः पाशुपते स्थितैः || २-३९ || अदूरविप्रकर्षस्थैर्वस्तुतोऽनवगाहिभिः | इत्येवमादिभिः शब्दैस्तत्त्वं तदुपलक्ष्यते || २-४० || प्रतिबन्धविगमे ब्रह्मानुभवसंभवः अनेकजन्मसंसिधपुण्यपापपरिक्षये | निकृत्ते वासनाजाले सम्यग्विज्ञानशस्त्रतः || २-४१ || त्रैगुण्योपरमे तत्तु स्वेनानुभवितुं क्षमम् | साक्षादिदमिति व्यक्तं वाचा वक्तुं न शक्नुमः || २-४२ || ब्रह्मणः प्रयत्नलभ्यत्वविरहः संवत्सरसहस्राणि पक्षिराडिव संपतन् | नैवान्तं कारणस्यैति यद्यपि स्यान्मनोजवः || २-४३ || उपर्युपरि गच्छन्तो विशिक्षन्तस्तथा तथा | ज्ञानोद्यमदशायास्ते न व्यक्तिमधिकां गताः || २-४४ || तत्र सर्वाणि तत्त्वानि निषीदन्ति परात्मनि | प्. १८) भावाभावावुभौ प्रोतौ ज्ञानसूत्रमयात्मना || २-४५ || ब्रह्मणः त्रिविधपरिच्छेदशून्यत्वम् सर्वप्रत्यक्षदर्शित्वात् सर्वात्मा तत् परं पदम् | अतीतानागते काले मध्यतः प्रतिसंहृते || २-४६ || वर्तमानं न तद् ब्रह्म नातीतं नैव भावि तत् | अग्रतः पृष्ठतो नैव नोर्ध्वतः पार्श्वयोर्द्वयोः || २-४७ || न कल्माषं न विकलं न कृष्णं न च पिङ्गलम् | न सारङ्गं पिशङ्गं न कपिलं नारुणं न च || २-४८ || न बभ्रु नकुलं नैव न श्यामं न च रोहितम् | न दीर्घं नैव च ह्रस्वं न स्थूलं नैव चाप्यणु || २-४९ || न वृत्तं नाप्यपावृत्तं नाश्रितं तदनाश्रितम् | नैव भावो न चाभावस्तद्भावार्चितये न च || २-५० || न शीतं नापि चैवोष्णं नानुष्णाशीतमप्युत | न दुःखं न सुखं नैव निर्दुःखं सुखमव्रणम् || २-५१ || न मूलं नापि तन्मध्यं नैवान्तं कस्याचिन्मुने | न शेते तन्न चैवास्ते न तिष्ठति न गच्छति || २-५२ || सर्वद्वन्द्वविनिर्मुक्तं सर्वोपाधिविवर्जितम् | षाड्गुण्यं तत् परं ब्रह्म सर्वकारणकारणम् || २-५३ || प्. १९) नारदः - किं तत् षाड्गुण्यमित्युक्तं देवदेव जगत्पते | कथं च गुणहीनं तत् षाड्गुण्यं परिगीयते || २-५४ || ब्रह्मणः षाड्गुण्यप्रपञ्चनम् अहिर्बुध्न्यः - अप्राकृतगुणस्पर्शं निर्गुणं परिगीयते | शृणु नारद षाड्गुण्यं कथ्यमानं मयानघ || २-५५ || ज्ञानस्वरूपनिरूपणम् अजडं स्वात्मसंबोधि नित्यं सर्वावगाहनम् | ज्ञानं नाम गुणं प्राहुः प्रथमं गुणचिन्तकाः || २-५६ || ब्रह्मणो ज्ञानस्वरूपत्वं ज्ञानगुणकत्वं च स्वरूपं ब्रह्मणस्तच्च गुणश्च परिगीयते | शक्तिस्वरूपनिरूपणम् जगत्प्रकृतिभावो यः सा शक्तिः परिकीर्तिता || २-५७ || ऐश्वर्यस्वरूपनिरूपणम् कर्तृत्वं नाम यत् तस्य स्वातन्त्र्यपरिबृंहितम् | ऐश्वर्यं नाम तत् प्रोक्तं गुणतत्त्वार्थचिन्तकैः || २-५८ || बलस्वरूपनिरूपणम् श्रमहानिस्तु या तस्य सततं कुर्वतो जगत् | प्. २०) बलं नाम गुणस्तस्य कथितो गुणचिन्तकैः || २-५९ || वीर्यस्वरूपनिरूपणम् तस्योपादानभावेऽपि विकारविरहो हि यः | वीर्यं नाम गुणः सोऽयमच्युतत्वापराह्वयम् || २-६० || तेजःस्वरूपनिरूपणम् सहकार्यनपेक्षा या तत् तेजः समुदाहृतम् | शक्त्यादिगुणपञ्चकस्य ज्ञानगुणप्रकारत्वम् एते शक्त्यादयः पञ्च गुणा ज्ञानस्य कीर्तिताः || २-६१ || ज्ञानमेव परं रूपं ब्रह्मणः परमात्मनः | षाड्गुण्यं तत् परं ब्रह्म स्वशक्तिपरिबृंहितम् | बहु स्यामिति संकल्पं भजते तत् सुदर्शनम् || २-६२ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां षाड्गुण्यब्रह्मविवेको नाम द्वितीयोऽध्यायः || २ || आदितः श्लोकाः १३६ वैश्वरूप्यसंक्षेपो नाम तृतीयोऽध्यायः नारदः - षाड्गुण्यं तत् कथं ब्रह्म स्वशक्तिपरिबृंहितम् | तस्य शक्तिश्च का नाम यया बृंहितमुच्यते || ३-१ || सर्ववस्तूनां शक्तिरपृथक्सिद्धविशेषणम् अहिर्बुध्न्यः - शक्तयः सर्वभावानामचिन्त्या अपृथक्स्थिताः | स्वरूपे नैव दृश्यन्ते दृश्यन्ते कार्यतस्तु ताः || ३-२ || सूक्ष्मावस्था हि सा तेषां सर्वभावानुगामिनी | इदंतया विधातुं सा न निषेद्धुं च शक्यते || ३-३ || शक्तीनामपर्यनुयोज्यत्वम् सर्वैरननुयोज्या हि शक्तयो भावगोचराः | परब्रह्मणोऽपि शक्तिरपृथक्सिद्धविशेषणम् एवं भगवतस्तस्य परस्य ब्रह्मणो मुने || ३-४ || सर्वभावानुगा शक्तिर्ज्योत्स्नेव हिमदीधितेः | प्. २२) भावाभावानुगा तस्य सर्वकार्यकरी विभोः || ३-५ || स्वातन्त्र्यरूपा सा विष्णोः प्रस्फुरत्ता जगन्मयी | उदितानुदिताकारा निमेषोन्मेषरूपिणी || ३-६ || भगवच्छक्तेरानन्दादिशब्दाभिधेयत्वम् निरपेक्षतयानन्दा स्वतन्त्रा नित्यपूरणात् | स्वात्मभित्तिसमुन्मीलत्परावरजगत्स्थितिः || ३-७ || नित्या कालापरिच्छेदात् पूर्णाकारावियोगतः | व्यापिनी देशविभ्रंशाद्रिक्ता पूर्णा च सर्वदा || ३-८ || जगत्तया लक्ष्यमाणा सा लक्ष्मीरिति गीयते | श्रयन्ती वैष्णवं भावं सा श्रीरिति निगद्यते || ३-९ || अव्यक्तकालपुंभावात् सा पद्मा पद्ममालिनी | कामदानाच्च कमला पर्याप्तसुखयोगतः || ३-१० || विष्णोः सामर्थ्यरूपत्वाद् विष्णुशक्तिः प्रगीयते | पालयन्ती हरेर्भावं विष्णुपत्नी प्रकीर्तिता || ३-११ || जगदाकारसंकोचात् स्मृता कुण्डलिनी बुधैः | अनाहता बुधैः प्रोक्ता मनोवागाद्यनाहतेः || ३-१२ || परमानन्दसंबोधा मन्त्रसूक्ष्मतयापि च | प्. २३) शुद्धसत्त्वाश्रयाद् गौरी ह्यदितिश्चाविशेषणात् || ३-१३ || सर्वपुण्यकरीभावान्महीयस्यपि सा मही | तथानाहतशीर्ष्णी चानाहतोऽभ्युदयो यतः || ३-१४ || प्राणयन्ती स्वसंवित्त्या जगत्प्राणा इतीर्यते | पराहतासुरूपत्वान्मन्त्रमाता प्रकीर्तिता || ३-१५ || त्रायन्ती गायतः सर्वान् गायत्त्रीत्यभिधीयते | प्रकुर्वती जगत् स्वेन प्रकृतिः परिगीयते || ३-१६ || मिमीते च तता चेति सा माता परिकीर्तिता | सर्वेषामविपर्यासाच्छिवंकरतया शिवा || ३-१७ || तरुणी काम्यमानत्वात् तारा संसारतारणात् | अविपर्यासरूपत्वात् सत्या सत्यद्वयान्वयात् || ३-१८ || शान्ताशेषविकारत्वाच्छान्ता सा चिन्त्यते बुधैः | मोहानपनयन्ती सा मोहिनी मोहनादपि || ३-१९ || इडा हविरधिष्ठानादिष्यमाणतयापि च | रमयन्तीति सा रन्ती रतिश्च परिकीर्तिता || ३-२० || विश्रुतिर्विश्रुता सद्भिः स्मारयन्ती सरस्वती | अनवच्छिन्नभासत्वान्महाभासाभिधीयते || ३-२१ || नामधेयैरियं तैस्तैर्नानाशास्त्रसमाश्रयैः | प्. २४) अन्वर्थैर्दर्शिताशेषविभवा वैष्णवी परा || ३-२२ || उदधेरिव च स्थैर्यं महत्तेव विहायसः | प्रभेव दिवसेशस्य ज्योत्स्नेव हिमदीधितेः || ३-२३ || विष्णोः सर्वाङ्गसंपूर्णा भावाभावानुगामिनी | शक्तिर्नारायणी दिव्या सर्वसिद्धान्तसंमता || ३-२४ || शक्तिमतः शक्तिर्भिन्ना देवाच्छक्तिमतो भिन्ना ब्रह्मणः परमेष्ठिनः | एष चैषा च शास्त्रेषु धर्मधर्मिस्वभावतः || ३-२५ || भवद्भावस्वरूपेण तत्त्वमेकमिवोदितौ | स्वातन्त्र्येण स्वरूपेण विष्णुपत्नीयमद्भुता || ३-२६ || यतो जगद्भविष्यन्ती क्वचिदुन्मेषमृच्छति | शक्तेः द्वैविध्यम् भूतिशक्तेः त्रैविध्यम् सहस्रायुतकोट्योघकोटिकोट्यर्बुदांशकः || ३-२७ || लक्ष्मीमयः समुन्मेषः स द्विधा व्यवतिष्ठते | क्रियाभूतिविभेदेन भूतिः सा च त्रिधा मता || ३-२८ || अव्यक्तकालपुंभावात् तेषां रूपं प्रवक्ष्यते | प्. २५) क्रियाशक्तेः भूतिशक्तिप्रवर्तकत्वम् क्रियाख्यो योऽयमुन्मेषः स भूतिपरिवर्तकः || ३-२९ || लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते | स्वातन्त्र्यमूल इच्छात्मा प्रेक्षारूपः क्रियाफलः || ३-३० || उन्मेषो यः सुसंकल्पः सर्वत्राव्याहतः कृतौ | अव्यक्तकालपुंरूपां चेतनाचेतनात्मिकाम् || ३-३१ || भूतिं लक्ष्मीमयीं विष्णोः शक्तिं संभावयत्यसौ | अव्यक्तं परिणामेन कालं कलनकर्मणा || ३-३२ || पुरुषं भोजनोद्योगैः सर्गे संयोजयत्ययम् | सामर्थ्यत्रितयादानाद् वियोजयति संचरे || ३-३३ || विषमे परिणामे यत् सामर्थ्यं त्रिगुणात्मनः | सृष्टौ दधाति तत् तस्मिन् विपर्यासं च संहृतौ || ३-३४ || अव्यक्तपुरुषोद्योगसंयोजनविधिक्रमम् | काले दधाति सर्गादौ विपर्यासं च संहृतौ || ३-३५ || पुंसश्च वुद्धिसामर्थ्यमसामर्थ्यं च भोजने | संकल्पः कुरुते विष्णोः सर्गप्रतिविसर्गयोः || ३-३६ || त्रीनेतान् संहतान् सृष्टौ विहतान् प्रतिसंचरे | दधाति स्वेन रूपेण गुणो मणिगणानिव || ३-३७ || स्थितौ च कुरुते रक्षां तेषां कार्यसमीक्षणात् | प्. २६) सर्वत्राव्याहतत्वं यत् तत् सुदर्शनलक्षणम् || ३-३८ || क्रियाशक्तेः वैविध्येन सर्वभावानुयायित्वम् सोऽयं सुदर्शनं नाम संकल्पः स्पन्दनात्मकः | विभज्य बहुधा रूपं भावे भावेऽवतिष्ठते || ३-३९ || वैविध्यप्रपञ्चनम् व्याप्तिं सुदर्शनस्येमां प्रोच्यमानां मया शृणु | यज्ज्ञात्वा पुरुषो लोके कृतकृत्यत्वमश्नुते || ३-४० || षाड्गुण्यं यत् परं ब्रह्म या गतिर्योगिनां परा | नारायणः स विश्वात्मा भावाभावमिदं जगत् || ३-४१ || निष्कलेन स्वरूपेण यदा प्राप्य नियच्छति | सदा सत्ता हि या तस्य जगन्निर्माणशक्तिका || ३-४२ || सर्वभावात्मिका लक्ष्मीरहंता परमात्मनः | तद्धर्मधर्मिणी देवी भूत्वा सर्वमिदं जगत् || ३-४३ || निष्कलेन स्वरूपेण सापि तद्वन्नियच्छति | तदीयैका कला भूतिर्जगद्भवनसंज्ञिता || ३-४४ || व्यापारो वास्तवस्तत्र जगन्नियमनात्मकः | निष्कला या क्रियाशक्तिर्लक्ष्म्याः सौदर्शनी कला || ३-४५ || प्. २७) भजेते तौ यदा रूपं मनोनयननन्दनम् | रक्षायै जगतामीशौ चक्रपद्मे तदा क्रिया || ३-४६ || रक्षोपकरणं देवौ तौ यावद्यावदिच्छतः | शङ्खशार्ङ्गादिरूपेण तावत् तावत् सुदर्शनम् || ३-४७ || प्रकाशाह्लादपातैर्यद्विश्वस्योपचिकीर्षतः | सूर्येन्दुवह्निरूपेण तदा चक्रं सुदर्शनम् || ३-४८ || देवदैत्यादिकान् भावान् यदा तौ भजतः स्वयम् | तत्तदस्त्रमयी देवी तदा सौदर्शनी क्रिया || ३-४९ || यदा विश्वोपकाराय शास्त्रं नानाफलाश्रयम् | कुरुतः सा क्रिया तत्र शासनं हृदयस्थितम् || ३-५० || यदा तौ भवतः शास्त्रं विश्वोपकृतये विभू | तदा सा शास्त्रतात्पर्यं क्रिया सौदर्शनी कला || ३-५१ || शास्त्राधिकारिणो नाम यदा तौ पितरौ ध्रुवौ | अधिकारस्तदा तेषां क्रियाशक्तिः सुदर्शनम् || ३-५२ || यदा शास्त्रार्थभूतौ तौ फलसाधनसंश्रयात् | फलप्रसवसामर्थ्यं क्रिया तत्र सुदर्शनम् || ३-५३ || पुरुषार्थास्तु चत्वारो यदा तौ भवतः स्वयम् | आत्मतर्पणसामर्थ्यं तदा चक्रं सुदर्शनम् || ३-५४ || प्. २८) यदा मन्त्रमयीं रक्षां भजतो जगतां हिते | मन्त्रयन्त्रमयी देवी क्रियाशक्तिस्तदा त्वियम् || ३-५५ || वैश्वरूप्यस्य संक्षेपः क्रियाशक्तेः प्रदर्शितः | सुदर्शनात्मिकायास्ते किं भूयः श्रोतुमिच्छसि || ३-५६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां क्रियाशक्तेर्वैश्वरूप्यप्रदर्शनं नाम तृतीयोऽध्यायः || ३ || आदितः श्लोकाः १९२ प्रतिसंचरवर्णनं नाम चतुर्थोऽध्यायः नारदः - भगवन् देवदेवेश सर्वज्ञ वृषकेतन | किं तत् कारणमित्युक्तं सृष्टये यत् प्रवर्तते || ४-१ || सुदर्शनेन यद् व्याप्तं रूपतः कार्यतोऽर्थतः | विस्तरेण ममाचक्ष्व जगतः कारणं परम् || ४-२ || प्राकृतप्रलयवर्णनम् अहिर्बुध्न्यः - प्रोच्यमानं मया तत्त्वं कारणस्यावधारय | तत्र तावन्निबोधेमं प्राकृतं प्रतिसंचरम् || ४-३ || येन कालेन सा विद्या प्रकृतिर्मूलसंज्ञिता | सस्यादिसृष्टये धेनुरभवन्मेघरूपिणी || ४-४ || कालेन तावता सा तु चिकीर्ष्ये प्रतिसंचरे | अधेनुर्नीरसा शुष्का भवत्यव्यक्तसंज्ञिता || ४-५ || नारदः - कालेन कियता सर्गः सा धेनुः कामरूपिनी | प्. ३०) अधेनुः सा भवेद् देवी यावता प्रतिसंचरे || ४-६ || प्रतिसंचरकालपरिमाणम् अहिर्बुध्न्यः - अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला | तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादश स्मृतः || ४-७ || ते तु पञ्चदशाहः स्यात् तावती रात्रिरिष्यते | ते पञ्चदश पक्षः स्यात् पक्षौ द्वौ मास इष्यते || ४-८ || संवत्सरो मानुषस्तु तैर्द्वादशभिरिष्यते | काम्यः षोडशभिस्तैस्तु काम्याब्दानां तथा मुने || ४-९ || विद्या धेनुरधेनुश्च भवेत् कालेन तावता | अधेन्वां तु ततस्तस्यां चिकीर्ष्ये प्रतिसंचरे || ४-१० || सर्वस्य पृथिव्यां लयः नीरसं शुष्कमेवासीज्जगदेतच्चराचरम् | महावातेन संशुष्कं संदग्धं च महाग्निना || ४-११ || आ शैलादा तृणाच्चैव यदा भूमौ समुन्नतम् | मानवेषु लयं यान्ति तदा मानवमानवाः || ४-१२ || प्. ३१) मनुष्वेव लयं यान्ति मानवास्ते चतुःशतम् | एवं चेतनवर्गे तु मनुष्वेव लयं गते || ४-१३ || मिथुनान्येव चत्वारि मनूनां केवलानि तु | कूर्मपृष्ठसमानायां भुवि तिष्ठन्ति वै मुने || ४-१४ || पृथिव्या अप्सु लयः नारायणस्य संकल्पादव्याहतसुदर्शनात् | भूमेर्गन्धात्मकं सारं ग्रसन्त्यापस्तदा मुने || ४-१५ || आत्तगन्धा यदा भूमिरम्भसा कारणात्मना | अतिभूय तदा पृथ्वीं मनवोऽप्सु व्यवस्थिताः || ४-१६ || भूमिस्त्वात्तरसा शश्वज्जहाति व्यक्तिनामनी | प्रभवन्त्याप एतर्हि जगदेतच्चराचरम् || ४-१७ || अपां तेजसि लयः संकल्पादेव पूर्वस्मात् सुदर्शनमयाद्धरेः | अपामपि रसं सारं ज्योतिर्ग्रसति कारणम् || ४-१८ || अतिभूय तदापस्तु मनवो ज्योतिषि स्थिताः | आपश्चात्तरसाः शश्वज्जहति व्यक्तिनामनी || ४-१९ || देदीप्यमानमेतर्हि ज्योतिरेव जगन्मुने | प्. ३२) तेजसो वायौ लयः संकल्पचोदितो विष्णोर्वायुः कारणसंज्ञितः || ४-२० || ज्योतिषोऽप्यान्तरं रूपं सारं ग्रसति तद् ध्रुवम् | संकल्पचोदिता विष्णोर्मनवोऽपि तदा मुने || ४-२१ || अतिभूयाखिलं ज्योतिर्वायुमेव श्रयन्ति ते | आत्तरूपं तदा ज्योतिर्जहाति व्यक्तिनामनी || ४-२२ || वायुर्दोधूयमानस्तु जगदेतच्चराचरम् | वायोराकाशे लयः ततः कारणमाकाशं विष्णोः संकल्पचोदितम् || ४-२३ || सारं ग्रसति संस्पर्शं कारणं वै नभस्वतः | सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने || ४-२४ || न भस्येवावतिष्ठन्ते व्यतिभूय समीरणम् | आत्तस्पर्शस्तदा वायुर्जहाति व्यक्तिनामनी || ४-२५ || भृशं शब्दायमानं तद्वियद्विश्वं चराचरम् | आकाशस्याहंकारे लयः क्रियाशक्तीरितो विष्णोरहंकारोऽभिमानवान् || ४-२६ || सारं ग्रसति शब्दाख्यं कारणं नभसो मुने | तयैव प्रेरिता विष्णोरतिभूय वियत्पदम् || ४-२७ || प्. ३३) अहंकारेऽवतिष्ठन्ते मनवो भगवन्मयाः | आत्तशब्दं वियत् तच्च जहाति व्यक्तिनामनी || ४-२८ || अहमित्येव तद्विश्वमहंकारात्मकं मुने | अहंकारस्य बुद्धौ लयः अभिमानात्मकं सारमहंकारस्य कारणम् || ४-२९ || सुदर्शनेरिता विष्णोर्बुद्धिर्ग्रसति वै मुने | सुदर्शनेरिता विष्णोरतिभूय त्वहंकृतिम् || ४-३० || बुद्धावेवावतिष्ठन्ते मनवोऽष्टौ महामुने | आत्ताभिमानोऽहंकारो जहाति व्यक्तिनामनी || ४-३१ || बुद्धिरेवेदमखिलं व्यवसायवती मुने | बुद्धेस्तमसि लयः सारमध्यवसायाख्यं बुद्धेः कारणमव्ययम् || ४-३२ || सुदर्शनेरितं विष्णोस्तमो ग्रसति कारणम् | सुदर्शनेरिता विष्णोर्मनवोऽपि महामुने || ४-३३ || अतिभूय तदा बुद्धिं तमस्येव श्रिताः स्थितिम् | आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् || ४-३४ || अप्रतर्क्यमविज्ञेयं संस्तब्धं गुरु मोहनम् | इन्द्रियाणां भूतैः सह तत्तत्कारणेषु लयः घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम् || ४-३५ || प्. ३४) पायूपस्थं तथा पादौ हस्तौ वाक् चैव पञ्चमी | द्वयोः पञ्चकयोर्द्वन्द्वं घ्राणपायवादिकं क्रमात् || ४-३६ || महीजलादिभिर्हेतौ लीयमानैः स्वके स्वके | समं विलयमायाति सह घ्राणादिवृत्तिभिः || ४-३७ || मनोऽहंकार इत्येतत् सवृत्ति करणद्वयम् | अहंकारे लयं याति बुद्धौ बोधनमिन्द्रियम् || ४-३८ || तम एवेदमखिलमिदानीमवतिष्ठते | तमसो रजसि लयः स्थितिशक्तिर्हि या चास्य तमसो गुरुतामयी || ४-३९ || रजो ग्रसति तां शश्वदीश्वरेच्छाप्रचोदितम् | इच्छया प्रेरिता विष्णोर्मनवोऽपि महामुने || ४-४० || रजस्येवावतिष्ठन्ते व्यतिभूय तमोगतिम् | आत्तसारं तमस्तत्तु जहाति व्यक्तिनामनी || ४-४१ || चलकिर्यात्मकं दुःखं रज एव जगत् तदा | रजसः सत्त्वे लयः या सा स्पन्दमयी शक्तिश्चलत्तात्मा रजोमयी || ४-४२ || तां वै सुदर्शनादिष्टं सत्त्वं ग्रसति कारणम् | रजःस्था मनवश्चैव विष्णुसंकल्पचोदिताः || ४-४३ || प्. ३५) अतिभूय रजः सत्त्वं विशन्ति विमलं मुने | आत्तसारं रजस्तत्तु जहाति व्यक्तिनामनी || ४-४४ || लघु प्रकाशकं सत्त्वमिदमासीच्चराचरम् | सत्त्वस्य काले लयः कालो नाम गुणो विष्णोः सुदर्शनसमीरितः || ४-४५ || सारं प्रज्ञामयं सत्त्वादादत्ते ज्ञानकारणम् | अतिभूय तदा सत्त्वं मनवः कालसंश्रिताः || ४-४६ || काल एव जगत् कृत्स्नमिदमासीत् तदा मुने | आत्तसारं च तत् सत्त्वं जहाति व्यक्तिनामनी || ४-४७ || कालस्य नियतौ लयः काली कालगता शक्तिर्या साशेषप्रकालिनी | नियतिर्नाम तां तत्त्वं ग्रसतीश्वरचोदिता || ४-४८ || सुदर्शनेरितास्ते च मनवोऽष्टौ महामुने | अतीत्य कालतत्त्वं तां नियतिं प्रतिपेदिरे || ४-४९ || आत्तसारस्तदा कालो जहाति व्यक्तिनामनी | नियतिर्नाम सा विश्वमिदमासीच्चराचरम् || ४-५० || नियतेः शक्तौ लयः महाविद्यामयी शक्तिर्नियतेर्या महामुने | शक्तिर्नाम तदा तां तु ग्रसतीश्वरचोदिता || ४-५१ || प्. ३६) मनवोऽपीश्वरादिष्टा नियतिं तामतीत्य वै | शक्तिं मायामयीं विष्णोर्विशन्ति विपुलात्मिकाम् || ४-५२ || नियतिश्चात्तसारा सा जहाति व्यक्तिनामनी | अथ शक्तिरिदं विश्वं जगदासीच्चराचरम् || ४-५३ || शक्तेः कूटस्थपुरुषे लयः आ चैतन्योन्मिषत्तायाः शक्तेः शक्तिः सनातनी | सुदर्शनेरितस्तां तु पुरुषो ग्रसति स्वयम् || ४-५४ || अतीत्य मनवः शक्तिं तं विशन्तीश्वरेरिताः | आत्तसारा तदा शक्तिर्जहाति व्यक्तिनामनी || ४-५५ || सर्वात्मा सर्वतःशक्तिः पुरुषः सर्वतोमुखः | सर्वज्ञः सर्वगः सर्वः सर्वमावृत्य तिष्ठति || ४-५६ || मनूनामेष कूटस्थः पुरुषो द्विचतुर्मयः | कृत्स्नकर्माधिकारो वै देवदेवस्य वै हरेः || ४-५७ || त्रयोदशानां भूम्यादिशक्त्यन्तानां महामुने | विलीनस्वस्वकार्याणां काम्यवर्षशतस्थितिः || ४-५८ || कूटस्थपुरुषस्यानिरुद्धे लयः पुंसस्त्रीणि शतानि स्युस्ततो मनुमयः पुमान् | चतुर्धा स्वं विभज्याथ ब्रह्मक्षत्रादिभावतः || ४-५९ || प्. ३७) स्वे स्वे स्थानेऽनिरुद्धस्य मुखबाह्वादिके मुने | प्रलीयते क्षणेनैव तप्तायः पिण्डवारिवत् || ४-६० || ततोऽसौ भगवानेकः प्रलीनचिदचिन्मयः | शतानि दश षट् चाथ वर्षाणामवतिष्ठते || ४-६१ || अनिरुद्धस्य प्रद्युम्नेऽप्ययः अवस्थाय ततोऽप्येति प्रद्युम्नमजरं विभुम् | निरुध्य सर्वचेष्टाः स्वास्तावत्कालं स तिष्ठति || ४-६२ || प्रद्युम्नस्य संकर्षणेऽप्ययः ततः प्रद्युम्नसंज्ञोऽसौ भगवान् पुष्करेक्षणः | अप्येति भगवन्तं तं संकर्षणमनामयम् || ४-६३ || कालं तिष्ठति तावन्तं सर्वदेवमयोऽच्युतः | चिदचित्खचितं विश्वं शुद्धाशुद्धमशेषतः || ४-६४ || तिलकालकवत् स्वस्य देहे ज्ञानमये दधत् | उदयास्ताचलावेष देवः संकर्षणो बलः || ४-६५ || चिदिन्दोरचिदङ्कस्य कलास्ता अनुधावतः | अहीनमहरेतद्धि संकर्षणमयं परम् || ४-६६ || यत्र नानाविधा भावा व्यज्यन्ते स्वस्वयाख्यया | संकर्षणस्य वासुदेवेऽप्ययः शतानि षोडश स्थित्वा वर्षाणामयमच्युतः || ४-६७ || प्. ३८) अप्येति भगवन्तं तं वासुदेवं सनातनम् | नासदासीत् तदानीं हि नो सदासीत् तदा मुने || ४-६८ || भावाभावौ विलोप्यान्तर्विचित्रविभवोदयौ | अनिर्देश्यं परं ब्रह्म वासुदेवोऽवतिष्ठते || ४-६९ || सा रात्रिस्तत् परं ब्रह्म तदव्यक्तमुदाहृतम् | षण्णां युगानि विज्ञानबलादीनामशेषतः || ४-७० || त्रीणि यस्मिन् प्रलीयन्ते यत् तत् सा रात्रिरुच्यते | संकर्षणादिभूम्यन्तमञ्जनं विगतं यतः || ४-७१ || तदव्यक्तमिति ज्ञेयं समत्वात् सम उच्यते | या सा भगवतः शक्तिरहंता सर्वभावगा || ४-७२ || अपृथक्चारिणी सत्ता महानन्दमयी परा | संकर्षणादिभूम्यन्तस्तस्याः कोट्यंश ईरितः || ४-७३ || सदसच्चिदचिद्रूपैर्यत्र विश्वं प्रकाशते | तस्मिन्नुपरते शश्वद्विश्वकोलाहलोद्गमे || ४-७४ || अलक्ष्या कार्यतः शक्तिर्देवाद्विजहती भिदाम् | प्रतिसंचरिकां शक्तिं क्रियां सौदर्शनीं स्वकाम् || ४-७५ || संहृत्य बिभ्रती तां तु स्थितिं संकल्परूपिणीम् | इन्धनाभावतो ज्वाला वह्निभावं यथा गता || ४-७६ || प्. ३९) ब्रह्मभावं व्रजत्येवं सा शक्तिर्वैष्णवी परा | नारायणः परं ब्रह्म शक्तिर्नारायणी च सा || ४-७७ || व्यापकावतिसंश्लेषादेकं तत्त्वमिव स्थितौ | संकर्षणोदयो यावदहः पौरुषमिष्यते | तावती पौरुषी रात्रिः संहृताखिलवस्तुका || ४-७८ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां प्रतिसंचरवर्णनं नाम चतुर्थोऽध्यायः || ४ || आदितः श्लोकाः २७० शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः अहिर्बुध्न्यः - कार्यकारणवर्गस्य प्रलयोऽयं प्रदर्शितः | सुदर्शनमयीं सृष्टिं तस्य वक्ष्यामि ते मुने || ५-१ || प्रलयावस्थब्रह्मस्वरूपम् प्रसुप्ताखिलकार्यं सर्वतः समतां गतम् | नारायणः परं ब्रह्म सर्वावासमनाहतम् || ५-२ || पूर्णस्तिमितषाड्गुण्यमसमीराम्बरोपमम् | शक्तिरूपाया लक्ष्म्याः क्वचिदुन्मेषः तस्य स्तैमित्यरूपा या शक्तिः शून्यत्वरूपिणी || ५-३ || स्वातन्त्र्यादेव कस्माच्चित् क्वचित् सोन्मेषमृच्छति | आत्मभूता हि या शक्तिः परस्य ब्रह्मणो हरेः || ५-४ || देवी विद्युदिव व्योम्नि क्वचिदुद्द्योतते तु सा | शक्तिर्विद्योतमाना सा शक्तिरित्युच्यतेऽम्बरे || ५-५ || शक्तेर्विविधभावव्यञ्जकत्वम् व्यनक्ति विविधान् भावान् शुद्धाशुद्धान् समूर्तिकान् | प्. ४१) तस्या उन्मेषमृच्छन्त्याः स्वातन्त्र्यं यत् स्वनिर्मितम् || ५-६ || प्रेक्षणात्मा स संकल्पस्तत् सुदर्शनमुच्यते | सा क्रिया तद्धरेर्वीर्यं तत् तेजश्च बलं च तत् || ५-७ || व्यज्यन्ते ये च ते भावाः स्वभित्तिपरिवर्तिताः | सा भूतिर्विष्णुशक्तिः सा शक्तेः कोट्यंशकल्पिता || ५-८ || बहुभिर्द्वन्द्वभावैः सा शक्तिर्भूतमयी स्थिता | शुद्धाशुद्धविभागेन चेत्यचेतनरूपतः || ५-९ || काल्यकालविभेदेन व्यक्ताव्यक्तविभागतः | व्यङ्ग्यव्यञ्जनरूपेण वाच्यवाचकभेदतः || ५-१० || भोग्यभोक्तृविभेदेन देहदेहिविभेदतः | अन्यैश्चैवंप्रकारैः सा द्वन्द्वभेदैर्विभज्यते || ५-११ || एवं प्रकारभेदेन या शक्तिर्हेतुतां गता | तां विजानीहि देवर्षे दिव्यां सौदर्शनीं कलाम् || ५-१२ || समीर्यते यथा वह्निर्मेघो वापि समीरणात् | तथा सुदर्शनेनैव विभूतिः प्रेर्यते कला || ५-१३ || आनुलोम्येन सर्गे तु प्रातिलोम्येन संहृतौ | यथा संप्रेर्यमाणा सा सुदर्शननभवस्वता || ५-१४ || प्. ४२) दधाति विविधान् भावांस्तथा मे गदतः शृणु | शुद्धसृष्टिप्रपञ्चनम् तत्र शुद्धमयं सर्गं विभूतेः प्रथमं शृणु || ५-१५ || यत् तत् षाड्गुण्यमित्युक्तं ज्ञानैश्वर्यबलादिकम् | युगैस्तस्य त्रिभिः शुद्धा सृष्टिर्भूतेः प्रवर्तते || ५-१६ || गुणयुग्मत्रयात् व्यूहत्रयाविर्भावः तत्र ज्ञानबलद्वन्द्वाद्रूपं सांकर्षणं हरेः | ऐश्वर्यवीर्यसंभेदाद्रूपं प्राद्युम्नमुच्यते || ५-१७ || शक्तितेजःसमुत्कर्षादानिरुद्धी तनुर्हरेः | एते शक्तिमया व्यूहा गुणोन्मेषस्वलक्षणाः || ५-१८ || व्यूहत्रयेऽपि षाड्गुण्यानुवृत्तिः षाड्गुण्यविग्रहा देवाः पुरुषाः पुष्करेक्षणाः | तत्र तत्रावशिष्टं यद् गुणानां द्वियुगं मुने || ५-१९ || अनुवृत्तिं भजत्येव तत्र तत्र यथायथम् | त्रिधा चातुरात्म्यस्थितिः व्याप्तिमात्रं गुणोन्मेषो मूर्तीकार इति त्रिधा || ५-२० || चातुरात्म्यस्थितिर्विष्णोर्गुणव्यतिकरोद्भवा | प्. ४३) तत्र ज्ञानमयत्वेन देवः संकर्षणो बली || ५-२१ || व्यनक्त्यैकान्तिकं मार्गं भगवत्प्राप्तिसाधनम् | प्रद्युम्नस्य कृत्यम् वीर्यैश्वर्यमयो देवः प्रद्युम्नः पुरुषोत्तमः || ५-२२ || स्थितः शास्त्रार्थभावेन भगवत्प्राप्तिवर्त्मना | अनिरुद्धस्य कृत्यम् शास्त्रार्थस्य फलं यत् तद् भगवत्प्राप्तिलक्षणम् || ५-२३ || प्रापयत्यनिरुद्धः सन् साधकान् पुरुषोत्तमः | शास्त्रशास्त्रार्थतत्साध्यफलनिर्वाहका इमे || ५-२४ || पुरुषाः पुण्डरीकाक्षा व्यूहाः शक्तिमया हरेः | परवासुदेवेन सह व्यूहस्य चातुरात्म्यम् भगवान् वासुदेवश्च व्यूहाश्चैते त्रयो मुने || ५-२५ || चातुरात्म्यमिदं विद्धि व्यक्ताव्यक्तस्वलक्षणम् | गुणोन्मेषस्वरूपप्रदर्शनम् गुणाः शक्तिमया ये ते ज्ञानैश्वर्यबलादयः || ५-२६ || तेषां युगपदुन्मेषः स्तैमित्यविरहात्मकः | संकल्पकल्पितो विष्णोर्यः स तद्व्यक्तिलक्षणः || ५-२७ || प्. ४४) भगवान् वासुदेवः स परमा प्रकृतिश्च सा | शक्तिर्या व्यापिनो विष्णोः सा जगत्प्रकृतिः परा || ५-२८ || शक्तेः शक्तिमतो भेदाद् वासुदेव इतीर्यते | सिसृक्षोर्वासुदेवात् संकर्षणाविर्भावः सर्वशक्तिमयो देवो वासुदेवः सिसृक्षया || ५-२९ || विभजत्यात्मनात्मानं यः स संकर्षणः स्मृतः | तत्र दृष्टान्तः भानावुदयशैलस्थे प्रभा यद्वद्विजृम्भते || ५-३० || उदयस्थे तथा देवे प्रभा संकर्षणात्मिका | तस्य षोडशशतवर्षप्रतीक्षणम् अव्यापृता शतान्येषा शक्तिस्तिष्ठति षोडश || ५-३१ || संकर्षणात्मिका साक्षाद् विज्ञानबलवारिभिः | अनन्तो भगवान् विष्णुः शक्तिमान् पुरुषोत्तमः || ५-३२ || पूर्णस्तिमितषाड्गुण्यो निस्तरङ्गार्णवोपमः | षण्णां युगपदुन्मेषाद् गुणानां स्वप्रचोदितात् || ५-३३ || अनन्त एव भगवान् वासुदेवः सनातनः | तत्र ज्ञानबलोन्मेषात् स्वसंकल्पप्रचोदितात् || ५-३४ || अनन्त एव भगवान् देवः संकर्षणोऽच्युतः | प्. ४५) प्रद्युम्नाविर्भावः स्थित्वा षोडश वर्षाणि देवः शक्तिमयोऽच्युतः || ५-३५ || अनन्त एव भगवान् प्रद्युम्नः पुरुषोत्तमः | अंशांशेनोदिता शक्तिः प्राद्युम्नी भगवत्प्रभा || ५-३६ || अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश | अनिरुद्धाविर्भावः ततः शक्तिमयो देवः प्रद्युम्नः पुरुषोत्तमः || ५-३७ || शतानि षोडश स्थित्वा स्वसंकल्पप्रचोदितः | अनन्त एव भगवाननिरुद्धो भवत्युत || ५-३८ || अंशांशेनोदिता शक्तिरानिरुद्धी हरेः प्रभा | अव्यापृता शतान्येषा तूष्णीं तिष्ठति षोडश || ५-३९ || व्यूहस्य षोडशशतवर्षानन्तरं सृष्टौ व्यापृतिः शतानि षोडश स्थित्वानिरुद्धः शक्तिमानसौ | तदा व्याप्रियते सृष्टौ पूर्वाभ्यां सह नारद || ५-४० || व्यूहा एते विशालाक्षाश्चत्वारः पुरुषोत्तमाः | व्यूहानां हेयप्रतिभटत्वमनादित्वं च निर्दोषा निरनिष्टाश्च निरवद्याः सनातनाः || ५-४१ || अनन्तमक्षरं चैतच्चातुरात्म्यं महामुने | प्. ४६) निस्तरङ्गदशायां ते निःसत्ताः सक्तचिन्मयाः || ५-४२ || शक्त्यात्मका गुणोन्मेषदशायां ते व्यवस्थिताः | तत्र स्थूलदशायां ते व्यक्तिभावमुपागताः || ५-४३ || जगतामुपकाराय सच्चिदानन्दलक्षणाः | चातुरात्म्यस्य मन -आलम्बनार्थत्वम् मन -आलम्बनायैषा चातुरात्म्यव्यवस्थितिः || ५-४४ || व्यूहात् व्यूहान्तराविर्भावः आम्नासिषुरमुष्याश्च रहस्याम्नायवेदिनः | व्यूहान्तरविभावादीन् भेदान् संकल्पकल्पितान् || ५-४५ || द्वादश व्यूहान्तराणि व्यूहान्तरं दश द्वे च केशवाद्याः प्रकीर्तिताः | वासुदेवात् केशवादित्रयम् केशवादित्रयं तत्र वासुदेवाद् विभाव्यते || ५-४६ || संकर्षणात् गोविन्दादित्रयाविर्भावः संकर्षणाच्च गोविन्दपूर्वं त्रितयमद्भुतम् | प्रद्युम्नात् त्रिविक्रमादित्रयाविर्भावः त्रिविक्रमाद्यं त्रितयं प्रद्युम्नादुदितं मुने || ५-४७ || अनिरुद्धात् हृषीकेशादित्रयाविर्भावः हृषीकेशादिकं तत्त्वमनिरुद्धान्महामुने | प्. ४७) व्यूहान्तरस्य त्रैविध्यम् पराः स्वकारणान्तःस्थाः सूक्ष्मास्ते द्विभुजाः स्मृताः || ५-४८ || चतुर्भुजास्ते विज्ञेयाः स्थूलास्त्रिभुवनेश्वराः | चक्राद्यायुधविन्यासो यन्त्रतन्त्रेऽभिधास्यते || ५-४९ || विभवा एकोनचत्वारिंशत् विभवाः पद्मनाभाद्यास्त्रिंशच्च नव चैव हि | पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः || ५-५० || विद्याधिदेवः कपिलो विश्वरूपो विहंगमः | क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा || ५-५१ || एकाम्भोनिधिशायी च भगवान् कमठेश्वरः | वराहो नारसिंहश्च पीयूषहरणस्तथा || ५-५२ || श्रीपतिर्भगवान् देवः कान्तात्मामृतधारकः | राहुजित् कालनेमिघ्नः पारिजातहरस्तथा || ५-५३ || लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः | न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा || ५-५४ || देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः | नरो नारायणश्चैव हरिः कृष्णस्तथैव च || ५-५५ || ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः | वेदविद्भगवान् कल्की पातालशयनः स्मृतः || ५-५६ || प्. ४८) त्रिंशच्च नव चैवेते पद्मनाभादयो मताः | तेषामुत्पत्त्यादिकं सात्त्वतादौ ज्ञेयम् यतश्चैषां समुत्पत्तिर्यो व्यापारो यदायुधम् || ५-५७ || या मूर्तिर्यादृशी चैव यत्र चैते व्यवस्थिताः | भूषणानि विचित्राणि वासांसि विविधानि च || ५-५८ || बाह्यान्तःकरणानां च त्रयो वर्गाः सवृत्तयः | संकल्पनिर्मिता शक्तिर्या तत्तत्कार्यगोचरा | सात्त्वते शासने सर्वं तत्तदुक्तं महामुने || ५-५९ || अध्यायार्थोपसंहारः इतीयं शुद्धसृष्टिस्ते विष्णोः संकल्पकल्पिता | भूत्यंशो लेशतः प्रोक्तः शृणु सृष्टिमथेतराम् || ५-६० || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शुद्धसृष्टिवर्णनं नाम पञ्चमोऽध्यायः || ५ || आदितः श्लोकाः ३३० शुद्धेतरसृष्टिवर्णनं नाम षष्ठोऽध्यायः शक्तितद्वतोर्भेदवदभेदस्याप्युपपत्तिः अहिर्बुध्न्यः - योऽसौ नारायणो देवः परमात्मा सनातनः | अहंभावात्मिका शक्तिस्तस्य तद्धर्मिणी || ६-१ || ताविमावेकधैवोक्तौ भेद्यभेदकभावतः | पृथक्त्वेन च शास्त्रेषु जगद्धेतुतयोदितौ || ६-२ || शक्तितद्वतोरपृथक्स्थितिः नैव शक्त्या विना कश्चिच्छक्तिमानस्ति कारणम् | न च शक्तिमता शक्तिर्विनैका व्यवतिष्ठते || ६-३ || भगवतो लक्ष्म्याश्च प्रत्येकं जगत्कारणत्वव्यवहारकथनम् तत्तद्गौरवमाश्रित्य तन्त्रवेदान्तपारगैः | जगद्धेतुतया देवावेकैकाविव दर्शितौ || ६-४ || शुद्धेतरसृष्टिकथनप्रतिज्ञा इति व्यवस्थिते सृष्टिमुक्तशिष्टामिमां शृणु | भूतिशक्तेः स्वसंकल्परूपक्रियाशक्तिप्रवर्त्यत्वम् येयं भूतिमयी स्फूर्तिर्विष्णुशक्तेः पुरोदिता || ६-५ || प्. ५०) तस्याः संकल्पमययैव स्फूर्त्या सा बहु नर्त्यते | योगालम्बनभूतव्यूहविभवादेः शुद्धिमयस्फूर्तिरूपत्वम् भूतेः शुद्धिमयी स्फूर्तिः सा व्यूहविभवात्मिका || ६-६ || यामालम्ब्य तरन्तीमं योगिनो भवसागरम् | शुद्धेतरसृष्टेः व्यूहविभवमूलकत्वम् अथ शुद्धेतरा सृष्टिस्तन्मूलैव प्रवर्तते || ६-७ || तस्यास्त्रैविध्यम् पुरुषश्चैव कालश्च गुणश्चेति त्रिधोच्यते | भूतिः शुद्धेतरा विष्णोः पुरुषो द्विचतुर्मयः || ६-८ || स मनूनां समाहारो ब्रह्मक्षत्रादिभेदिनाम् | प्रद्युम्नात् मिथुनचतुष्टयोत्पत्तिः ब्राह्मणो ब्राह्मणी चैव मिथुनं तन्मनुद्वयम् || ६-९ || प्रद्युम्नस्य मुस्वाज्जातं स्वसंकल्पेन चोदितम् | उरसः क्षत्रियद्वन्द्वमूरुतश्च विशो द्वयम् || ६-१० || पद्भ्यां शूद्रद्वयं चैव प्रद्युम्नस्य समुद्गतम् | समष्टिर्या मनूनां सा पुरुषो द्विचतुर्मयः || ६-११ || प्. ५१) कालप्रकृतिसृष्टिः सूक्ष्मकालगुणावस्था सुदर्शनसमीरिता | प्रद्युम्नस्य ललाटाच्च भ्रुवोः कर्णादुदीरिता || ६-१२ || अनिरुद्धाय पालनाज्ञादानम् पुरुषः शक्तिरित्येतच्चेतनाचेतनात्मकम् | वर्धयेत्यनिरुद्धाय प्रद्युम्नेनोपपाद्यते || ६-१३ || तेन तद्वर्धनम् अन्तःस्थपुरुषां शक्तिं तामादाय स्वमूर्तिगाम् | संवर्धयति योगेन ह्यनिरुद्धः स्वतेजसा || ६-१४ || नियतिकालयोरुदयः नियतिः काल इत्येवं शक्तिः संकल्पचोदिता | द्विधोदेत्यनिरुद्धात् सा यत् तत् कालमयं वपुः || ६-१५ || गुणमययाः प्रकृतेस्त्रैविध्यम् यत्तद्गुणमयं रूपं शक्तेस्तस्याः प्रकीर्तितम् | सत्त्वं रजस्तम इति त्रिधोदेति क्रमेण तत् || ६-१६ || सत्त्वादिभ्यो रज -आद्युत्पत्तिः सत्त्वाद्रजस्तमस्तमस्तस्मात् तमसो बुद्धिरुद्गता | प्. ५२) बुद्धेरहंकृतिस्तस्या भूततन्मात्रपञ्चकम् || ६-१७ || एकादशकमक्षाणां मात्रेभ्यो भूतपञ्चकम् | भूतेभ्यो भौतिकं सर्वमित्ययं सृष्टिसंग्रहः || ६-१८ || पुनर्विस्तरेण सृष्टिप्रपञ्चनप्रश्नः नारदः - भगवन् भगनेत्रघ्न तत्त्वविज्ञानवारिधे | आख्याहि विस्तरेणाद्य भूतेरुन्मेषमद्भुतम् || ६-१९ || तत्प्रपञ्चनम् अहिर्बुध्न्यः - शृणु नारद तत्त्वेन विष्णोः संकल्पकारिताम् | भूतेः परिणतिं चित्रां चिदचिद्वर्गसंकुलाम् || ६-२० || परवासुदेवस्य नित्यविभूतिमत्ताप्रतिपादनम् शुद्धा पूर्वोदिता सृष्टिर्या सा व्यूहादिभेदिनी | सुदर्शनाख्यात् संकल्पात् तस्या एव प्रभोज्ज्वला || ६-२१ || ज्ञानानन्दमयी स्त्याना देशभावं व्रजत्युत | स देशः परमं व्योम निर्मलं पुरुषात् परम् || ६-२२ || निःसीमसुखसंतानमनवद्यमनाकुलम् | तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः || ६-२३ || प्. ५३) ज्ञानानन्दमया देहा मुक्तानां भावितात्मनाम् | श्रियः पत्युर्भगवतो नित्यमुक्तानुभाव्यत्वम् सदा पश्यन्ति ते देवाः पुरुषं पुष्करेक्षणम् || ६-२४ || षाड्गुण्यविग्रहं देवं तादृश्या च श्रिया युतम् | संकल्पसाधिताशेषदेहदैहिकविस्तरम् || ६-२५ || ईशानमस्य सर्वस्य जगतस्तस्थुषस्पतिम् | सर्वावासमनावासं नारायणमनामयम् || ६-२६ || मुक्तानां स्वरूपम् तत् पदं प्राप्य तत्त्वज्ञा मुच्यन्ते वीतकल्मषाः | त्रसरेणुप्रमाणास्ते रश्मिकोटिविभूषिताः || ६-२७ || आविर्भावतिरोभावधर्मभेदविवर्जिताः | तेषामपुनरावृत्तिः परमं तेऽध्वनः पारं वैष्णवं पदमाश्रिताः || ६-२८ || विशन्ति नेममध्वानं कालकल्लोलसंकुलम् | तेषा यथोपासनं फलप्राप्तिः भक्तास्ते यादृशे रूपे संसारपदमाश्रिताः || ६-२९ || तादृशं ते समीक्षन्ते परमव्योमवासिनः | विहृत्य सुचिरं कालं कोट्योघप्रतिसंचरम् || ६-३० || प्. ५४) ततो विशन्ति ते दिव्यं षाड्गुण्यं वैष्णवं यशः | परमव्योम्नोऽशक्यवर्णनत्वम् तदेतत् परमव्योम लेशतस्ते प्रदर्शितम् || ६-३१ || नैव वर्षायुतेनापि वक्तुं शक्योऽस्य विस्तरः | जीवसमष्टिपुरुषस्यार्वाचीनस्थानवर्तित्वम् उक्तः कर्माधिकारो यः पुरुषस्ते चतुर्युगः || ६-३२ || अस्मात् स परमव्योम्नस्तिष्ठत्यर्वाचि वै पदे | सर्वात्मनां समष्टिर्या कोशोमधुकृतामिव || ६-३३ || शुद्ध्यशुद्धिमयो भावो भूतेः स पुरुषः स्मृतः | अनादिवासनारेणुकुण्ठितैरात्मभिश्चितः || ६-३४ || स्वतः शुद्धानामप्यात्मनां भगवच्छक्त्या स्वरूपतिरोधानम् आत्मनो भूतिभेदास्ते सर्वज्ञाः सर्वतोमुखाः | भगवच्छक्तिमययैवं मन्दतीव्रादिभावया || ६-३५ || तत्तत्सुदर्शनोन्मेषनिमेषानुकृतात्मना | सर्वतोऽविद्यया विद्धाः क्लेशमयया वशीकृताः || ६-३६ || तिरोहितस्वरूपाणां चातूरूप्यम् ब्रह्मक्षत्रादिभावेन चातूरूप्यं व्रजन्ति ते | ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदतः || ६-३७ || प्. ५५) आत्मानो जीवसंज्ञास्ते बन्धमोक्षौ व्रजन्ति ते | तेषां कर्मपारवश्यात् पृथिव्यामवतरणम् मनवो नाम कूटस्थास्तेषामुक्ताः समष्टयः || ६-३८ || क्लेशाशयापरामृष्टाः सर्वज्ञाः सर्वतोमुखाः | नित्यसिद्धा हि भूत्यंशास्ते प्रोक्ता भगवन्मयाः || ६-३९ || आविर्भावतिरोभावैः स्वस्मिन्नात्मनि नारद | आत्मनो वर्तयन्तस्ते वैष्णवा आधिकारिकाः || ६-४० || विष्णोः संकल्परूपेण स्थित्वास्मिन् पौरुषे पदे | योगेनावतरन्त्यंशैः स्थानात् स्थानं धरावधि || ६-४१ || अवतीर्णानां प्रजास्रष्टृत्वम् सृष्टायां कर्मभूमौ ते मिथुनीभूय मानवान् | चतुःशतं सृजन्त्येते भूयो मानवमानवान् || ६-४२ || ते चापरिमिताः सर्वे विस्तारस्तत्र वक्ष्यते | अनिरुद्धात् शक्त्युत्पत्तिः अर्वाचीने पदे तस्मात् पुरुषाद्धि चतुर्युगात् || ६-४३ || सृष्टानिरुधतः शक्तिस्तत्सुदर्शनचोदितात् | शक्तौ कूटस्थमनूनामवतरणम् सृष्टायामथ शक्तौ तु मनवोऽष्टौ महामुने || ६-४४ || प्. ५६) अवतीर्य स्वकात् स्थानाद्विष्णुसंकल्पचोदिताः | तिष्ठन्ति कललीभूतास्तस्मिञ्शक्तिमये पदे || ६-४५ || कालो नाम गुणो नाम तस्या गर्भस्थितं द्वयम् | शक्तितो नियतेरुत्पत्तिः कालस्य नियतिर्नाम सूक्ष्मः सर्वनियामकः || ६-४६ || उदेति प्रथमं शक्तेर्विष्णुसंकल्पचोदितः | तत्र मनूनां स्थितिः मनवोऽवतरन्त्यत्र ते सुदर्शनचोदिताः || ६-४७ || यस्य स्याद्यादृशं रूपं यत्करं यत्स्वभावकम् | सुदर्शनप्रभावस्थं तत्तन्नियमभावितम् || ६-४८ || नियतितः कालस्योत्पत्तिः कालस्य पावनं रूपं यत्तु तत्कलनात्मकम् | उदेति नियतेः सोऽथ कालः संकल्पचोदितः || ६-४९ || तत्र मनूनां स्थितिः नियतेर्मनवोऽप्यत्र काले ह्यवतरन्ति ते | कालः स कलयत्येको विष्णुसंकल्पचोदितः || ६-५० || कलयत्यखिलं काल्यं नदीकूलं यथा रयः | प्. ५७) कालात् क्रमेण गुणमयरूपोत्पत्तिः यत्तद्गुणमयं रूपं शक्तेः पूर्वं समीरितम् || ६-५१ || सोपानक्रमतः कालात् तद्गौणं व्यज्यते वपुः | तत्र प्रथमं सत्त्वोत्पत्तिः सत्त्वं तत्र लघु स्वच्छं गुणरूपमनामयम् || ६-५२ || प्रथमं व्यज्यते कालान्मनवोऽवतरन्त्यतः | आनिरुद्ध्या वैष्णवमूर्त्या तस्याधिष्ठानम् आनिरुद्धी ततो मूर्तिः स्वसंकल्पप्रचोदिता || ६-५३ || अधितिष्ठति तत् सत्त्वं विष्णुनाम्नैव नामभाक् | तत एव तस्य सुखरूपत्वं स्वच्छत्वं च | सत्त्वाद्रज-उत्पत्तिः तदेतत् सकलं स्वच्छं सुखमासीदनाकुलम् || ६-५४ || अन्तःस्थमनुकं सत्त्वमन्तःस्थाचिद्गुणं मुने | विष्णुनाधिष्ठितं तस्माद्विष्णुसंकल्पचोदितात् || ६-५५ || रजो नाम गुणः सत्त्वात् तस्मादाविर्भवत्यलम् | तत्र मनूनां स्थितिः मनवोऽवतरन्त्यत्र सत्त्वात् संकल्पचोदिताः || ६-५६ || तस्यानिरुद्धाधिष्ठितब्रह्मरूपत्वम् ब्राह्मी मूर्तिर्गुणं तं चाप्यानिरुद्ध्यधितिष्ठति | प्. ५८) अतस्तस्य दुःखरूपत्वम् तदेतत् प्रचलं दुःखं रजः शश्वत्प्रवृत्तिमत् || ६-५७ || लोलीभूतमिदं तच्च विश्वमन्तःस्थितं तदा | रजसस्तम उत्पत्तिः ब्रह्मणाधिष्ठितात् तस्मादन्तःस्थमनुकान्मुने || ६-५८ || संकल्पचोदितं विष्णोस्तमो नाम गुणोऽभवत् | तत्र मनूनां स्थितिः मनवोऽवतरन्त्यत्र ते सुदर्शनचोदिताः || ६-५९ || तस्यानिरुद्धाधिष्ठितरुद्ररूपत्वम् रुद्रो नाम गुणस्तं चाप्यानिरुद्ध्यधितिष्ठति | अतस्तस्य मोहनादिरूपत्वम् गुरु विष्टम्भनं शश्वन्मोहनं चाप्रवृत्तिमत् || ६-६० || तत् तमो नाम भणितं गुणसागरपारगैः | अंशतो गुणत्रयसाम्यापत्तिः सुदर्शनमयेनैव संकल्पेनात्र वै हरेः || ६-६१ || चोद्यमानेऽपि सृष्ट्यर्थं पूर्णं गुणयुगं तदा | अंशतः साम्यमायाति विष्णुसंकल्पचोदितम् || ६-६२ || प्. ५९) तस्यैव प्रकृतित्वम् त्रैगुण्यं नाम तत्त्वज्ञैस्तत् तमः परिगीयते | प्रकृतिपर्यायशब्दाः गुणसाम्यमविद्या च स्वभावो योनिरक्षरम् | अयोनिर्गुणयोनिश्चेत्याद्यास्त्रैगुण्यवाचकाः || ६-६३ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शुद्धेतरसृष्टिवर्णनं नाम षष्ठोऽध्यायः || ६ || आदितः श्लोकाः ३९३ शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः प्रकृतिपुरुषकालानां समष्टिः अहिर्बुध्न्यः - अन्यूनानतिरिक्तं यद् गुणसाम्यं तमोमयम् | तत् सांख्यैर्जगतो मूलं प्रकृतिश्चेति कथ्यते || ७-१ || क्रमावतीर्णो यस्तत्र चतुर्मनुयुगः पुमान् | समष्टिः पुरुषो योनिः स कूटस्थ इतीर्यते || ७-२ || यत् तत् कालमयं तत्त्वं जगतः संप्रकालनम् | स तयोः कार्यमास्थाय संयोजकविभाजकः || ७-३ || भगवत्संकल्पचोदितात् त्रितयादस्मात् महदाद्युत्पत्तिः मृत्पिण्डीभूतमेतत्तु कालादित्रितयं मुने | विष्णोः सुदर्शनेनैव स्वस्वकार्यप्रचोदितम् || ७-४ || महदादिपृथिव्यन्ततत्त्ववर्गोपपादकम् | प्रकृतिः स्वरूपतः स्वभावतश्च परिणामिनी पयोमृदादिवत् तत्र प्रकृतिः परिणामिनी || ७-५ || प्. ६१) पुरुषः स्वरूपतोऽपरिणामी पुमानपरिणामी सन् संनिधानेन कारणम् | कालस्य प्रकृतिपुरुषपाचकत्वम् कालः पचति तत्त्वे द्वे प्रकृतिं पुरुषं च ह || ७-६ || प्रकृतेर्महत्तत्त्वोत्पत्तिः पुरुषाधिष्ठितात् तस्माद्विष्णुसंकल्पचोदितात् | कालेन कलिताच्चैव गुणसाम्यान्महामुने || ७-७ || महान् नाम महत्तत्त्वमव्यक्तादुदितं मुने | महत्तत्त्वपर्यायाः विद्या गौर्यवनी ब्राह्मी वधूर्वृद्धिर्मतिर्मधुः || ७-८ || अख्यातिरीश्वरः प्राज्ञेत्येते तद्वाचका मुने | महतस्त्रैविध्यम् कालो बुद्धिस्तथा प्राण इति त्रेधा स गीयते || ७-९ || तमःसत्त्वरजोभेदात् तत्तदुन्मेषसंज्ञया | कालस्त्रुटिलवाद्यात्मा बुद्धिरघ्यवसायिनी || ७-१० || प्राणः प्रयतनाकार इत्येता महतो भिदाः | तत्र सात्त्विकस्य चातुर्विध्यम् धर्मो ज्ञानं विरागश्चाप्यैश्वर्यमिति संज्ञया || ७-११ || महतः सात्त्विकं रूपं चतुर्धा प्रविभज्यते | प्. ६२) तामसस्यापि चातुर्विध्यम् अधर्माज्ञानावैराग्यमनैश्वर्यं च तामसम् || ७-१२ || महत्तत्त्वे मनूनामवस्थितिः विद्याया उदरेऽष्टौ ते सुदर्शनसमीरिताः | मनवो गर्भतां यान्ति सर्वज्ञाः सर्वदर्शिनः || ७-१३ || तत्र बुद्ध्युत्पत्तिः बोधनं नाम वैद्यं तदिन्द्रियं तेषु जायते | येनार्थानध्यवस्येयुः सदसत्प्रविभागिनः || ७-१४ || महतोऽहंकारोत्पत्तिः विद्याया उदरे तत्राहंकृतिर्नाम जायते | संकल्पाच्चोदिता विष्णोश्चोदितायाः सुदर्शनात् || ७-१५ || अहंकारपर्यायाः अहंकारोऽभिमानश्च प्रजापतिरहंकृतिः | अभिमन्ता च बोद्धा चेत्यस्याः पर्यायवाचकाः || ७-१६ || अहंकारस्य त्रैविध्यम् तस्य वैकारिकं नाम रूपं सात्त्विकमुच्यते | तैजसं राजसं रूपं भूतादिर्नाम तामसम् || ७-१७ || प्. ६३) अहंकारस्य रूपभेदाः कामः क्रोधश्च लोभश्च मानश्चावमतिस्तृषा | इत्यहंकृतिरूपाणि दर्शितानि मुने तव || ७-१८ || अहंकारे मनूनामवस्थितिः नानाविभवयुक्तायामुत्पन्नायामहंकृतौ | तदन्तर्गर्भमायाति मनूनां तच्चतुर्युगम् || ७-१९ || अहंकारात् मन -उत्पत्तिः सुदर्शनेरितं विष्णोराहंकारिकमिन्द्रियम् | मनो नाम मनूनां तज्जायते चिन्तनात्मकम् || ७-२० || मनस्वी बुद्धिमांश्चापि गर्भो मनुमयस्तथा | भूतादेः शब्दतन्मात्रोत्पत्तिः भूतादेः शब्दतन्मात्रं तामसादथ जायते || ७-२१ || तस्मादाकाशोत्पत्तिः वियच्च शब्दतन्मात्राज्जायते शब्दलक्षणम् | आकाशस्य गुणकर्मणी शब्दैकगुणमाकाशमवकाशप्रायि च || ७-२२ || आकाशे मनूनां स्थितिः तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः | प्. ६४) मनवोऽष्टौ महाबुद्धे तदा वैकारिकात् पुनः || ७-२३ || श्रोत्रवाचोरुत्पत्तिः श्रोत्रं वागिति विज्ञानकर्मेन्द्रिययुगं मुने | समीक्षयैव देवस्य मनुषु प्रतिजायते || ७-२४ || मनूनां तद्वैशिष्ट्यम् श्रोत्रवानथ वाग्मी च गर्भो मनुमयस्तथा | अथ स्पर्शतन्मात्रोत्पत्तिः सुदर्शनेरिताद्विष्णोर्भूतादेः स्पर्शमात्रकम् || ७-२५ || तस्माद्वायूत्पत्तिः जायते स्पर्शवान् वायुस्तस्मादपि च जायते | वायोः क्रियाभेदाः शोषणं प्रेरणं चेष्टा व्यूहनं च समूहनम् || ७-२६ || क्रियाभेदा इमे तस्माज्जायन्ते वायुतो मुने | त्वक्पाण्योरुत्पत्तिः वैकारिकादहंकारात् त्वक्पाणिद्वितयं मुने || ७-२७ || ज्ञानकर्मेन्द्रियद्वन्द्वं संकल्पात् तस्य जायते | वायौ मनूनां स्थितिः तदन्तर्गर्भतां याति तदा मनुमयः पुमान् || ७-२८ || प्. ६५) तेषां त्वक्पाणिवैशिष्ट्यम् चेष्टमानस्तदा गर्भो विष्णुसंकल्पचोदितः | त्वक्पाणिद्वयवानासीत् स्पर्शादानादिसिद्धये || ७-२९ || रूपतन्मात्रतेजसोरुत्पत्तिः तामसादथ भूतादेः सुदर्शनसमीरितात् | जायते रूपमात्रं तु ज्योतिस्तस्माच्च रूपवत् || ७-३० || तेजसः क्रियाभेदाः रूपं व्यक्तिस्तथा पाकः कान्तिर्दीप्तिरितीदृशाः | जायन्ते तैजसा भेदा भेदाद्वैकारिकात् तथा || ७-३१ || चक्षुःपादयोरुत्पत्तिः सुदर्शनेरिताज्जातं चक्षुःपादयुगं मुने | तेजसि मनूनां स्थितिः तदन्तर्गर्भतां यान्ति ते सुदर्शनचोदिताः || ७-३२ || तेषां चक्षुःपादवैशिष्ट्यम् मनवो रूपवन्तस्ते कान्तिदीप्त्यादिशालिनः | चक्षुष्मन्तः पादवन्तो वीक्षणाटनयोगिनः || ७-३३ || रसतन्मात्राम्भसोरुत्पत्तिः तामसादथ भूतादेर्विष्णोरीक्षानियोजितात् | प्. ६६) जायते रसमात्रं तु जायन्तेऽम्भांसि वै ततः || ७-३४ || तत्क्रियाभेदाः जायन्तेऽथ गुणास्तेषां रसस्नेहद्रवादयः | रसनोपस्थेन्द्रियोत्पत्तिः अथ वैकारिकात् तस्माद् विष्णुसंकल्पचोदितात् || ७-३५ || रसनोपस्थमित्येतज्जायते दृक्क्रियात्मकम् | अप्सु मनूनां स्थितिः तदन्तर्गर्भतां यान्ति विष्णुसंकल्पचोदिताः || ७-३६ || मनवस्ते महाबुद्धे विष्णुकर्माधिकारिणः | तेषांरसनोपस्थवैशिष्ट्यम् सरसाः स्नेहवन्तश्च रुधिरादिद्रवान्विताः || ७-३७ || जायन्ते रसनावन्तः पुंस्त्रीव्यञ्जनभेदिताः | गन्धतन्मात्रमह्योरुत्पत्तिः सुदर्शनेरितात् तस्माद्भूतादेस्तदनन्तरम् || ७-३८ || जायते गन्धतन्मात्रं तस्माद्गन्धवती मही | पार्थिवगुणभेदाः काठिन्यं गौरवं स्थैर्यमित्याद्याः पार्थिवा गुणाः || ७-३९ || प्. ६७) घ्राणपायवोरुत्पत्तिः वैकारिकादहंकारात् सुदर्शनसमीरितात् | घ्राणं पायुरिति द्वन्द्वं ज्ञानकर्मात्मकं मुने || ७-४० || पृथिव्यां मनूनां स्थितिः भुवस्ते गर्भतां यान्ति विष्णुसंकल्पचोदिताः | तेषां घ्राणपायुवैशिष्ट्यम् गुरवः स्थिरसंघाता अस्थिदन्तादिसंयुताः || ७-४१ || घ्राणवन्तः पायुमन्तः संपूर्णावयवा मुने | संकल्पाद्युत्पत्तिः संकल्पश्चैव संरम्भः प्राणाः पञ्चविधास्तथा || ७-४२ || मनसोऽहंकृतेर्बुद्धेर्जायन्ते पूर्वमेव तु | एवं मनूनां सर्वावयवपूर्णता एवं संपूर्णसर्वाङ्गाः प्राणापानादिसंयुताः || ७-४३ || सर्वेन्द्रिययुतास्तत्र देहिनो मनवो मुने | सृष्टिप्रलयकालयोस्तुल्यपरिमाणत्वम् यो यादृग्वर्णितः पूर्वं कालस्तत्प्रतिसंचरे || ७-४४ || प्. ६८) सर्गे स एव विज्ञेयो वैष्णवैस्तत्त्वचिन्तकैः | विद्याविपरिणामोऽयं सप्तधा वीक्षया हरेः || ७-४५ || महाभूतानि तान्याहुर्विभागान् सप्तधा मुने | मनुविभागः मनवोऽपि विभज्यन्ते सुदर्शनसमीरिताः || ७-४६ || युगशो युगशः पूर्वं पश्चात् पुंस्त्रीविभेदतः | स्वयमागतविज्ञानाः सर्वज्ञाः सर्वदर्शिनः || ७-४७ || आत्मन्यध्यक्षमीशानमनिरुद्धं दधत्यथ | मनुभिर्गर्भोत्पादनम् ततो ह्यध्यक्षवन्तस्ते तत्संकल्पेन चोदिताः || ७-४८ || गर्भानादधते स्त्रीषु मनवस्ते शतं शतम् | तेषां ब्राह्मणादिसंज्ञा ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति वतुर्विधाः || ७-४९ || मानवा मनुयोषिद्भ्यो जायन्ते द्वन्द्वलक्षणाः | तदुत्पन्नानां मानवमानवादिसंज्ञा मनुभिः संस्कृतास्ते तु स्वासु पत्नीषु मानवाः || ७-५० || जनयन्ति बहून् पुत्रांस्ते स्युर्मानवमानवाः | प्. ६९) तेषां भगवत्कैंकर्यकारित्वम् तेषां गोत्राण्यनेकानि यैरिदं सकलं ततम् || ७-५१ || चातुर्वर्ण्यमया एते भगवत्कर्मकारिणः | भागवतकैंकर्यकारिणां मोक्षसंपत्तिः तेषां ये कर्म कुर्वन्ति साधवः शतवार्षिकम् || ७-५२ || विवेकज्ञानमासाद्य ते विशन्ति हरिं परम् | अन्येषां संसारप्राप्तिः युगादियुगनिर्ह्रासाद्ये कर्मान्तरकारिणः || ७-५३ || फलाभिध्यायिनो यान्ति तत्प्रसूतां गतिं तु ते | कर्महेतुकदेवादिसृष्टिः या सा विद्या पुरा प्रोक्ता मनुगर्भवती मुने || ७-५४ || गर्भवत्येव सा देवान् नानागुणविभेदितान् | दैत्यदानवरक्षांसि गन्धर्वोरगकिंनरान् || ७-५५ || इति नानाविधा योनीर्विष्णोः संकल्पचोदिता | स्वसंकल्पेन सृजति ते चान्यांस्तेऽपि चापरान् || ७-५६ || मनुगर्भदशायां तु पितृदेवर्षिमानवाः | इति सृष्टास्तया शश्वद्विद्यया ब्रह्मणा स्वयम् || ७-५७ || प्. ७०) मनूनां देवादीनां च कूटस्थपुरुषव्यष्टिरूपत्वम् कूटस्थो यः पुरा प्रोक्तः पुमान् व्योम्नः परादधः | मनवो देवताद्याश्च तद्व्यष्टय इतीरिताः || ७-५८ || जीवानां भगवद्विभूतित्वम् जीवभेदा मुने सर्वे विष्णुभूत्यंशकल्पिताः | महतो मेघात्मना परिणामः अथ व्यक्तेषु मनुषु प्रजातेषु पुनः पुनः || ७-५९ || विद्यैवांशेन केनापि धेनुर्भवति शाश्वती | धेनुरित्युच्यते विद्या मेघभावमुपागता || ७-६० || पयः क्षरति वर्षाख्यमन्नादिपरिणामवत् | जीवानां ज्ञानभ्रंशहेतुकथनम् तत्तु वैद्यं पयः प्राश्य सर्वे मानवमानवाः || ७-६१ || ज्ञानभ्रंशं प्रपद्यन्ते सर्वज्ञाः स्वत एव ते | ततः शास्त्रप्रवृत्तिः ततः प्रवर्त्यते शास्त्रं मनुभिः पूर्वजैस्तदा || ७-६२ || तदादिष्टेन मार्गेण ते यान्ति परमां गतिम् | लेशतः सृष्टिरुक्तेयं भूतेः शुद्धेतरा मुने || ७-६३ || प्. ७१) सुदर्शनेन या विष्णोरेवंभावेन भाव्यते | अध्यायद्वयार्थसंक्षेपः भूयश्च शृणु संक्षेपमिमं नारद तत्त्वतः || ७-६४ || एका शक्तिर्हरेर्विष्णोः सर्वभावानुगामिनी | देवी षाड्गुण्यपूर्णा सा ज्ञानानन्दक्रियामयी || ७-६५ || भाव्यभावकभेदेन सा द्विधाभावमृच्छति | भावकस्तत्र संकल्पः सुदर्शनमयो हरेः || ७-६६ || अव्याघातस्तु यस्तस्य सा सुदर्शनता मुने | ज्ञानमूलक्रियात्मासौ स्वच्छः स्वच्छन्दचिन्मयः || ७-६७ || भाव्यो नाम परांशो यः सा भूतिरिति गीयते | संकर्षणादिभूम्यन्ता शुद्धेतरविभागिनी || ७-६८ || संकर्षणादिव्यूहान्ता शुद्धसर्गमयी स्थिता | शक्त्यादिर्भूमिपर्यन्ता शुद्धेतरमयी मुने || ७-६९ || अंशयोः पुरुषो मध्ये यः स्थितः स चतुर्युगः | शुद्धेतरमयं विद्धि कूटस्थं तं महामुने || ७-७० || इतीयं विविधा भूतिर्नानातत्त्वमयी मुने | सुदर्शनेन मरुता ज्वालेव बहुधेर्यते || ७-७१ || आनुलोम्येन सर्गे तु प्रातिलोम्येन चाप्यये | मध्ये च स्थाप्यते तेन कार्यते च तथा तथा || ७-७२ || प्. ७२) सुदर्शनानधीनस्य वस्तुनस्तुच्छता भूतेरंशः स नैवास्ति स्वल्पाल्पोऽपि महामुने | यो न याति स्वजन्मादौ सुदर्शनविधेयताम् || ७-७३ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शुद्धेतरसृष्टिवर्णनं नाम सप्तमोऽध्यायः || ७ || आदितः श्लोकाः ४६६ जगदाधारनिरूपणं नाम अष्टमोऽध्यायः सृष्टौ वादिनां बहुधा विप्रतिपत्तिः नारदः - भगवन् देवदेवश भगनेत्रविनाशन | श्रुतं मयैतदखिलं तव वक्त्राम्बुजस्रुतम् || ८-१ || व्याकुलस्त्वन्तरात्मा मे नानाज्ञानविमोहितः | केचित् त्रैभूतिकीं सृष्टिं ब्रुवते तत्त्ववादिनः || ८-२ || चतुर्भूतमयीमन्ये केऽप्यन्ये पाञ्चभौतिकीम् | तां षड्धातुमयीमेके सप्तधातुमयीं परे || ८-३ || अष्टप्रकृतिकां केचिन्नवप्रकृतिकां परे | दशतत्त्वमयीमेके केचिदेकादशात्मिकाम् || ८-४ || एवमुच्चावचां संख्यां तत्त्वप्रकृतिगोचराम् | वदन्ति मुनयः सिद्धा देवा वेदास्तथैव च || ८-५ || अण्डजामपरे सृष्टिं पद्मजामपि चापरे | पावकीमपरे सृष्टिं केचित् कायान्तरोद्भवाम् || ८-६ || प्. ७४) विद्यागर्भमयीमेके शून्यरूपामथापरे | तत्र तत्त्वजिज्ञासया प्रश्नः इत्थमुच्चावचार्थास्ते नानाशास्त्रमहोदधौ || ८-७ || नानादर्शनकल्लोलजातकोलाहलोद्भटे | विमुह्यत्यवमग्नेयमप्लवा वुद्धिरद्य मे || ८-८ || निर्णयप्लवदानेन तामुत्तारय शंकर | तदुत्तरकथनारम्भः अहिर्बुध्न्यः - उचितं तव देवर्षे यदयं प्रश्न ईरितः || ८-९ || मुह्यन्त्यत्र महान्तोऽपि शृणु मे तत्त्वनिर्णयम् | परमात्मा परो देव एकः षाड्गुण्यमुज्ज्वलम् || ८-१० || वेदवाचोऽपि कार्त्स्न्येन तत्त्वावगाहनासामर्थ्यम् वागनादिरनन्तापि तत्त्वं तन्नावगाहते | गुणैस्तटस्थितैस्तैस्तैरजानानेव सा स्थिता || ८-११ || विप्रतिपत्तौ हेतुकथनम् यद्गुणे नाम्नि ये श्रान्तास्तत्र तत्त्वविदो मुने | मनुभिस्तद्गुणैस्तैस्तैस्ते ते तत्त्वविदां वराः || ८-१२ || प्. ७५) निर्दिशन्ति जगद्धेतुण् स्वनिरूढैर्महामुने | नानागुणनिमित्तैस्तैर्नानावक्तृसमीरितैः || ८-१३ || भेदं व्यवस्थिताः शब्दैरपर्यायविदो जनाः | एकस्या अपि लक्ष्म्या नानाशब्दगोचरत्वम् एवं विष्णोः प्रिया भाः सा शक्तिः षाड्गुण्यविग्रहा || ८-१४ || नानानामभिरेकापि तत्त्वविद्भिरुपास्यते | तत्त्वविदां स्वस्वदृष्टार्थवादित्वम् तस्यां प्रवर्तमानायां स्वसंकल्पेन सर्जने || ८-१५ || तथा निवर्तमानायां स्वसंकल्पेन संहृतौ | विज्ञानबलवैषम्याद्ये ये तत्त्वविदो मुने || ८-१६ || न्यूनाधिकविभेदेन यावतीर्ददृशुर्भिदाः | तावतीस्तावतीस्ते ते प्रोचुः शिष्याभिचोदिताः || ८-१७ || अतश्चासर्वदृग्बुद्धिः संख्यासु प्रविमुह्यति | पितामहादयो ये च जगत्कार्याधिकारिणः || ८-१८ || तेषां न्यूनाधिभावोऽपि वक्तृभेदात् प्रकल्पितः | स्वातन्त्र्यमनियोज्यं तु विष्णोः षाड्गुण्यरूपिणः || ८-१९ || तद्बुद्धिरुचिवैचित्र्यादण्डपद्मादिसंभवः | नानुयोजनमर्हन्ति परमात्मप्रवृत्तयः || ८-२० || प्. ७६) भगवत्प्रकारानन्त्यम् स यथा चेष्टते सृष्टौ स्थितौ संहरणेऽपि वा | तथा तथा प्रकारास्ते ह्यनन्ताः कालवैभवात् || ८-२१ || वादिनामेकैकप्रकारवादित्वम् एवं प्रकारनानात्वे देवस्य हरिमेधसः | कश्चिदेकं परोऽन्यं तु प्रकारमपरोऽपरम् || ८-२२ || धिया विदित्वा प्रोवाच शिष्याय हितकाम्यया | अतः शास्त्रवैविध्यम् चित्रा सिष्ट्यादिशास्त्राणां प्रवृत्तिरत ईदृशी || ८-२३ || यथाद्यत्वे मनुष्याणां कर्मवैषम्यसंभवा | अहोरात्रादिभेदेषु सुखदुःखव्यवस्थितिः || ८-२४ || तथा ब्राह्मेष्वहःस्विष्टा सुखदुःखव्यवस्थितिः | ब्राह्मकल्पानां नानारूपत्वम् केचिद्वाताकुला घस्रा ब्रह्मणो मुनिसत्तम || ८-२५ || तथा वर्षाकुलाः केचित् केचिदातपसंकुलाः | प्रभूतशत्रवः केचित् केचित् सुस्वमनोहराः || ८-२६ || अनेन निश्चयेनैव धियमास्थाय शाश्वतीम् | संस्तम्भयान्तरात्मानं व्यामोहस्ते विनश्यतु || ८-२७ || प्. ७७) इति नानाविधाकारं क्रियाभूतिविभेदितम् | निमित्तोत्पादकाकारं कारणं कथितं मुने || ८-२८ || श्रुतार्थानुवादः नारदः - कारणं कथितं देव सर्वज्ञ वृषकेतन | या सा शक्तिर्जगद्धातुः कथिता समवायिनी || ८-२९ || लक्ष्मीर्नाम द्विधा सा तु क्रियाभूतिविभेदिनी | या क्रिया नाम संकल्पः स सुदर्शननामवान् || ८-३० || भूतिर्नाम जगद्रूपा कालाव्यक्तपुमात्मिका | अशुद्धा शुद्धरूपा तु सा व्यूहविभवात्मिका || ८-३१ || क्रिया प्रवर्तिका भूतेः सा सुदर्शनरूपिणी | इत्येतद्दर्शितं तत्त्वं देवदेवेन मे श्रुतम् || ८-३२ || द्वितीयप्रश्नस्मारणम् अधुना श्रोतुमिच्छामि द्वितीयं प्रश्नमीश्वर | आधारो नाम यः प्रोक्तो जगतां वृषभध्बज || ८-३३ || सुदर्शनस्य जगदाधारत्वम् अहिर्बुध्न्यः - शृणु नारद तत्त्वेन य आधार उदीर्यते | येनेदं ध्रियते विश्वं तन्तुना मणयो यथा || ८-३४ || प्. ७८) या सा शक्तिर्हरेराद्या लक्ष्मीर्नाम महामुने | या सा सर्वात्मनो विष्णोर्भावाभावानुयायिनी || ८-३५ || तस्या अल्पायुतांशांशः स्वस्वातन्त्र्यविजृम्भितः | क्रियाभूतिविभेदेन समुदेतीति वर्णितम् || ८-३६ || सुदर्शनेन क्रियया शङ्कुनेव छदो मुने | भूतिः सा ध्रियते शश्वद्विस्तरं तत्र मे शृणु || ८-३७ || तत्र महारात्रिधरचक्रं प्रथनम् संहृताखिलभूतस्य स्तैमित्यं ब्रह्मणो हि यत् | अप्ययः सा महारात्रिस्तत्संकल्पेन धार्यते || ८-३८ || महारात्रिधरो नाम तदरं वै सुदर्शनम् | तदेकारं महच्चक्रमद्यत्वे चिन्त्यते सुरैः || ८-३९ || उषश्चक्रं द्वितीयम् यत् सिसृक्षामयं रूपं ब्रह्मणः शक्तिसंभवम् | ज्वालेव वायुना वह्नेः संकल्पेन तदीर्यते || ८-४० || उषश्चक्रं तदुद्दिष्टमरद्वितयभूषितम् | भूतिकामैरजस्रं तद्ब्रह्मणा चैव धार्यते || ८-४१ || प्. ७९) उदयचक्रं तृतीयम् यः स संकर्षेणोन्मेषो यो धारयति तं सदा | साक्षादुदयचक्रं तद्विज्ञानत्रितयात्मकम् || ८-४२ || स संकर्षणसंकल्पो ज्ञानकामैर्निषेव्यते | ऐश्वर्यचक्रं चतुर्थम् यः स प्राद्युम्न उन्मेष ऐश्वर्यमय ऊर्जितः || ८-४३ || वैष्णवेनैव लाक्ष्मेण स संकल्पेन धार्यते | तद्वै प्रद्युम्नसंकल्पमैश्वर्यमयमूर्जितम् || ८-४४ || सम्यक् चतुररं चक्रमैश्वर्यस्था उपासते | शक्तिमहाचक्रं पञ्चमम् आनिरुद्धो य उन्मेषः शक्तितेजोविदीपितः || ८-४५ || संकल्पो ब्रह्मशक्त्युत्थस्तं धारयति सर्वदा | तद्वैशक्तिमहाचक्रं पञ्चारं परिकल्पितम् || ८-४६ || शक्तितेजःसमृद्धयर्थं विश्वे देवा उपासते | षडरचक्रं षष्ठम् व्यूहान्तरसमाख्यातं केशवादिद्विषट्ककम् || ८-४७ || सुदर्शनेन ध्रियते येन संकल्परूपिणा | षडरं तन्महाचर्कं व्यूहान्तरविभावकम् || ८-४८ || प्. ८०) ऋत्वरं तत् समाख्यातं व्रतकामा उपासते | महासुदर्शनचक्रं सप्तमम् विभवो यः पुरा प्रोक्तः पद्मनाभादिरूर्जितः || ८-४९ || स येन ध्रियते विष्णोः संकल्पेन महामुने | महासुदर्शनं नाम द्वादशारं तदुच्यते || ८-५० || विभवान्तरसंज्ञं तद्यच्छक्त्यावेशसंभवम् | धृतं तद् द्वादशारेण तत्संकल्पेन चक्रिणा || ८-५१ || सहस्रारचक्रमष्टमम् यत्तु तत् परमं व्योम यद् विष्णोः पदमूर्जितम् | सहस्रारेण चक्रेण तत्संकल्पेन धार्यते || ८-५२ || एते सौदर्शना व्यूहाः समासेन प्रकीर्तिताः | आधाराधेयभावेन वर्तन्ते ते स्वयं मुने || ८-५३ || संकल्पः कोटिकोट्यंशः शक्तेर्भूतिस्तथा द्विधा | शक्तिः सा वैष्णवी सत्ता बहुधैवं प्रभासते || ८-५४ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जगदाधारवर्णनं नाम अष्टमोऽध्यायः || ८ || आदितः श्लोकाः ५२० अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः प्रथमं पौरुषचक्रम् अहिर्बुध्न्यः - आधारः कथितः शुद्धः शुद्धा सा येन धार्यते | भूतिर्व्यूहादिरूपेण या सा देवी प्रवर्तते || ९-१ || पुमाद्यवनिपर्यन्ता यथा शुद्धेतरात्मिका | सा येन धार्यते चक्रं तत्संकल्पमयं शृणु || ९-२ || त्र्यरं तत् पौरुषं चक्रं पुरुषो येन धार्यते | शक्त्यादिचक्राणि चक्रं त्रिंशदरं प्रोक्तं शक्तिः सा येन धार्यते || ९-३ || तादृशं नैयतं चक्रं नियतिर्येन धार्यते | षडरं कालचक्रं तत् स कालो येन धार्यते || ९-४ || सत्त्वं रजस्तमश्चैव धार्यन्ते यैर्महामुने | तानि त्वाधारचक्राणि त्र्यराणीति विदुर्बुधाः || ९-५ || चक्रमेकादशारं तु बुद्धिः सा येन धार्यते | प्. ८२) अष्टारं तन्महाचक्रमहंकारस्य धारकम् || ९-६ || एकारं वैयतं चक्रं द्व्यरं तद्वायुधारकम् | त्र्यरं तैजसमाख्यातमाप्यं चतुररं मुने || ९-७ || पञ्चारं पार्थिवं चक्रं पृथिवी येन धार्यते | गुणचक्राण्यरैः सर्वाण्यङ्कितानि त्रिभिस्त्रिभिः || ९-८ || एकादशविधं चक्रमैन्द्रियं द्वियुगारकम् | इयमाधारशक्तिस्ते प्रोक्ता प्रतिस्विकी मुने || ९-९ || महाविभूतिचक्रम् एकधारं महच्चक्रं महाभूतिकरं शृणु | महाकेतुपटी यद्वद्वितता व्योम्नि धार्यते || ९-१० || अनिशं पावमानेन पवमानेन वै मुने | संकर्षणादिभूम्यन्ता विष्णुशक्तिमयी तथा || ९-११ || निरालम्बे पटे भूतिः संकल्पेनैव धार्यते | तत्संकल्पमयं चक्रमनन्तारं महामुने || ९-१२ || दिव्यं महाविभूत्याख्यमवाङ्मनसलङ्घितम् | अप्रमेयमनाद्यन्तं भावाभावस्वलक्षणम् || ९-१३ || अनन्तारमपर्यन्तं पर्यन्तकुलसंकुलम् | ब्रह्माण्डकोटिकोट्योघकोट्यर्बुदविभावितम् || ९-१४ || प्. ८३) महाभूतसहस्रौघसहस्रौघविभावनम् | ज्योतिरिङ्गणसच्छायैरिन्द्रियैः कोटिकोटिशः || ९-१५ || अङ्कितं क्षुद्रमेघाभैर्ब्रह्माण्डैरनुचित्रितम् | महाभूतमयीभिस्तु क्वचिदद्भिरिवाततम् || ९-१६ || विप्रुङ्भिरिव वर्षाणां विततं वैष्णवं पदम् | महाभूतैः क्वचिद्दीप्तं ज्योतिर्भिरयुतायुतैः || ९-१७ || वीजितं भूतपवनैर्व्यजनोत्थैरिव क्वचित् | क्षुद्रावकाशसंकाशैराकाशैः कोटिकोटिशः || ९-१८ || छिद्रितं विविधाकारैरहंकारैरहंकृतम् | अमहद्भिर्महद्भिश्च कोटिकोटिविभागिभिः || ९-१९ || अङ्कितं विविधाकारैस्तमोभिर्बहुलं कृतम् | क्वचिद्विविधसंतापचलनैरयुतायुतैः || ९-२० || रजोभी रञ्जितं क्षुद्रैर्विशदैर्लघुभिः क्वचित् | अङ्कितं बहुभिः सत्त्वैर्विमलैः कोटिकोटिशः || ९-२१ || त्रिविधैः षट्प्रकारैश्च द्विषट्कप्रविभागिभिः | चतुर्विंशतिसंभेदैस्त्रिंशदर्धद्वयोज्ज्वलैः || ९-२२ || षष्टिषट्कसमाकीर्णैः कोटिकोटिविभागिभिः | कालैरनेकसाहस्रैरयुतायुतसंकुलैः || ९-२३ || प्. ८४) कीर्णं नियतिरूपेण नानानियमनात्मना | कोटिकोटिसहस्रौघकोटिकोटिगुणेन च || ९-२४ || शक्त्या नानाविधाकारमधुकोशनिभात्मना | निष्यन्दमानतत्त्वौघस्वरूपमधुविप्रुषा || ९-२५ || कोटिकोटिसहस्रौघनियुतायुतरूपया | स्निग्धं क्वचिदिवात्यर्थं पुंसा क्वचिदिवास्थितम् || ९-२६ || शुक्लरक्तासिताकारकर्मकल्पितरूपिणा | अनेकमशकाकीर्णोदुम्बरप्रतिमात्मना || ९-२७ || नानाजीवविभेदेन नानाफलविधाजुषा | शुभाशुभोभयाकारवासनाजटिलात्मना || ९-२८ || अनेकक्लेशकोशेन पुरुषेणास्थितं क्वचित् | निर्मलानन्दसंबोधमहासत्तामयेन च || ९-२९ || नित्यैर्मुक्तैर्निराबाधैर्निर्मलानन्दलक्षणैः | साक्षात् पश्यद्भिरीशानं नारायणमनामयम् || ९-३० || देव्या लक्ष्म्या समासीनं पूर्णषाड्गुण्यदेहया | नित्योदितैर्नित्यतृप्तैरतिक्रान्तैस्तमो महत् || ९-३१ || आत्मभिः शोभितेनैवं वरेण नियताङ्कितम् | षाड्गुण्यविग्रहैर्व्यूहैः पुरुषैः पुष्करेक्षणैः || ९-३२ || प्. ८५) आस्थितं जगदुत्पत्तिस्थितिसंहृतिकारिभिः | इति व्याप्तवतीमेतां विभूतिं वैष्णवीं पराम् || ९-३३ || चित्राम्बरधरां सम्यग्दधदात्मानमात्मना | संकल्पो वैष्णवो योऽयं मणीन् सूत्रमिवास्थितः || ९-३४ || तदनन्तारमव्यक्तं महच्चक्रं सुदर्शनम् | भावितं स्मृतिमात्रेण भावयत्यखिला गतीः || ९-३५ || संहृतिचक्रम् यो जिहीर्षामयो नित्यः संकल्पो वैष्णवः परः | अनन्तारमपर्यन्तं तत्संहृतिसुदर्शनम् || ९-३६ || एक एव तु संकल्पो रूपैर्नानोपगीयते | अनन्तमपरिच्छेद्यमप्रमेयमनूपमम् || ९-३७ || अतरङ्गार्णवाकारमनभ्राम्बरसंनिभम् | एकं तत् परमं ब्रह्म षाड्गुण्यस्तिमितं महत् || ९-३८ || भावाभावमयी तस्य शक्तिरेकानपायिनी | तद्धर्मधर्मिणी दिव्या ज्योत्स्नेव हिमदीधितेः || ९-३९ || तस्य संकल्पसंकल्पो रूपव्याप्रियमाणता | स्तैमित्यस्थितिसंकल्पस्तिमितं तत् सुदर्शनम् || ९-४० || प्. ८६) चलनचक्रम् प्रभवे चाप्यये वापि स्थितौ वापि महामुने | चलत्तापूर्वरूपं यः संकल्पस्तत्र वर्तते || ९-४१ || चलनं नाम तच्चक्रं सुदर्शनमयं महत् | तस्य त्रैविध्यम् भेदास्त्रयोऽस्य विज्ञेयास्तन्त्रविज्ञानपारगैः || ९-४२ || महासृष्टिमयं तत्र समासव्यासलक्षणम् | नानाशक्तिसमाकीर्णं तच्च ते कथितं पुरा || ९-४३ || महासंहारचक्रं च समासव्यासलक्षणम् | तादृगेवात्र विज्ञेयं तच्च ते दर्शितं पुरा || ९-४४ || स्थितिचक्रं तु यन्मध्ये समासव्यासलक्षणम् | तस्य वक्ष्यामि विस्तारं यत्प्रमाणतया स्थितम् || ९-४५ || यथा ह्येको नटो भावैर्नानारूपैर्विभज्यते | तथा संकल्प एवैकस्तैस्तैर्भेदैर्विभज्यते || ९-४६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां अशुद्धजगदाधारनिरूपणं नाम नवमोऽध्यायः || ९ || आदितः श्लोकाः ५६६ अर्थात्मकप्रमाणनिरूपणं नाम दशमोऽध्यायः नारदः - भगवन् देवदेवेश भवानीजीवितेश्वर | लोकनाथ जगन्नाथ देवानामभयप्रद || १०-१ || नमस्ते त्रिपुरघ्नाय तत्त्वविज्ञानसिन्धवे | दशाव्ययाय ते नित्यं षडङ्गाय नमो नमः || १०-२ || यदेतदुदितं नित्यं जगत्कारणमव्ययम् | यच्चाधारतया प्रोक्तं संकल्पाख्यं सुदर्शनम् || १०-३ || तदेतदखिलं देव विष्णुसंकल्पजृम्भितम् | समासव्यासरूपेण तत्त्वतो मेऽवधारितम् || १०-४ || इदानीं श्रोतुमिच्छामि विस्तरेणान्तकान्तक | किं तत् प्रमाणमित्युक्तं कीदृशं किंविधं च तत् || १०-५ || किमर्थं किंमयं देव तन्मे विस्तरशो वद | वक्ता सर्वस्य गुह्यस्य त्वदन्यो नैव विद्यते || १०-६ || प्. ८८) प्रमाणनिरूपणप्रतिज्ञा अहिर्बुध्न्यः - शृणु नारद तत्त्वेन प्रमाणस्थितिमव्ययाम् | विश्वं यत्रैव विश्रान्तं सदेवासुरमानुषम् || १०-७ || प्रमाणस्वरूपनिरूपणम् मध्यमो यः स संकल्पो विष्णोः सृष्टवतो जगत् | शाश्वते तिष्ठति व्यक्तं जगन्मार्ग इतीदृशः || १०-८ || तत् प्रमाणमिति प्रोक्तं स्थितिचक्रं महामुने | प्रमाणविभागः समष्टिव्यष्टिभावेन तद् द्विरूपं विभाव्यते || १०-९ || समष्टिप्रमाणस्वरूपम् ऐकरूप्येण संकल्पो यः सर्वविषये स्थितः | महास्थितिमयं चक्रं तदेतत् कीर्तितं मुने || १०-१० || व्यष्टिप्रमाणस्वरूपम् तत्त्वेयत्ता समस्तात्मन् यस्मिन्नायततेऽखिला | प्रातिस्विकी व्यवस्था या यस्य सत्त्वस्य यादृशी || १०-११ || प्. ८९) परिणामक्रियासाध्यस्थानरूपादिगोचरा | तद्वद्व्यष्टिमये चक्रे प्रमाणे सा व्यवस्थिता || १०-१२ || एकचेष्टादिको योर्थो यश्च सृष्ट्यादिलक्षणः | शास्त्रशास्त्रार्थतत्साध्यव्यवस्थात्मा च यो मुने || १०-१३ || वासुदेवादिके व्यूहे स्वस्वसंकल्पसंभवः || १०-१४ || प्रमाणं येन तत् सर्वमियत्तां प्रतिपद्यते | तस्यैव विस्तरेण प्रतिपादनम् यच्च तत् परमं व्योम दिव्यसंभोगलक्षणम् || १०-१५ || स्थितिप्रमाणरूपेण तत्संकल्पेन वै हरेः | अनियत्तमसंकोचमनन्तं व्यवतिष्ठते || १०-१६ || अचेतनानां तत्त्वानां या सा योनिः परा मुने | कालकाल्यमयी शक्तिरियत्ता तत्त्रिधा परा || १०-१७ || स्वरूपकार्यभावादौ सा प्रमाणनिबन्धना | नियतिः काल इत्येते द्वे कालस्य भिदे मते || १०-१८ || शुद्धाशुद्धमये मध्ये यः पुमान् कूटवत् स्थितः | नानाजीवमहायोनिस्तस्य या स्थितिरव्यया || १०-१९ || प्. ९०) इयत्ता या च सा चक्रे प्रमाणे व्यवतिष्ठते | इयत्ताया भिदा या च कलाकाष्ठादिगोचरा || १०-२० || सा प्रमाणमये चक्रे सर्वाप्यायतते मुने | सत्त्वादीनां स्वरूपं यद्या प्रवृत्तिः फलं च यत् || १०-२१ || इयत्ता तत्र सर्वत्र सा प्रमाणसुदर्शनात् | यद्रूपत्रितयं बुद्धेर्धर्माद्या या च विक्रिया || १०-२२ || व्यापारस्पन्दनिर्णीतिर्निमेषात्मा च योऽखिलः | योऽत्रेयत्तामयो भावः स प्रमाणसुदर्शनात् || १०-२३ || अभिमानो द्विधा योऽपि संरम्भो योऽप्यहंकृतेः | यश्च कामादिको भावस्तत्रेयत्तास्थितिश्च या || १०-२४ || सा प्रमाणमये चक्रे संकल्पेऽस्मिन् सुदर्शनेन | पञ्चानां पञ्चकं यच्च संकल्पानामवस्थितम् || १०-२५ || तादृशं च विकल्पानां तदेतद् द्वितयं मुने | इयत्ता या स्थिता व्याप्य सा प्रमाणसुदर्शनात् || १०-२६ || तानवं पाटवं यच्च यच्चालोचनपञ्चकम् | शान्तघोरादिकं रूपं यच्च धीन्द्रियपञ्चके || १०-२७ || वचनादानविक्रान्तिमोदोत्सर्गमयं च यत् | शान्तघोरादिकं रूपं यत्कर्मेन्द्रियपञ्चके || १०-२८ || प्. ९१) तत्रेयत्तामयं रूपम् यच्च स्थितिमयं वपुः | प्रमाणे वैष्णवे सर्वं तत्संकल्पसुदर्शने || १०-२९ || व्यूहावकाशलघुताचेष्टाप्रेरणशोषणम् | व्यूहावकाशव्यक्तार्द्रस्नेहक्षुद्रत्वमप्युत || १०-३० || स्थैर्यपार्थिवकाठिन्यमित्येतद्भौतिकं वपुः | एकद्वित्रिचतुःपञ्चगुणव्यूहमयी स्थितिः || १०-३१ || यैस्तद्व्याप्य स्थितेयत्ता सा प्रमाणसुदर्शनात् | तत्त्वे तत्त्वे च मर्यादा या या शश्वदवस्थिता || १०-३२ || सा सा प्रमाणचक्रस्य संकल्पस्य हरेर्गतिः | इतीयं स्थितिमर्यादेयत्ता चक्रे प्रकीर्तिता || १०-३३ || विष्णुसंकल्पसंभूतां स्थितिमन्यां मुने शृणु | प्रतिबन्धनिरासेन या स्वभावगतिर्मुने || १०-३४ || तत्त्वानां तात्त्विकानां च सा स्थितिः कथ्यते मुने | गुणान्तरानुग्रहेण यः सत्त्वोन्मेष ऊर्जितः || १०-३५ || धर्मज्ञानादिरूपोऽसौ सुदर्शनसमीरितः | परिमाणविशेषः स बोध्यस्त्रैलोक्यधारकः || १०-३६ || शनैराचर्यमाणोऽसौ सत्त्वोज्ज्वलितबुद्धिभिः | बिभर्ति रोदसी शश्वदन्नवृष्ट्यादिदानतः || १०-३७ || प्. ९२) गुणान्तरानुग्रहेण तमसो यः स उद्यमः | अधर्मादिस्वरूपोऽसौ विष्णुसंकल्पचोदितः || १०-३८ || शनैराचर्यमाणोऽसौ तमोमलिनबुद्धिभिः | अन्नवृष्ट्यादिनाशेन विनाशयति रोदसी || १०-३९ || सत्त्वस्योपद्रवः शश्वदतोऽन्यस्माद्गुणद्वयात् | शस्त्रव्यूहप्रतिपादनम् धर्मसंस्थापनायाथ निरसिष्यन्नधार्मिकान् || १०-४० || जनार्दनत्वमीशानो यदा विष्णुः प्रपद्यते | तदा देवस्य संकल्पः सुदर्शनसमाह्वयः || १०-४१ || आयुधादिस्वरूपेणाकारत्वं प्रतिपद्यते | चक्रलाङ्गलसौनन्दशङ्खशार्ङ्गशरत्मना || १०-४२ || खड्गखेटकरूपेण पाशाङ्कुशपरश्वधैः | दण्डकुन्तस्वरूपेण दम्भोलिमुसलात्मना || १०-४३ || शतवक्राग्निरूपेण कुन्तशक्तिमयात्मना | तथा शूलस्वरूपेण खर्वाङ्गाद्यायुधात्मना || १०-४४ || एवं नानाविधै रूपैस्तत्संकल्पविकल्पितैः | उदेति जगतो वृद्ध्यै नारायणकराश्रयी || १०-४५ || इति शस्त्रमयो व्यूहो लेशतस्ते निदर्शितः | अपरोऽस्त्रमयो व्यूहः सौदर्शन उदीर्यते || १०-४६ || प्. ९३) अस्त्रव्यूहप्रतिपादनम् रूपमास्थाय दिव्यं तदङ्गप्रत्यङ्गभूषणम् | ब्रह्मक्षत्रादिभावेन मुखबाहूरुपादतः || १०-४७ || ब्रह्मास्त्रादिमयं व्यूहं प्रवर्तकनिवर्तकम् | सृजत्यशेषरक्षार्थं षष्टिद्वितयसंमतम् || १०-४८ || प्रजापतिपितृब्रह्मदेवेभ्यश्च तथा तथा | दिव्यो नानाविधाकारः समुदेत्यस्त्ररूपवान् || १०-४९ || ब्रह्मदेवर्षिराजर्षिष्वपि मन्त्रमयात्मसु | अनुव्याहारशापादिरूपेणैवावतिष्ठते || १०-५० || न तदस्ति पृथिव्यां वा दिवि वा मुनिसत्तम | निग्रहेऽनुग्रहे वापि यत्रायं नैव साधनम् || १०-५१ || प्रमाणव्यूह एतावानर्थाकारो निदर्शितः | सुदर्शनस्य देवस्य शब्दाकारमथो शृणु || १०-५२ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अर्थात्मकप्रमाणव्यूहनिरूपणं नाम दशमोऽध्यायाः || १० || आदितः श्लोकाः ६१८ शब्दात्मकप्रमाणव्यूहनिरूपणं नाम एकादशोऽध्यायः नारदः - नमः समस्तगीर्वाणसुखसौभाग्यदायिने | शंकराय गिरीशाय गौरीदयित ते नमः || ११-१ || शब्दात्मकप्रमाणप्रश्नः श्रुतः प्रमाणरूपोऽयं व्यूहार्थो यन्मयाखिलः | शब्दाकारो य उद्दिष्टस्तं मे वद सुरेश्वर || ११-२ || तत्प्रतिविवक्षयोपोद्धातः अहिर्बुध्न्यः आदिसर्गे पुरावृत्ते नानाभावविभूषिते | आसीच्छक्तिमतो विष्णोरियं चिन्ता सुखोदया || ११-३ || आदिसर्गे भगवतश्चिन्ताप्रकारः विपुलेयं कृता सृष्टिर्मया सत्त्वगुणोत्तरा | प्रत्यक्षसर्वधर्मार्था निराबाधा सुखोत्तरा || ११-४ || प्रजेयमभिनिर्वृत्ता देवर्षिब्रह्मसंकुला | सत्त्वविवृद्ध्या परमपुरुषप्राप्तिपूर्वकं स्वरूपाविर्भावः प्. ९५) तत्त्वज्ञानसमायोगात् सद्धर्मकरणादपि || ११-५ || अचिरेणैव मां प्राप्य स्वीयं भावं भजिष्यते | रजस्तमोविवृद्ध्या सत्त्वह्रासः रजस्तमोगुणोद्रेकः कालेनैव भविष्यति || ११-६ || तदुन्मेषवशेनैव सत्त्वमप्युपचोष्यते | तदा दैत्याद्याविर्भावः तदा प्रादुर्भविष्यन्ति दैत्यदानवराक्षसाः || ११-७ || तैर्वैदिकमर्यादाविलोपनम् तैरियं सात्त्विकी दिव्या मर्यादा चालयिष्यते | ज्ञानप्रमोषात् धर्मतिरोधानम् रजस्तमोगुणोन्मेषात् सम्यग्ज्ञाने विनाशिते || ११-८ || ज्ञानहेतुः स धर्मोऽपि तिरोधानं गमिष्यति | ततः प्रजाक्षोभः ततश्चेयमनाधारा प्रजाशुद्धा विनङ्क्ष्यति || ११-९ || तदा भगवदवताराणां लब्धावकाशता तत्र रूपैरनेकैर्मे कृत्यं शश्वद्भविष्यति | प्. ९६) तेषूपकरणापेक्षा नानाकारा भविष्यति || ११-१० || धर्मस्थापननिश्चयः आविश्याविश्य भूतानि स्वेन रूपेण मायया | तैस्तैः साधनसंभेदैर्निरस्य सुकृतद्विषः || ११-११ || सुकरा धर्ममर्यादा तत्र तत्र भविष्यति | अधर्मनिराससाधनद्वैविध्यम् साधनं च द्विधा कार्यं धर्मद्वेषिनिराकृतौ || ११-१२ || शस्त्रास्त्रव्यूहरूपेण शास्त्ररूपेण चैव हि | भगवत्संकल्पात् तदुभयोत्पत्तिः इत्युक्त्वार्थत्वरूपं हि शस्त्रास्त्रौघसमाकुलम् || ११-१३ || व्यूहं ससर्ज संकल्प्य स्वेन संकल्पतेजसा | स च सौदर्शनो व्यूहो मर्यादाधारणक्षमः || ११-१४ || प्रमाणरूप उद्दिष्टो वक्ष्यते च तथा तथा | प्रमाणरूपशास्त्रार्थः संकल्पो वैष्णवो हि यः || ११-१५ || उदितो ब्रह्मणस्तस्माद्यथा तदवधारय | आदिशास्त्रस्वरूपवर्णनम् संकल्पमयमेवैकं सकलान्तस्तमोनुदम् || ११-१६ || प्. ९७) निर्घातशब्दवद्व्योम्नः शास्त्रमेकमभूत् तदा | वर्णार्थैः संभृतैर्वर्नैश्चिदानन्दमहोर्मिभिः || ११-१७ || विष्णुशक्तिसमुद्रोत्थैर्मणिभिमाक्तिकैरिव | प्रोतं सौदर्शनं रूपं विष्णोः संकल्पकल्पितम् || ११-१८ || तद्विज्ञानमयं शास्त्रं सद्धर्मप्रतिपादकम् | नियुताध्यायि यत् प्रोक्तं कामपालेन शाश्वतम् || ११-१९ || तस्य सर्वशास्त्रार्थगर्भितत्वम् पुरुषार्थैश्चतुर्भिस्तदन्वितं हेतुसंकुलम् | ऋग्यजुःसामभिर्जुष्टमङ्गिरोभिरथर्वभिः || ११-२० || पदवाक्यप्रमाणार्थैर्विकल्पैर्बहुभिश्चितम् | अलंकृतं शुभैस्तैस्तैः समयैर्दिव्यमानुषैः || ११-२१ || तस्तैर्विकल्पितैः कल्पैश्छन्दोभिर्विविधैर्वृतम् | कालोपग्रहसंख्याभिः प्रकृतिप्रत्ययैः स्वरैः || ११-२२ || विभक्तिकारकैर्लिङ्गैः स्वैरैः प्रकृतिसन्धिभिः | संज्ञाभिः साधिकाराभिर्भूषितं परिभाषया || ११-२३ || आदेशैरागमैर्लोपैर्विकारैश्चाप्युपाघिभिः | वृत्तिभिर्विविधाभिश्च वाक्यैरुपपदैरपि || ११-२४ || प्. ९८) अव्ययैरुपसर्गैश्च नामाख्यातनिपातकैः | मात्रावृत्तिस्वरबलैरभिनिष्टानसामभिः || ११-२५ || यमरङ्गविभागैश्च भूषितं पदभङ्गिभिः | वर्णागमविकल्पैश्च तथा वर्णविपर्ययैः || ११-२६ || कल्पनाभिश्च लघ्वीभिर्विकृतेः प्रकृतेरपि | निरुक्तकल्पैर्विविधैर्नानानिगमनैरपि || ११-२७ || ग्रहनक्षत्रराशिस्थैर्विकल्पैर्गणनोत्थितैः | होरास्कन्धविकल्पैश्च विधानैः फलकल्पितैः || ११-२८ || विध्यर्थवादमन्त्रोत्थैर्विचारैः कर्मकल्पनैः | अङ्गयुक्तिक्रमोहैश्च तन्त्रवापातिदेशनैः || ११-२९ || अधिकारैरनेकैश्च विचारैर्वाक्यगोचरैः | प्रमाणकल्पितैर्न्यायैर्निग्रहच्छलजातिभिः || ११-३० || द्रव्यकर्मविकल्पैश्च गुणसामान्यकल्पनैः | चातुर्होत्रविकल्पैश्च चातुर्वैद्यविजृम्भितैः || ११-३१ || चातुराश्रम्यकल्पैश्च चातुर्वर्ण्यविकल्पितैः | संस्कारकल्पैर्विविधैर्नित्यकाम्यक्रियाक्रमैः || ११-३२ || इतिहासपुराणाभ्यां विविधाभ्यां समन्वितम् | विविधैश्च प्रसंख्यानैः स्वप्रकृत्यादिकल्पितैः || ११-३३ || प्. ९९) पुमीश्वरविकल्पैश्च परिणामविकल्पितैः | अवस्थालक्षणव्याख्याधर्मकॢप्तिविचित्रितम् || ११-३४ || प्रमाणानां ससर्गाणां नानाकल्पनयान्वितम् | लेपालेपविचारैश्च पुरुषाव्यक्तगोचरैः || ११-३५ || तत्त्वतात्त्विककल्पैश्च नानागतिविचिन्तनैः | मुक्तिक्रमविचारैश्च ख्यातिकल्पैरनेकशः || ११-३६ || ज्ञानाज्ञानसमाख्यातगुणदोषविचारणैः | गुणत्रयविकल्पैश्च सर्गसंयोगचिन्तनैः || ११-३७ || आन्वितं विविधैः सांख्यैः प्रसंख्यानकृतक्रमैः | योगप्रकारकल्पैश्च वृत्तीनां कल्पनैरपि || ११-३८ || अभ्यासकल्पैर्विविधैश्चातुर्वैराग्यकल्पनैः | अन्तरङ्गबहिर्भूतयोगाङ्गपरिचिन्तनैः || ११-३९ || क्लेशकर्मविपाकानामाशयानां च वर्णनैः | तापसंस्कारचिन्ताभिर्दुःखभेदविचिन्तनैः || ११-४० || तैस्तैश्चतुरधिष्ठानकल्पनैः कल्पितं पृथक् | उपादेयस्य हेयस्य हानोपादानयोरपि || ११-४१ || स्वरूपचिन्तानैश्चित्रैर्भोगकामविकल्पनैः | प्. १००) क्रियायोगैरनेकैश्च चित्तसंस्कारसाधनैः || ११-४२ || सिद्धिभिश्च विचित्राभिश्चित्तस्थाभिरलंकृतम् | पतिपाशपशुव्याख्याविकल्पैर्हेतुचित्रितैः || ११-४३ || शुद्धाध्वकल्पनाभिश्च क्रियाज्ञानविभेदतः | अर्थपञ्चकचिन्ताभिरनेकाभिरलंकृतम् || ११-४४ || शक्तिपञ्चकचिन्ताभिर्मलत्रयविचारणैः | भोगोपकरणाख्यानैः पुंसां रूपविकल्पनैः || ११-४५ || दीक्षाप्रतिष्ठाकल्पैश्च धर्मैः पाशुपतैरपि | इति नानाविधाकारबुद्धिकल्पविचित्रया || ११-४६ || युक्तं कल्पनया शश्वत् कॢप्तनानाधिकारया | अधिकारेण सद्धर्मान् व्याचक्षाणमनेकधा || ११-४७ || नियुताध्यायकं पूर्वमासीत् संकर्षणोदितम् | संकल्पमयमाद्यस्य विष्णोः संकल्पजात् किल || ११-४८ || तस्य शास्त्रस्य भगवत्प्रीतिहेतुत्वम् तेन शास्त्रेण ते दिव्या मनवो मानवाश्च ते | ये प्रोक्ता आदिसर्गे ते तथा मानवमानवाः || ११-४९ || सत्क्रियाभिरनल्पाभिर्नारायणमतोषयन् | तस्य शास्त्रस्य मन्दप्रचारता अथ कालविपर्यासाद्युगभेदसमुद्भवे || ११-५० || प्. १०१) त्रेतादौ सत्त्वसंकोचाद्रजसि प्रविजृम्भिते | कामं कामयमानेषु ब्राह्मणेषु महात्मसु || ११-५१ || मन्दप्रचारमासीत् तच्छासनं यत् सुदर्शनम् | वाच्यायनादिभिस्तच्छास्त्रविभजनम् ततो मोहाकुले लोके लोकतन्त्रविधायिनः || ११-५२ || संभूय लोककर्तारः कर्तव्यं समचिन्तयन् | अपान्तरतपा नाम मुनिर्वाक्संभवो हरेः || ११-५३ || कपिलश्च पुराणर्षिरादिदेवसमुद्भवः | हिरण्यगर्भो लोकादिरहं पशुपतिः शिवः || ११-५४ || एते तप्त्वा तपस्तीव्रं वर्षाणामयुतं शतम् | आदिदेवमनुज्ञाप्य देवदेवेन चोदिताः || ११-५५ || सुदर्शनस्य लेशेन तत्संकल्पेन संयुताः | विज्ञानबलमासाद्य धर्माद्देवप्रसादजात् || ११-५६ || आविर्भूतं तु तच्छास्त्रमंशतस्ते ततक्षिम | तत्र वाच्यायनेन वेदविभजनम् ततक्ष भगवान्पूर्वमपान्तरतपा मुनिः || ११-५७ || हरेर्वाच्यायनः पुत्रो यावदात्तं च वै ततः | उदभूत् तत्र धीरूपमृग्यजुःसामसंकुलम् || ११-५८ || विष्णुसंकल्पसंभूतमेतद्वाच्यायनेरितम् | प्. १०२) कपिलेन सांख्यविभजनम् ततक्ष कपिलः शास्त्राद्यावदंशमुदारधीः || ११-५९ || तत् सांख्यमभवच्छास्त्रं प्रसंख्यानपरायणम् | हिरण्यगर्भेण योगशास्त्रविभजनम् हिरण्यगर्भो लोकादिर्यत् ततक्षादिशासनात् || ११-६० || यमाद्यङ्गमभूदेतद् दिव्यं योगानुशासनम् | शिवेन पाशुपतविभजनम् अहं ततक्ष यच्छास्त्रादंशान्नानाव्रताकुलात् || ११-६१ || अभूत् पाशुपताख्यं तत् पशुपाशविमोचनम् | भगवता पाञ्चरात्रविभजनम् सदागममयात् तस्मात् केवलाद् दिव्यशासनात् || ११-६२ || निर्ममे सारमुद्धृत्य स्वयं विष्णुरसंकुलम् | तत् परव्यूहविभवस्वभावादिनिरूपणम् || ११-६३ || पञ्चरात्राह्वयं तन्त्रं मोक्षैकफललक्षणम् | सुदर्शनाह्वयो योऽसौ संकल्पो वैष्णवः परः || ११-६४ || स स्वयं बिभिदे तेन पञ्चधा पञ्चवक्त्रगः | अध्यायार्थनिगमनम् विष्णुसंकल्परूपोऽयं प्रमाणव्यूह ईरितः | प्. १०३) शस्त्रशास्त्रविभेदेन किं भूयः श्रोतुमिच्छसि || ११-६५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहनिरूपणं नामैकादशोऽध्यायः || ११ || आदितः श्लोकाः ६८३ शब्दात्मकप्रमाणव्यूहविशेषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः वृत्तानुवादः नारदः - सुरासुरगणाराध्य नमस्ते पार्वतीप्रिय | त्वत्प्रसादाच्छ्रुतं देव दिव्यं तद्वैष्णवं यशः || १२-१ || यत् तदाद्यं महच्छास्त्रं सुदर्शनमयं हरेः | तस्मात् पृथक् पृथक्छास्त्रमाहुर्वाच्यायनादयः || १२-२ || त्रययादिस्वरूपप्रश्नः त्रयी सांख्यं तथा योगशास्त्रं पाशुपतं तथा | सात्त्वतं चेति तद्रूपं श्रोतुमिच्छाम्यहं प्रभो || १२-३ || तत्प्रतिवचनप्रतिज्ञा अहिर्बुध्न्यः - शृणु नारद तत्त्वेन तेषां रूपं पृथक् पृथक् | संकल्पो यावता विष्णोर्भेदेन व्यवतिष्ठते || १२-४ || प्. १०५) त्रयीस्वरूपनिरूपणम् तत्र त्रयीमयं रूपमाद्यं सर्वार्थदशनम् | ऋग्यजुःसामरूपत्वात् त्रयी सा परिकीर्तिता || १२-५ || कार्यभेदात् त्रयीत्वेऽपि चतुर्धा सा प्रकीर्तिता | ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा || १२-६ || चातुर्होत्रप्रधानत्वादृगादित्रितयं त्रयी | अथर्वणां पृथक्करणे हेतुः अथर्वाङ्गिरसां रूपं सर्वमृग्यजुषात्मकम् || १२-७ || तथापि शान्त्याभिचारप्राधान्यात् ते पृथक् कृताः | ऋगादीनां शाखासंख्या एकविंशतिशाखावानृग्वेदः परिगीयते || १२-८ || शतं चैका च शाखाः स्युर्यजुषामेकवर्त्मनाम् | साम्नां शाखाः सहस्रं स्युः पञ्च शाखा अथर्वणाम् || १२- ९ || इयतामेव वेदानां प्रत्यक्षत्वम् इयन्त एव प्रत्यक्षा आम्नायन्ते महर्षिभिः | स्मर्यन्ते मुनिभिर्नित्यं लब्धानुज्ञैर्महेश्वरात् || १२-१० || एषां नैयमिका धर्माः स्वरूपाम्नायगोचराः | कल्पादीनि षडङ्गानि कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषां गतिः || १२-११ || प्. १०६) छन्दसां विचयश्चेति षडङ्गानि विदुर्बुधाः | मीमासा न्यायश्चोपाङ्गम् उपाङ्गद्वितयं चैतन्मीमांसा न्यायविस्तरः || १२-१२ || धर्मज्ञसमयोऽर्थाश्च वेदवादोत्थितास्तथा | निबद्धा चानिबद्धा च संस्काराचारसंततिः || १२-१३ || धर्मशास्त्रं महर्षीणामन्तःकरणसंभृतम् | उपवेदादिकम् इतिहासपुरणाख्य उपवेदः प्रकीर्तितः || १२-१४ || वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने | आयुर्वेदश्च पञ्चैत उपवेदाः प्रकीर्तिताः || १२-१५ || दण्डनीतिश्च वार्ता च विद्याद्वयमिदं परम् | एकविंशतिभेदो यः सप्रकारः प्रकीर्तितः || १२-१६ || वाच्यायनादृषेः पूर्वं विष्णोर्वाणीसमुद्भवात् | त्रयीरूपेण संकल्प इयद्भेदो विजृम्भितः || १२-१७ || सांख्यस्वरूपवर्णनम् सांख्यरूपेण संकल्पो वैष्णवः कपिलादृषेः | उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् || १२-१८ || षष्टिभेदं स्मृतं तन्त्रं सांख्यं नाम महामुने | प्. १०७) प्राकृतं वैकृतं चेति मण्डले द्वे समासतः || १२-१९ || प्राकृतमण्डलवर्णनम् प्राकृतं मण्डलं तत्र द्वात्रिंशद्भेदमिष्यते | तत्राद्यं ब्रह्मतन्त्रं तु द्वितीयं पुरुषाङ्कितम् || १२-२० || त्रीणि तन्त्राण्यथान्यानि शक्तेर्नियतिकालयोः | गुणतन्त्राण्यथ त्रीणि तन्त्रमक्षरपूर्वकम् || १२-२१ || प्राणतन्त्रमथान्यत्तु कर्तृतन्त्रमथेतरत् | सामितन्त्रमथान्यत्तु ज्ञानतन्त्राणि पञ्च च || १२-२२ || क्रियातन्त्राणि प्रञ्चाथ मात्रातन्त्राणि पञ्च च | भूततन्त्राणि पञ्चेति त्रिंशद् द्वे च भिदा इमाः || १२-२३ || प्राकृतं मण्डलं प्रोक्तं वैकृतं मण्डलं शृणु | वैकृतमण्डलवर्णनम् अष्टाविंशति भेदं तन्मण्डलं वैकृतं स्मृतम् || १२-२४ || कृत्यकाण्डानि पञ्चादौ भोगकाण्डं तथाऽपरम् | वृत्तकाण्डं तथैकं तु क्लेशकाण्डानि पञ्च च || १२-२५ || त्रीणि प्रमाणकाण्डानि ख्यातिकाण्डमतः परम् | धर्मकाण्डमथैकं च काण्डं वैराग्यपूर्वकम् || १२-२६ || प्. १०८) अथैश्वर्यस्य काण्डं च गुणकाण्डमतः परम् | लिङ्गकाण्डमथैकं च दृष्टिकाण्डमतः परम् || १२-२७ || आनुश्रविककाण्डं च दुःखकाण्डमतः परम् | सिद्धिकाण्डमथैकं च काण्डं काषायवाचकम् || १२-२८ || तथा समयकाण्डं च मोक्षकाण्डमतः परम् | अष्टाविंशतिभेदं तदित्थं विकृतिमण्डलम् || १२-२९ || षष्ठितन्त्राण्यथैकैकमेषां नानाविधं मुने | षष्टितन्त्रमिदं सांख्यं सुदर्शनमयं हरेः || १२-३० || आविर्बभूव सर्वज्ञात् परमर्षेर्महामुने | योगशास्त्रस्वरूपवर्णनम् विष्णुसंकल्परूपं च महद्योगानुशासनम् || १२-३१ || हिरण्यगर्भादुद्भूतं तस्य भेदानिमाञ्शृणु | योगे संहिताद्वयम् आदौ हिरण्यगर्भेण द्वे प्रोक्ते योगसंहिते || १२-३२ || एका निरोधयोगाख्या कर्मयोगाह्वया परा | निरोधसंहिताया द्वादशविधत्वम् संहिता तु निरोधाख्या तत्र द्वादशधा स्मृता || १२-३३ || अङ्गतन्त्रमथाद्यं तु दोषतन्त्रमतः परम् | प्. १०९) उपसर्गाभिधं तन्त्रं तथाधिष्ठानकं परम् || १२-३४ || आधारतन्त्रं योगं च बहिस्तत्त्वाधिकारवत् | रिक्तयोगाख्यतन्त्रं च पूर्णयोगाख्यमेव च || १२-३५ || सिद्धियोगाख्यया त्रीणि मोक्षतन्त्रमतः परम् | इति द्वादशभेदास्ते निरोधायाः प्रकीर्तिताः || १२-३६ || कर्मसंहितायाश्चातुर्विध्यम् ब्रह्मणा गदितास्तत्र चतस्रः कर्मसंहिताः | नानाकर्ममयी त्वेका परा त्वेका क्रियामयी || १२-३७ || बाह्याभ्यन्तररूपेण द्वे अपि द्विविधे स्मृते | योगानुशासनं शास्त्रमिति षोडशविस्तरम् || १२-३८ || सुदर्शनमयं विष्णोरुदितं तत् प्रजापतेः | पशुपतस्वरूपवर्णनम् तन्त्रं पाशुपतं नाम पशुपाशप्रमोचनम् || १२-३९ || मद्वक्त्रान्निःसृतं विष्णोः संकल्पप्रविजृम्भितम् | पाशुपतस्याष्टकाण्डत्वम् अष्टकाण्डमिदं प्रोक्तं मया तन्त्रमनुत्तमम् || १२-४० || पतिकाण्डमथाद्यं तु पशुकाण्डमतः परम् | पाशकाण्डं तृतीयं तु प्रोक्तं पञ्चप्रभेदतः || १२-४१ || प्. ११०) शुद्धचर्या च मिश्रा च काण्डे द्वे परिकीर्तिते | देवकाण्डमथो षष्ठं दीक्षाकाण्डमतः परम् || १२-४२ || सायुज्यमष्टमं प्रोक्तं काण्डं पाशुपतं महत् | अष्टकाण्डमिदं शास्त्रं सुदर्शनमयं हरेः || १२-४३ || दिव्यं पाशुपतं शास्त्रं मयैवोक्तं महामुने | पाञ्चरात्रस्वरूपवर्णनम् यत् तत् सौदर्शनं विष्णोः सात्त्वतं नाम जृम्भितम् || १२-४४ || भेदो दशविधस्तस्य संक्षेपेण प्रकीर्तितः | भगवत्संहिता त्वाद्या तथान्या कर्मसंहिता || १२-४५ || विद्यामयी तृतीया च चतुर्थी कालसंहिता | कर्तव्यसंहिता त्वन्या षष्ठी वैशेषिकी क्रिया || १२-४६ || सप्तमी गदिता तत्र पूज्या संयमसंहिता | अष्टम्यधिकृते चिन्ता नवमी मार्गसंहिता || १२-४७ || सात्त्वती गीयते शुद्धा दशमी मोक्षसंहिता | एतावत् सात्त्वतं शास्त्रमाविरासीत् सनातनात् || १२-४८ || एतानि पञ्च शास्त्राणि मूलभूतानि वै मुने | युगे युगे विभज्यन्ते विष्णुसंकल्पचोदितैः || १२-४९ || तत्तत्कर्तृसमाख्यातास्तास्तास्त्रययादिसंहिताः | प्. १११) प्रादेशिक्यो निवर्तन्ते ह्रासकालानुकालतः || १२-५० || शास्त्राभासप्रवृत्तौ कारणम् हिंस्राणां मोहनार्थाय संकल्पा एव वैष्णवाः | शास्त्राभासाः प्रवर्तन्ते देवब्रह्मर्षिवक्त्रतः || १२-५१ || उक्तार्थनिगमनम् एष प्रमाणयोर्व्यूहो दिव्यः सौदर्शनः परः | शब्दार्थप्रविभागेन गदितस्ते मया मुने || १२-५२ || सुदर्शनपर्यायशब्दाः प्राणो माया क्रिया शक्तिर्भाव उन्मेष उद्यमः | सुदर्शनं च संकल्पः शब्दाः पर्यायवाचकाः || १२-५३ || पञ्चानामपि शास्त्राणां भगवति निष्ठा निष्ठा त्वेकैव शास्त्राणामेतेषां पञ्चवर्त्मनाम् | शास्त्रं सुदर्शनं नाम तदर्थो विष्णुरव्ययः || १२-५४ || प्रमाणमय उद्दिष्टो लेशतोऽयं महामुने | व्यूहः सौदर्शनो विष्णोः किं भूयः श्रोतुमिच्छसि || १२-५५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शब्दात्मकप्रमाणव्यूहविशेषस्वरूपनिरूपणं नाम द्वादशोऽध्यायः || १२ || आदितः श्लोकाः ७३८ प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः प्रमाणार्थविषयकः प्रश्नः नारदः - नमस्ते देवदेवेश नमस्ते मरुतां पते | भवानीपतये तुभ्यं नमस्ते वृषकेतन || १३-१ || त्वद्वक्त्रकमलोद्भूता अर्था अवधृता मया | यत् कारणं च जगतामाधारो जगतां च यः || १३-२ || जगतां यत् प्रमाणं च त्रयं तदवधारितम् | प्रमाणार्थमिदानीं मे वक्तुमर्हसि शंकर || १३-३ || यश्च यादृक् च यावांश्च प्रमाणास्यार्थ इष्यते | तत्प्रतिवचनप्रतिज्ञा अहिर्बुध्न्यः - शृणु नारद तत्त्वेन प्रमाणस्यार्थमुत्तमम् || १३-४ || विष्णुसंकल्पमूलो यो बहुधा प्रविजृम्भते | प्रमाणशब्दनिर्वचनम् मितिर्मा गदिता सद्भिः प्रकृष्टा मा प्रमा स्मृता || १३-५ || प्. ११३) प्रकर्षश्च मितेः सोऽयं यद्यथार्थावधारणम् | धीसाधकतमं यत् तत् प्रमाणमिति शब्द्यते || १३-६ || प्रमाणार्थस्वरूपम् प्रमाणेनार्थ्यते यद्धि स प्रमाणार्थ उच्यते | यत् पुंसो हितमत्यन्तं सर्वदेशेषु सर्वदा || १३-७ || स प्रमाणार्थ इष्टोऽत्र स द्वेधा व्यवतिष्ठते | तस्य द्वैविध्यम् हितं च साधनं चेति तयोस्तत्त्वमिदं शृणु || १३-८ || हितस्वरूपम् आत्यन्तिकी निवृत्तिस्तु पुंसो या दुःखसंततेः | तयोपलक्षितं नित्यं सुखं यत् तद्धितं स्मृतम् || १३-९ || साधनस्वरूपम् तस्य योऽव्यभिचारेण साधनत्वं प्रपद्यते | हितसाधनमित्युक्तः सोऽर्थो वेदान्तपारगैः || १३-१० || हितस्वरूपयाथात्म्यम् स्वरूपभूतं यत् पुंस्रो हितं सुखमुदीरितम् | भगवन्मयता सास्य भगवत्तापराह्वया || १३-११ || प्. ११४) साधनद्वैविध्यम् अत्यन्तसाधनं तस्य यत् तद् द्वेधा व्यवस्थितम् | विधा ज्ञानमिति त्वेका धर्म इत्यपरा विधा || १३-१२ || तयोर्हेतुहेतुमद्भावः हेतुमद्धेतुभावस्तु विधयोरनयोः स्मृतः | ज्ञानद्वैविध्यम् ज्ञानं तु हेतुमत् तत्र तच्च द्वेधा व्यवस्थितम् || १३-१३ || साक्षात्कारमयं चैकं परोक्षं परमीर्यते | तयोरपि हेतुहेतुमद्भावः हेतुमद्धेतुभावोऽयं द्वयोरपि निरूप्यते || १३-१४ || हेतुमत्त्वपरोक्षं यत् परोक्षं हेतुरुच्यते | कर्मणां ज्ञानहेतुत्वम् अनयोर्ज्ञानयोर्धर्मः स हेतुरिति गीयते || १३-१५ || साक्षात् परोक्षे तत्साध्ये हेतुस्तन्मुखतो ह्यसौ | कर्मणां द्वैराश्यम् अस्यापि द्वे विधे दृष्टे तत्त्वशास्त्राब्धिपारगैः || १३-१६ || प्. ११५) साक्षादाराधनात्मैकः परस्तु व्यवधानतः | व्यवहितकर्मस्वरूपम् अपारं तत् परं ब्रह्म शक्तिमत् परमेश्वरः || १३-१७ || नारायणसमाख्यातं नित्यं षाड्गुण्यमव्ययम् | विभूतयस्तु तस्येमे ब्रह्माद्याः स्थावरान्तिमाः || १३-१८ || भावनात्रयसंमिश्रास्तत्सुदर्शनजृम्भिताः | या सा भूतिः पुरा शक्तेः कोट्यंशेनोदिता मया || १३-१९ || तदंशलेशाद् ब्रह्माद्या विष्णुसंकल्पजृम्भिताः | एतद्विभूतिमुखतो यो ह्यकामहतैर्नरैः || १३-२० || ब्रह्मार्पणेन क्रियते स धर्मो व्यवधानवान् | अव्यवहितधर्मस्वरूपम् विभूतिमत् परं ब्रह्म तदेवाव्यवधानतः || १३-२१ || येन प्रीणयते योगी स साक्षाद्धर्म इष्यते | पाञ्चरात्रस्याव्यवहितधर्मपरत्वम् सात्त्वतं शासनं सर्वं तस्यैतस्यावबोधकम् || १३-२२ || सशिरस्कस्य वेदस्य व्यवहितधर्मपरत्वम् यस्तु पूर्वस्त्रयीभागः परभागार्थतां गतः | अपरस्य स धर्मस्य निष्कामानां निरूपकः || १३-२३ || प्. ११६) पाशुपतस्यैकविभूतिविषयकधर्मपरत्वम् धर्म एकविभूतिस्थो मया पाशुपते स्मृतः | उग्रव्रतैर्नरैः शश्वद् ब्रह्मप्रीत्यै स साध्यते || १३-२४ || सांख्यस्य परोक्षज्ञानफलकत्वम् साक्षाच्च व्यवधानाच्च यत् तन्मोक्षस्य साधनम् | परोक्षं तत् प्रसंख्यानं ज्ञानं सांख्येन चिन्त्यते || १३-२५ || वेदान्तानामपरोक्षज्ञानफलकत्वम् अन्तरङ्गशमाद्यङ्गभक्तिश्रद्धापुरःसरम् | त्रययन्तैर्ब्रह्मविज्ञानमपरोक्षं विभाव्यते || १३-२६ || योगस्यापरोक्षज्ञानाङ्गयमादिपरत्वम् बहिरङ्गान्तरङ्गाख्ययमाद्यङ्गकलापवान् | चित्तवृत्त्तिनिरोधात्मा योगो योगानुशासने || १३-२७ || शश्वदभ्यासवैराग्यपरेशप्रणिधानतः | साक्षात्कारावभासाख्यसिद्धशुद्धापवर्गदः || १३-२८ || गुणप्रधानभावेन सर्वत्र सर्वोपदेशः यथोक्ततत्त्वविज्ञानं नानाहेतुविधान्वितम् | धर्मो बहुविधश्चेति सर्वं सर्वैर्निरूप्यते || १३-२९ || शास्त्रेषु विविधफलान्तरसाधनान्तरोपदेशस्याभिप्रायकथनम् प्. ११७) हितप्रवृत्तेर्लोकानां तनूकाराय पाप्मनाम् | रागद्वेषप्रयुक्तानामायुर्वेदोपदेशवत् || १३-३० || नानारूपफलावाप्त्यै नानानियमभेदिताः | शास्त्रैर्धर्मा विधीयन्ते नानारूपा धियस्तथा || १३-३१ || लौकिकपुरुषार्थद्वयोपक्षेपः तदित्थं सविशेषं ते पुमर्थद्वयमीरितम् | अथान्यल्लौकिकं शास्त्रैः पुमर्थद्वयमीरितम् || १३-३२ || अर्थकामौ तयोः कामः स्मृतो वैषयिकेरितः | अर्थो गोभूहिरण्यादिप्रेक्षोत्थानफलात्मकः || १३-३३ || त्रिवर्गस्य मिथः साध्यसाधनभावविवेकः अर्थो धर्मस्य कामस्य तथार्थस्यापि साधनम् | धर्मो धर्मस्य कामस्य तथार्थस्यापि साधनम् || १३-३४ || कामो धर्मस्य कामस्य तथार्थस्यापि साधनम् | अर्थः कामश्च सर्वत्र व्यभिचारेण साधनम् || १३-३५ || धर्मः सर्वस्य साध्यस्य नियमेनैव साधनम् | तदेतत् त्रितयं प्रोक्तं त्रिवर्ग इति पण्डितैः || १३-३६ || प्. ११८) मोक्षस्य सर्वदा साध्यत्वमेव मोक्षश्च साध्य एवेति पुरुषार्थचतुष्टयम् | अर्थकामयोः प्रमाणनिरूपणम् दण्डनीतिः सवार्ता सा सोपवेदचतुष्टया || १३-३७ || प्रमाणत्वेन निर्दिष्टा पण्डितैरर्थकामयोः | इतिहासादेस्तत्त्वज्ञानसहकारित्वम् इतिहासपुराणाख्य उपवेदो हि यः स्मृतः || १३-३८ || सहायभावं शास्त्राणां तत्त्वज्ञाने व्रजत्यसौ | इति ते लेशतः प्रोक्ता पुरुषार्थचतुष्टयी || १३-३९ || धर्मादीनामन्तरङ्गसाधनानि अन्तरङ्गममुष्यास्तु साधनं शृणु नारद | निर्व्याजा निरुपस्कारा दया धर्मस्य साधनम् || १३-४० || हेतुरुत्थानमर्थस्य देशकालोपपादितम् | हेतुः कामस्य संकल्पो निर्व्याजो निरुपस्कृतः || १३-४१ || हेतुस्तु सर्वसंन्यासो मोक्षे ज्ञानपुरस्कृतः | तेषामेव बहिःसाधनानि न्याययं धर्मादि धर्मस्य बहिःसाधनमुच्यते || १३-४२ || बहिःसाधनमर्थस्य तन्त्रावापादिचिन्तनम् | प्. ११९) कामे पाणिग्रहाद्युक्तं बहिरङ्गं विचक्षणैः || १३-४३ || निष्कामधर्मकृत्यादि बहिर्मोक्षस्य साधनम् | विजृम्भितमिदं भूतेः पुरुषार्थचतुष्टयम् || १३-४४ || संकल्पो वैष्णवस्तस्य विजृम्भाहेतुरुच्यते | अध्यायार्थोपसंहारः इति ते सकला प्रोक्ता प्रमाणार्थगतिः परा | ससाधना सप्रकारा किं भूयः श्रोतुमिच्छसि || १३-४५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां प्रमाणार्थनिरूपणं नाम त्रयोदशोऽध्यायः || १३ || आदितः श्लोकाः ७८३ जीवस्य संसारहेतुतदुद्धरणप्रकारवर्णनं नाम चतुर्दशोऽध्यायः तत्रादौ मुक्तिविषयः पुनः प्रश्नः नारदः - अज्ञानतिमिरप्लोषिललाटनयनत्विषे | नमस्ते त्रिपुराराते नमस्तेऽन्तकविद्विषे || १४-१ || पुरुषार्थाः श्रुताः सर्वे मुख्यगौणविकल्पिताः | पुरुषार्थः श्रुतो मुख्यस्तत्र मुक्त्यभिसंज्ञितः || १४-२ || भगवत्तामयी प्रोक्ता मुक्तिश्च त्रिपुरद्विषा | तस्याश्च साधनं साक्षात् तत्त्वज्ञानं द्विधा स्थितम् || १४-३ || साधनं तस्य च प्रोक्तो धर्मो निरभिसंधिकः | भूयो विस्तरतः शंस मुक्तिं तां चन्द्रशेखर || १४-४ || यतो यस्य च या मुक्तिस्तच्च मे द्वितयं वद | न ह्यन्यं प्रष्टुमर्हामि त्वामृते सर्ववेदिनम् || १४-५ || जीवस्वरूपसंक्षेपः अहिर्बुध्न्यः - अनादिरपरिच्छेद्यश्चिदानन्दमयः पुमान् | प्. १२१) भगवन्मय एवायं भगवद्भावितः सदा || १४-६ || जीवस्य भगवच्छक्त्यंशलेशत्वम् या सा शक्तिर्महासत्ता विष्णोस्तद्धर्मधर्मिणी | तस्याः कुट्यर्बुदांशेन शक्ती द्वे कथिते तव || १४-७ || भूतिश्चेति क्रिया चेति भाव्यभावकसंज्ञिते | भूतिः सा क्रियया ज्वाला मरुतेव प्रणर्त्यते || १४-८ || नानाभेदवती भूतेर्विभूतिः कथिता पुरा | शुद्ध्यशुद्धिवशाद् द्वेधा शुद्धा सा बहुधोदिता || १४-९ || पुंशक्तिः कालमययन्या पुमान् सोऽयमुदीरितः | तस्य कालवश्यत्वात् संसारप्राप्तिः कालशक्तिविकारस्थः सोऽयं संसरति ध्रुवम् || १४-१० || साधननिष्पत्त्या स्वरूपाविर्भावः सोऽयं शास्त्रीयमासाद्य मार्गं स्वेनाभिजायते | तत्र पुनः प्रश्नः नारदः - भगवन् देवदेवेश त्रिपुरान्तक शंकर || १४-११ || कालशक्तिविकारस्थः कथं संसरति ध्रुवम् | प्. १२२) कथं वोपायमासाद्य पुमान् स्वेनाभिजायते || १४-१२ || भगवत्स्वातन्त्र्यस्यापर्यनुयोज्यत्वम् अहिर्बुध्न्यः - सर्वैरननुयोज्यं तत् स्वातन्त्र्यं दिव्यमीशितुः | अवाप्तविश्वकामोऽपि क्रीडते राजवद्वशी || १४-१३ || भगवत्संकल्पस्य पञ्चधा विभागः संकल्पो नाम यस्तस्य सुदर्शनसमाह्वयः | सत्यप्यनन्तरूपत्वे पञ्चधा स विजृम्भते || १४-१४ || सृष्टिस्थित्यन्तकारेण निग्रहानुग्रहात्मना | निग्रहशक्त्या जीवस्याकारादितिरोधानम् तिरोधानकरी शक्तिः सा निग्रहसमाह्वया || १४-१५ || पुमांसं जीवसंज्ञं सा तिरोभावयति स्वयम् | आकारैश्वर्यविज्ञानतिरोभावनकर्मणा || १४-१६ || तिरोधायकपर्यायशब्दाः मायाविद्या महामोहो महातामिस्रमित्यपि | तमो बन्धोऽथ हृद्ग्रन्थिरिति पर्यायवाचकाः || १४-१७ || जीवाणुत्वादि आकारस्य तिरोधानादणुत्वं पुंस इष्यते | प्. १२३) ऐश्वर्यस्य तिरोभावादकिंचित्करता स्मृता || १४-१८ || पुंसो विज्ञानसंकोचादज्ञत्वं समुदाहृतम् | तिरोहितः पुमाञ्छक्त्या विष्णुसंकल्परूपया || १४-१९ || अणुः किंचित्करश्चेति किंचिज्ज्ञश्चेति कथ्यते | अणुत्वादेर्मलत्वं बन्धत्वं च मलत्रयमिदं प्रोक्तं बन्धत्रयमिदं बुधैः || १४-२० || अविद्यादिभिर्मलविवृद्धिः तिरोभावनशक्त्यैवं वैष्णव्या बन्धमेयुषः | अविद्यास्मित्वरागाद्या मलं समुपचिन्वते || १४-२१ || इष्टानिष्टप्राप्तिपरिहारेच्छा क्लिश्यद्भिः क्लेशितः क्लेशैरविद्यादिभिरीद्दृशैः | नुन्नः प्रेप्साजिहासाभ्यामागमाननुसंपतन् || १४-२२ || इष्टार्थप्राप्तयेऽनिष्टविघाताय च लालसः | कर्म तत् कुरुते कामी शुभाशुभफलोदयम् || १४-२३ || कर्मवशात् जात्यायुर्भोगप्राप्तिः ततः कर्मविपाकस्थः शुभाशुभविमिश्रितान् | जात्यायुरनुबन्धान् स प्राप्नोति विधिचोदितः || १४-२४ || प्. १२४) सुखादिवासनास्तास्ताः संचिनोति शनैः शनैः | एषा निग्रहशक्तेस्तु तिरोधानपरंपरा || १४-२५ || तिरोधाने सहकारिकारणम् अंशौ यौ कालशक्त्याख्यौ भूतेः समनुवर्तिनौ | ताभ्यां पुंसस्तिरोभावं तनुते निग्रहात्मिका || १४-२६ || सृष्ट्यादीनां संचितकर्ममूलकत्वम् अजस्य त्वनया शक्त्या तिस्रः सृष्ट्यादिशक्तयः | संचितैः संप्रवर्तन्ते तैस्तैः कर्मभिरूर्जितैः || १४-२७ || सहेतुकस्य बन्धस्यानादित्वम् बन्धोऽनादिरयं प्रोक्तो बन्धहेतुश्च नादिमान् | बद्धजीवे भगवत्कृपाविर्भावः एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः || १४-२८ || जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते | कृपाया अनुग्रहशक्तिपातरूपत्वम् या ह्युक्ता पञ्चमी शक्तिर्विष्णुसंकल्परूपिणी || १४-२९ || अनुग्रहात्मिका शक्तिः सा कृपा वैष्णवी परा | शक्तिपातः स वै विष्णोरागमस्थैर्निगद्यते || १४-३० || प्. १२५) कृपाविषयस्य जीवस्य कर्मसाम्यप्राप्तिः अनुग्रहात्मना शक्त्या सुदर्शनमयात्मना | स्वीकृतो हि यदा विष्णोः करुणावर्षरूपया || १४-३१ || समीक्षितस्तदा सोऽयं करुणावर्षरूपया | कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षितः || १४-३२ || शक्तिपातः स वै जीवमुत्तारयति संसृतेः | कर्मणी च समे तत्र तूष्णीं भावमुपागते || १४-३३ || सदृष्टान्तं कर्मणामुदासितृत्वोपपादनम् यथा हि मोषकाः पान्थे परिबर्हमुपेयुषि | निवृत्तमोषणोद्योगाः समाः सन्तः उदासते || १४-३४ || अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तथा | उदासाते समीभूय कर्मणी ते शुभाशुभे || १४-३५ || मुमुक्षोर्मोक्षोपायप्राप्तिप्रकारः तत्पातानन्तरं जन्तुर्युक्तो मोक्षसमीक्षया | प्रवर्तमानवैराग्यो विवेकेऽभिनिवेशवान् || १४-३६ || आगमाननुसंचिन्त्य गुरूनप्युपसद्य च | लब्धसत्त्वप्रकारैस्तैः प्रबुद्धो बोधपालनः || १४-३७ || प्. १२६) अक्षिण्वन् गुरुसंबोधं क्षिण्वन् क्लेशादिकानपि | विचिन्वन् सर्वतः सारमुपचिन्वन् परां धियम् || १४-३८ || सांख्ययोगसमावेशी सत्कर्मनिरतः स्वयम् | उग्रव्रतधरो ज्ञानी वेदान्तज्ञाननिश्चलः || १४-३९ || संहतैर्विगृहीतैश्च मार्गैरेभिः सुनिश्चयैः | क्लेशेन महता स्थानं वैष्णवं प्रतिपद्यते || १४-४० || लब्धज्ञानस्य मोक्षप्राप्तिः संप्राप्य ज्ञानभूयस्त्वं निर्मलीकृतचेतनः | अनाविलमसंक्लेशं वैष्णवं तद्विशेत् पदम् || १४-४१ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जीवस्य संसारहेतुतदुद्धरणप्रकारवर्णनं नाम चतुर्दशोऽध्यायः || १४ || आदितः श्लोकाः ८२४ अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः ध्यातो धृतात्मभिश्चक्रमध्यस्थो मधुसूदनः | पायादपायात् संसाररूपकूपात्तु नः परः || अधिकारिविषयः प्रश्नः नारदः - देवदेव नमस्तेऽस्तु वृषकेतन शंकर | त्वत्प्रसादाच्छ्रुतं दिव्यं रहस्यं ज्ञानमुत्तमम् || १५-१ || प्रश्नशेषं मम ब्रूहि यत् पृष्टोऽसि मया पुरा | पुरुषार्था हि ये प्रोक्ताश्चत्वारः सकलाश्रयाः || १५-२ || के हि तानधिकुर्वन्ति तन्मे विस्तरतो वद | तत्प्रतिवचने प्रथमं सात्त्विकरीतिप्रतिपादनम् अहिर्बुध्न्यः - ये हि ते मनवो नाम विद्यागर्भाः पुरोदिताः || १५-३ || ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इति विभेदिताः | मानवास्तत्प्रसूता ये तथा मानवमानवाः || १५-४ || प्. १२८) मुखबाहूरूपादेभ्यो ब्राह्मणाद्याः समुत्थिताः | ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा इत्यपि ते स्मृताः || १५-५ || द्वितये ते यथायोगमधिकुर्वन्ति तानिमान् | मनुसन्ततिजानां पाञ्चरात्राधिकारः ये पुरा कथिताः पञ्च सिद्धान्ताः सर्वसंमताः || १५-६ || मनुसन्ततिजास्तत्र सात्त्वतं त्वधिकुर्वते | तेषां तन्निष्ठया भगवत्प्राप्तिः त्रयोदशविधं कर्म गुणैः सांयमिकैर्युतम् || १५-७ || कुर्वाणाः पञ्चकालस्थास्ते यान्ति पुरुषोत्तमम् | तेषु त्रैवर्णिकानां चातुराश्रम्यम् विहितं चातुराश्रम्यं त्रयाणां तत्र नारद || १५-८ || ब्रह्मचारी गृहस्थो वा वनस्थो भिक्षुरित्यपि | तेषां शुश्रूषया शूद्रस्य भगवत्प्राप्तिः शूद्रः शुश्रूषया तेषां भगवत्कर्मसाधनात् || १५-९ || अरागरोषलोभः सञ्छनैर्याति हरेः पदम् | अन्यतमाश्रमस्थानामपि तेषां मोक्षसिद्धिः सद्ब्रह्मयाजिनस्ते वै शुद्धाः स्वाध्यायतत्पराः || १५-१० || प्. १२९) अनन्ययाजिनो विप्रा आसृष्टेरधिकारिणः | मातापितृभ्यां तरुणाः प्राग्बुद्धेः साधु पालिताः || १५-११ || आचार्यनयसंपन्नास्ते शुश्रूषणतत्पराः | सम्यक् सप्तपदार्थज्ञा नियमस्थाः समाहिताः || १५-१२ || प्रकृतिज्ञानसंपन्नाः प्रमादपरिवर्जिताः | त्यक्तकामाः सुधृतयः शुचयः संयतेन्द्रियाः || १५-१३ || सिद्धा नाम महाभागाः समाप्तज्ञाननिश्चयाः | धिया समाप्तकर्माणश्चरणैरन्विताः शुभैः || १५-१४ || आसमाप्तेः समास्थाय चतुर्णामेकमाश्रमम् | पाञ्चकालिकमच्छिद्रं कुर्वाणाः शतवार्षिकम् || १५-१५ || विवेकजां परां प्राप्य कर्मणोऽन्ते शुभां धियम् | प्रद्योतमानविज्ञाना निर्धूतप्राकृतोद्यमाः || १५-१६ || सहस्रार्चिषमीशानं लक्ष्मीपतिमनाविलम् | क्षेत्रज्ञं सर्वभूतानां वासुदेवं विशन्ति ते || १५-१७ || गार्हस्थ्यस्याश्रमान्तरोपजीव्यत्वम् अग्निमान् बहुमात्रावानेकः कौटुम्ब आश्रमः | व्रतादिनिरताः शुद्धास्तत्रयोऽन्येऽनग्नयः स्मृताः || १५-१८ || कौटुम्बमुपजीवन्ति ते त्रयो ह्यूर्ध्वरेतसः | प्. १३०) सात्त्विकरीतिनिगमनम् गदिता सात्त्विकी रीतिरिति ते लेशतो मुने || १५-१९ || अथ त्रययादिरीतिकथनारम्भः एवं विस्तरतो मेऽद्य रीतिमन्यां निशामय | मुखबाहूरूपज्जानां त्रययाद्यधिकारः ये हि ब्रह्ममुखादिभ्यो वर्णाश्चत्वार उद्गताः || १५-२० || ते सम्यगधिकुर्वन्ति त्रययादीनां चतुष्टयम् | त्रयीनिष्ठानां फलसिद्धिः सांख्यादिनिष्ठानां क्रमात् पञ्चरात्रारोहणं च त्रयीस्था एव सिध्यन्ति सांख्यादिष्वपि च त्रिषु || १५-२१ || आरोहन्तीच्छया तेऽपि सात्त्वतं शासनं परम् | पाशुपतनिष्ठानां त्रयीधर्माननुष्ठातृत्वम् प्राप्ताः पाशुपतं ये हि धर्मं ब्रह्मणपूर्वकाः || १५-२२ || न धर्ममनुतिष्ठन्ति त्रयीस्थं ते पुनर्मुने | पञ्चरात्रं प्रविश्येव नान्यं धर्मं वितन्वते || १५-२३ || सांख्यानां नैष्कर्म्यम् निष्कर्माणः स्मृताः सांख्याः प्रसंख्यानैकतत्पराः | योगनिष्ठानां वैदिकर्मानुष्ठातृत्वम् नित्यनैमित्तिकैर्युक्तो योगी योगाङ्गवाञ्छया || १५-२४ || प्. १३१) कुर्यादलब्धलाभाय लब्धवृद्धय एव च | ब्रह्मिष्ठो वैदिकं कर्म नित्यं नैमित्तिकं तथा || १५-२५ || त्रययादिमार्गगा रीतिर्नारदैषा प्रदर्शिता | वर्णाश्रमतद्धर्माणां निरूपणम् वर्णाश्रमविभागं मे धर्मैः सह निशामय || १५-२६ || चत्वारो वर्णाः वर्णाश्चत्वार उद्दिष्टा ब्राह्मणादिक्रमेण ये | आद्यानां त्रयाणां वेदाध्ययनं द्विजातित्वं च अधीयीरंस्त्रयो वर्णाः पूर्वे भूत्वा द्विजातयः || १५-२७ || श्रूद्रस्य द्विजशुश्रूषा एकजातित्वं च चतुर्थ एकजातिस्ताञ्छुश्रूषेतानहं कृतः | याजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव ब्राहणो नाम यो वर्ण आद्यो ब्रह्ममुखोद्गतः || १५-२८ || स त्रीनध्यापयेदेतान् ब्राह्मणादीननुक्रमात् | याजयेच्च यथाकामं वृत्त्यर्थमनसूयया || १५-२९ || त्रिभ्यश्च प्रतिगृह्णीयादेष वैशेषिको विधिः | शस्त्रधारणादिकं क्षत्रियस्य शास्त्राणां धारणं नित्यं क्षत्रजातेर्विशेषणम् || १५-३० || प्. १३२) क्षतत्राणं यथाशास्त्रं प्रजानां परिपालनम् | कृष्यादिकं वैश्यस्य विशो वैशेषिकी वृत्तिः कृषिगोरक्षवाणिजम् || १५-३१ || इज्याध्ययनदानानि त्रयाणां तुलानि इज्याध्ययनदानं तु द्विजातीनामिदं समम् | नित्यं धर्मार्थमेवैतत् तत्र हिंसादिवर्जनम् || १५-३२ || शुश्रूषा शूद्रस्य धर्मो वृत्त्यर्था च शुश्रूषैव तु शूद्रस्य धर्मो वृत्त्यर्थमेव च | श्रेष्ठा ब्राह्मणशुश्रूषा कनिष्ठे त्वपरे स्मृते || १५-३३ || चतुर्णां सामान्यधर्माः अहिंसा सत्यमक्रोधः स्वदारनिरतिर्दया | चतुर्ष्वेतेषु धर्मोऽयं सामान्येन विधीयते || १५-३४ || ब्राह्मणोत्तमक्षत्रिययोश्चातुराश्रम्यम् ब्रह्मणश्चातुराश्रम्यं क्षत्रस्य तु कथंचन | क्षत्रियवैश्ययोराद्यमाश्रमत्रयम् त्रयं चाद्यं क्षत्रविशोर्नियतं धर्मलक्षणम् || १५-३५ || प्. १३३) त्रैवर्णिकानां प्रागुपनयनात् कामचारः आचार्यजन्मनः पूर्वमव्रतास्ते द्विजातयः | उपनयने द्वितीयं जन्म आचार्याज्जन्म सावित्र्यां द्वितीयं दिव्यमिष्यते || १५-३६ || यज्ञदीक्षायां तृतीयम् ते त्रयो यज्ञदीक्षायां जन्म प्राप्य तृतीयकम् | तेषा स्वाध्यायनिष्ठानां देवतुल्यत्वम् ब्राह्मणाः सवनस्थार्याः सवनान्ते यथाक्रमम् || १५-३७ || स्वाध्याये वर्तमानास्ते देवाः सर्वेऽपि ते त्रयः | आश्रमधर्माः इति ते कथिता वर्णा आश्रमानपि मे शृणु || १५-३८ || उपकुर्वाणब्रह्मचारिधर्माः आचार्याज्जन्म संप्राप्य तदन्ते नियतं वसन् | तद्धर्मकारी तन्निष्ठस्तद्भक्तस्तत्परायणः || १५-३९ || तन्निवेदितसर्वार्थो भिक्षार्थी तत्कुलाद्बहिः | कर्मशेषेण चाचार्यादिच्छन् स्वाध्यायमत्वरः || १५-४० || प्. १३४) उपासीत बहिः संध्ये नित्यस्नाययनसूयकः | कुर्वन्निन्द्रियसंरोधं भूतानामनुकम्पकः || १५-४१ || वह्निं समिद्भिरिन्धान उभे संध्ये समाहितः | धर्मज्ञसमयस्थं चाप्याचरन्नात्मनो व्रतम् || १५-४२ || उपकुर्वाणको नाम स्वाध्याये सिध्यति द्विजः | समाप्तब्रह्मचर्यस्येच्छया आश्रमान्तरप्राप्तिः वेदस्नायी व्रतस्नायी गुरवे दक्षिणां ददत् || १५-४३ || प्राप्यानुज्ञां गुरोरिच्छेच्चतुर्णामेकमाश्रमम् | नैष्ठिकब्रह्मचारिधर्माः यदीच्छेद् ब्रह्मचर्यं स ब्रह्मचारी स्वमाश्रमम् || १५-४४ || आचार्यमेव सेवेत युक्त आ देहपातनात् | जिज्ञासुर्ब्रह्मचारी स लभेत ज्ञानमुत्तमम् || १५-४५ || अन्यथा पुण्यलोपः स्यादिति वेदानुशासनम् | गृहस्थधर्माः अथ चेद्रोचयेत् कर्तुं गार्हस्थ्यं धर्ममुत्तमम् || १५-४६ || लब्धानुज्ञो गुरोः स्नात्वा संप्राप्य विधिवत् स्त्रियम् | तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः || १५-४७ || श्राद्धकृत् सत्यवादी च नित्यं चैवातिथिप्रियः | प्. १३५) संकोचिनीं चरन् वृत्तिमनसूयुरलोलुपः || १५-४८ || स्नातकव्रतशाली च पञ्चयज्ञपरायणः | गृहस्थस्यापि पाञ्चरात्रधर्मावश्यकता पञ्चकालरतो नित्यं दयाक्षान्तिधृतिस्थितिः || १५-४९ || अक्रोधसत्यह्रीविद्याशौचास्तेयदमस्थितः | अनायासो ह्यकृपणः शास्त्रीये मङ्गले रतः || १५-५० || मनसा कर्मणा वापि यज्ञान् सर्वान् समाचरेत् | निष्कामकर्मिणो गृहस्थस्यापि मोक्षप्राप्तिः अकामहतया बुद्ध्या त्यक्ताहंकारलोभया || १५-५१ || सत्तर्कव्यवसायाभ्यां लोचनाभ्येत्यसंभवम् | श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः || १५-५२ || ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम् | प्राप्तवेदान्तविज्ञानो वैष्णवं श्रयते पदम् || १५-५३ || सकामस्य गृहस्थस्य ब्रह्मलोकप्राप्तिः केवलो धर्मनित्योऽसौ ब्रह्मलोके महीयते | वानप्रस्थधर्माः गार्हस्थ्यादथवा पूर्वं वानप्रस्थ्यं श्रयेत् पदम् || १५-५४ || प्. १३६) गृहस्थस्तु यदा पश्येद् वलीपलितमात्मनः | अपत्यस्यैव चापत्यं वनं चाथ समाश्रयेत् || १५-५५ || ग्राम्याहारं परित्यज्य वन्याहारोपयोगवान् | बहिरात्मनि वाप्यग्निं जुह्वद्यज्ञपरायणः || १५-५६ || वत्सरे वत्सरे त्रीणि तपांसि विधिवच्चरेत् | वानप्रस्थस्यापि निष्कामकर्णिणो मोक्षप्राप्तिः कुर्वन् वनस्थः शास्त्रार्थानकामहतया धिया || १५-५७ || सेवमानो व्रतस्थश्च तास्ता दीक्षाः समाहितः | वृत्तिसंकोचकृच्छुभ्रस्तत्त्वजिज्ञासया युतः || १५-५८ || संप्राप्य तत्त्वविज्ञानं वैष्णवं श्रयते पदम् | सकामस्य तस्य ब्रह्मलोकप्राप्तिः केवलो धर्मनित्यश्च महाप्रस्थानमाचरन् || १५-५९ || वीतशोकभयो वन्यो ब्रह्मलोके महीयते | संन्यासिधर्माः काषायवसनं प्राप्य द्वाभ्यामादित एव वा || १५-६० || द्वयोरेकस्य वा पश्चात् पारिव्राज्यं समाचरेत् | प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् || १५-६१ || प्. १३७) लब्धानुज्ञो गुरोर्वाथ कर्मश्रान्तो महाव्रती | समारोप्याग्निमानग्नींश्चतुर्थाश्रममावसेत् || १५-६२ || विमुक्तः सर्वदोषेभ्यो विरक्तो विषयेषु च | उच्चावचां विचिन्वंश्च गतिमस्यान्तरात्मनः || १५-६३ || अन्वीक्षमाणः सूक्ष्मं च परमात्मानमात्मना | प्रसंख्यानपरो नित्यं वेदान्तज्ञानतत्परः || १५-६४ || समाधिस्थश्च सततमुग्रव्रतपरोऽपि वा | वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः || १५-६५ || विद्वेषमनुरागं वा द्वयोरप्यविचिन्तयन् | वायुभूतः खवत् स्वस्थ उर्वीस्थिरमना मुनिः || १५-६६ || वारिवच्चार्द्रचेतास्तु शुचिर्ज्वलनवत् सदा | गाङ्गो ह्रद इवाक्षोभ्यः शून्यागारसमाकृतिः || १५-६७ || धियालोचितसर्वार्थो धिया त्यक्तपरिग्रहः | धिया स्वीकृतसच्छास्त्रो धिया तृप्तः सुशुद्धया || १५-६८ || दत्तसर्वाभयो योगी सर्वैर्दत्ताभयस्तथा | स्वाध्यायाद्योगमासीनो योगात् स्वाध्यायमामनेत् || १५-६९ || अब्रुवन् केनचित् किंचित् प्राप्ते कालेऽप्यविब्रुवन् | समः सर्वेषु भूतेषु मातृवत् पितृवत् सदा || १५-७० || आत्मज्योतिरात्मरतिः प्रसीदन्नात्मनि स्वयम् | प्. १३८) प्रज्ञाप्रासादमारूढो विमुक्तः सर्वतो जनैः || १५-७१ || भूमिष्ठानिव शैलस्थः पश्यन् सर्वानवस्थितान् | कैश्चिन्मूक इति प्रोक्तः कैश्चिद्धीर इतीप्सितः || १५-७२ || कैश्चित् कः स्विदिति प्रोक्तः कैश्चिद् घोर इतीरितः | उपेक्षाकरुणामैत्रीमुदितालिङ्गितः सदा || १५-७३ || विवेकबोधसंतोषैर्नित्यं परिजनैर्वृतः | भैक्षाशी तुष्टिसंपूर्णो धर्मैरीदृग्गुणैर्युतः || १५-७४ || संन्यासिनः परमपुरुषोपासनान्मोक्षप्राप्तिः प्रदीप इव शान्तार्चिः परिव्राड् ध्यानमास्थितः | देहसंस्कारनाशेन वैष्णवं श्रयते पदम् || १५-७५ || अध्यायार्थनिगमनम् इति वर्णाश्रमा ये ते तुल्यवैशेषिकैर्युताः | धर्मास्ते लेशतः प्रोक्ताः किं भूयः श्रोतुमिच्छसि || १५-७६ || इति पाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अधिकारिनिरूपणं नाम पञ्चदशोऽध्यायः || १५ || आदितः ९०० वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायः रक्षातदधिकारिविषयः प्रश्नः नारदः - भगवंस्त्रिदशारिघ्न सर्वज्ञ वृषकेतन | प्रमाणार्थः श्रुतोऽस्माभिः सहेतुः सविपर्ययः || १६-१ || सर्वस्यास्य च का रक्षा कश्च रक्षाधिकारवान् | सप्रकारमिदं द्वन्द्वं भगवन् वक्तुमर्हसि || १६-२ || तत्प्रतिवचनारम्भः अहिर्बुध्न्यः - सुदर्शनमयी रक्षा देवस्य हरिमेधसः | स्वमृते विष्णुसंकल्पं रक्षान्या न विधीयते || १६-३ || वस्तुनिष्ठसामर्थ्यस्य सुदर्शनात्मकत्वम् या सा दिव्या क्रियाशक्तिर्विष्णुशक्त्यंशसंभवा | सुदर्शनाह्वया देवी सर्वकृत्यकरी विभोः || १६-४ || तन्मयं विद्धि सामर्थ्यं सर्वं सर्वपदार्थजम् | तत्त्वानां तात्त्विकानां च चेतनाचेतनात्मनाम् || १६-५ || प्. १४०) प्रमाणानां विचित्राणां भावाभावयुगस्य च | धर्मस्यार्थस्य कामस्य मुक्तेर्बन्धत्रयस्य || १६-६ || यद्यत् स्वकार्यसामर्थ्यं तत्तत् सौदर्शनं वपुः | शास्त्रास्त्रव्यूहस्य रक्षासाधनत्वम् उक्ता शास्त्रास्त्ररूपा ते विष्णुसंकल्पविक्रिया || १६-७ || यया देवो जगन्नाथः काले काले जनार्दनः | अवतीर्याथवाविश्य भूतानि लघयेद्भुवम् || १६-८ || मन्त्रग्राम्स्यापि रक्षासाधनत्वम् नानामन्त्रमयी चान्या यन्त्रकोशविचित्रिता | वेदतन्त्रोभयोद्भूता नानाप्रसवशालिनी || १६-९ || साक्षाद्विष्णोः क्रियाशक्तिः शुद्धसंविन्मयी परा | मन्त्रमयरक्षायां ब्राह्मणस्यैवाधिकारः सर्वतत्त्वार्थपारज्ञः सर्वविद्याविशारदः || १६-१० || अस्कन्ननित्यनैमित्तः शुद्धाभिजनसंअतः | त्रिशुक्लो निस्त्रिसंदेहः षट्कर्मविधिपारगः || १६-११ || ब्राह्मणो ब्रह्मयोनिस्थः स्वदारनिरतः शुचिः | अधिकुर्यात् क्रियाशक्तिं विष्णोर्मन्त्रमयीं पराम् || १६-१२ || प्. १४१) ब्राह्मणस्यापि राजानवष्टब्धस्य रक्षायामसामर्थ्यम् ब्राह्मणो नानवष्टब्धस्तया कार्यमिहार्हति | अवष्टम्ब्य तु राजानं जगतोऽर्थे तया चरेत् || १६-१३ || राजप्रशंसा राजा हि परमं भूतं सर्वदेवमयो विभुः | क्रियाशक्तेरधिष्ठानं वैष्णव्या भगवन्मयः || १६-१४ || मूर्धतो हि पुरा देवो राजानमसृजत् प्रभुः | मूर्धाभिषिक्तस्तेनासौ सर्वभूतोपरि स्थितः || १६-१५ || द्विगुणो ब्राह्मणो राजा वेदशास्त्रेषु गीयते | राजद्विषां दृष्टादृष्टयोः प्रत्यवायः यस्तु तं द्वेष्टि संमोहात् स हरिं द्वेष्टि दुर्मतिः || १६-१६ || यो हरिं द्वेष्टि संमोहात् स लक्ष्मीं द्वेष्टि मानवः | लक्ष्म्या द्वेष्टा तु दुर्मेधाः सर्वधर्मेषु हीयते || १६-१७ || स भ्रष्टः सर्वलोकेभ्यः सर्वदेवबहिष्कृतः | अप्रतिष्ठे तमस्यन्धे समास्तिष्ठति शाश्वतीः || १६-१८ || अतो राजा अवश्यं बहु मन्तव्यः ऐहिकामुष्मिकीं लक्ष्मीमतः प्रेप्सुरुदारधीः | राजानं बहु मन्येत सर्वलोकाधिदैवतम् || १६-१९ || प्. १४२) केवलयोर्ब्राह्मणनृपयोर्लक्ष्म्या अस्थिरत्वम् ब्राह्मणे केवले लक्ष्मीर्न वसत्यतिमार्दवात् | अत्यौग्र्याद् बिभ्यती क्षत्रे केवले नेच्छति स्थितिम् || १६-२० || संसृष्टयोस्तयोर्लक्ष्म्याः स्थैर्यम् ब्रह्मक्षत्रे तु संपृक्ते ह्यग्नीषोममयात्मनि | निवसत्यतिसंप्रीता ग्रीष्मे शीत इव ह्रदे || १६-२१ || तत्र हेतुः द्वे हि ते बिभृतो लोकस्थितिं संभूय तेजसी | तयोर्हि सकला शक्तिः स्थिता विष्णोः क्रियात्मिका || १६-२२ || अन्वयव्यतिरेकाभ्यां तत्र दृष्टान्तकथनम् महत्या हि यथा नद्याः कुसरो न धृतेः क्षमम् | एवं लघुर्नरो नैव क्रियाशक्तेर्धृतौ क्षमः || १६-२३ || पारावारो यथा धीरो महतीं तां प्रतीच्छति | ब्रह्मपृक्तं तथा क्षत्रं क्रियाशक्तिं प्रतीच्छति || १६-२४ || पूर्यमाणं महानद्या कुतटाकं विदीर्यते | रक्ष्यमाणस्तथाप्येको नैव पर्याप्यते तया || १६-२५ || राजार्थं प्रयुक्ताया अपि क्रियाशक्तेः सर्वप्रजोपकारकत्वकथनम् यथा समुद्रगामिन्यां महत्यां सरिति ध्रुवम् | प्. १४३) उपस्नेहेन पूर्यन्ते सरांस्यन्यानि भूयसा || १६-२६ || प्रयुक्तायां क्रियाशक्तौ चक्रे वै चक्रवर्तिनः | चक्रस्था हि प्रजाः सर्वाः समेधन्ते तथा श्रिया || १६-२७ || चक्रवर्त्यादीनां क्रियाशक्तावधिकारतारतम्यम् चक्रवर्ती नृपः पूर्वां द्वितीयां मण्डलेश्वरः | अधिकुर्यात् क्रियाशक्तिं तृतीयां विषयेश्वरः || १६-२८ || महामात्रो द्विजातिर्वा यो वह्वी रक्षति प्रजाः | इमां नैको नरः कुर्यादेकस्मै मानवाय तु || १६-२९ || क्रियाशक्तिस्वरूपकथनारम्भः अधिकारः क्रियायाश्च शक्तेस्ते संप्रदर्शितः | रूपमस्या यथावन्मे गदतस्तन्निशामय || १६-३० || सामान्यतः शक्तेर्द्वैविध्यम् उन्मेषः परमः शक्तेर्विष्णोः कोट्यंशकोटितः | भाव्यभावकभेदेन स द्विधा व्यवतिष्ठते || १६-३१ || भावको विष्णुसंकल्पः सुदर्शनपराह्वयः | शक्तेः पर्यायशब्दाः सैषा देवी क्रियाशक्तिः सामर्थ्यं योग इत्यपि || १६-३२ || प्. १४४) पारमेष्ठ्यं महातेजो मायायोग इतीदृशैः | शब्दैः प्रकारसामर्थ्यः संकल्पः सोऽभिधीयते || १६-३३ || भावकस्य भूत्यंशप्रवर्तकत्वम् भाव्यो नाम य उन्मेषः सा भूतिरिति गीयते | शुद्ध्यशुद्धिमयी सेति पूर्वमेव निदर्शितम् || १६-३४ || ज्वलनस्येव सा ज्वाला संकल्पेन प्रतन्यते | एको नारायणो देवस्तस्य भावानुगामिनी || १६-३५ || तस्या देव्याः क्रियाशक्तेः स्थितिं मन्त्रमयीं शृणु | क्रियाशक्तेर्नादात्मकत्वम् उद्यती सा क्रियाशक्तिर्भजते नादरूपताम् || १६-३६ || नादस्य दीर्घघण्टाध्वनिसाम्यम् तं नादं परमं विद्धि दीर्घघण्टानदोपमम् | तस्य योगिमात्रप्रत्यक्षविषयत्वम् परमैर्योगिभिः स्वान्ते स साक्षात् क्रियते स्वयम् || १६-३७ || क्वचिदुन्मेषात् तस्य बिन्दुरूपत्वम् स बुद्बुदवदम्भोधौ क्वचिदुन्मेषमृच्छति | अनुद्रुतगतैः सोऽथ योगिभिर्बिन्दुरुच्यते || १६-३८ || प्. १४५) बिन्दोर्नामनामिरूपेण द्वैविध्यम् नामनामिस्वरूपेण स बिन्दुर्भिद्यते द्विधा | नाम्नः शब्दब्रह्मत्वम् तत्र नामोदयं प्राप्य शब्दब्रह्म प्रवर्तते || १६-३९ || नामिनो भूतिरूपत्वम् प्राप्य नाम्युदयं भूतिः पूर्वोद्दिष्टा प्रवर्तते | वर्णोत्पत्तिकथनारम्भः नामोदयमिदानीं मे मन्त्राध्वानं मुने शृणु || १६-४० || सा हि बिन्दुमयी शक्तिः स्वेच्छया नामतां गता | अवर्णोऽप्येकधा पूर्वमनुत्तरमयात्मना || १६-४१ || बिन्दोर्द्वैविध्यम् स्वरव्यञ्जनभेदेन स द्विधा व्यवतिष्ठते | बिन्दुशक्तेरमुष्यास्तु भूयोऽपि शृणु विस्तरम् || १६-४२ || उदेत्येषा विसृष्टाख्या शब्दसर्गमयी परा | एकानेकविचित्रार्था नानावर्णविकारिणी || १६-४३ || साक्षात् सोमस्वरूपा सा लक्ष्म्याः शब्दमयी तनुः | स्वरव्यञ्जनरूपेण सा विवर्तं प्रपद्यते || १६-४४ || प्. १४६) अकारात्मना तस्य स्मुन्मेषः अ इत्यादिसमुन्मेषः सोऽनुत्तर उदीर्यते | अकारस्य सर्ववाग्रूपत्वम् सर्वा वागयमेवैकस्तत्तदाकारभेदवान् || १६-४५ || बिन्दोरिकारोकारात्मना समुन्मेषः स इच्छन्निरिति व्यक्त उन्मिषन्नुरिति स्मृतः | यथोक्तवर्णत्रयस्य सर्वस्वरविभावकत्वम् एत एव त्रयो वर्णाः सर्वस्वरविभावनाः || १६-४६ || तेषां दीर्घतापत्तिः अनुत्तरः स आनन्द आभावं प्रतिपद्यते | इरिच्छया स ईशान ईभावं प्रतिपद्यते || १६-४७ || उरुन्मिषन्नूनरूप ऊभावं प्रतिपद्यते | एचामुत्पत्तिः अनुत्तरेच्छासंधानादेकारो नाम जायते || १६-४८ || अनुत्तराद्भवन् भूय ऐभावं प्रतिपद्यते | दिव्यादनुत्तरोन्मेषादोकारो नाम जायते || १६-४९ || अनुत्तराद्भवन् भूय औभावं प्रतिपद्यते | प्. १४७) तेषां संध्यक्षरत्वम् संध्यात्मान इमे कूटाश्चत्वारः समुदाहृताः || १६-५० || तेषामवयवार्थाविष्करणम् अनुत्तरेच्छायोगेन ह्येधमानः स ए स्मृतः | भूयोऽनुत्तरसंयोगादै चाप्यैश्वर्यवान् स्मृतः || १६-५१ || दिव्यादनुत्तरोन्मेषादोतः सर्वत्र ओ स्मृतः | अनुत्तरात् स संभूय और्जित्यादौगतिं गतः || १६-५२ || ऋऌवर्णोत्पत्तिः एकत्रिभागयो ऋद्ध्या अरयो ऋ स्मृतो बुधैः | अलयोश्च तथा ऌत्वमाकारः स्यादनुत्तरः || १६-५३ || भूयोऽप्यनुत्तरोद्योगात् प्लवमानस्तथा स्मृतः | एवं चतुर्दशोद्योगान्नानाकारविभाविनी || १६-५४ || नटीव कुण्डलीशक्तिराद्या विष्णोर्विजृम्भते | अस्य रूपद्वयं सूक्ष्मं सृष्टिसंहारकारणम् || १६-५५ || अनाख्येया महासत्ता क्रियाशक्तिः क्रमेण सा | शब्दात्मना विवर्त्स्यन्ती सा पुरा याति सृष्टिताम् || १६-५६ || प्. १४८) सृष्टिः सर्गो विसर्गश्च विसर्जनमितीदृशैः | नाभौ कुण्डल्याः पश्यन्तीत्वम् मूलाधारात् समुद्यन्ती सा शान्ता सा निरञ्जना || १६-५७ || अङ्क्ष्यन्ती साञ्जनैस्तैस्तैः संस्कारैः समनुत्तरम् | दृष्टिदृश्यात्मतां प्राप्य शब्दार्थत्वविवर्तिनी || १६-५८ || पश्यन्ती नाम नाभौ सा योगदृश्योदयं गता | शक्तिः सा वैष्णवी सत्ता मन्त्रमाता समञ्जना || १६-५९ || अधिकारक्षयं यान्ति योगिनस्तां गता धिया | तस्या हृदब्जे विस्तारः विजृम्भणोन्मुखी लक्ष्मीः पश्यन्ती सा क्रियामयी || १६-६० || भावं संस्कृत्य संस्कारैः समर्थाख्यां विवर्तनाम् | भृङ्गीव निनदन्ती सा हृदब्जे याति विस्तृतिम् || १६-६१ || वाच्यवाचकभावेन लोलीभूता क्रियामयी | तदा संस्कृतयः सर्वाः स्मृतीः पुष्यन्ति वाच्यगाः || १६-६२ || तस्याः कण्ठदेशे विसर्गात्मना परिणामः एवंविधा क्रियाशक्तिस्तत्तद्वाच्यविवक्षया | शब्दरूपं समास्थाय कूटस्थं व्यक्तिवर्जितम् || १६-६३ || प्. १४९) सा यात्यनुत्तरस्पृष्टा कण्ठं शक्तिर्विसर्गिणी | पुनः सानुत्तरे स्थित्वा चतुर्दशविभाविनी || १६-६४ || अनुत्तरोत्तरा याति कण्ठे हेति विजृम्भणम् | ततः सादिमयी भूत्वा कान्तव्यञ्जनशालिनी || १६-६५ || अनुत्तरमयी भूयो बिन्दौ संप्रतितिष्ठति | बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते || १६-६६ || इमौ द्वौ सृष्टिसंहारौ लेशतस्ते निदर्शितौ | मत्तः शृणु मुने भूयः स्वराणां विविधां ततिम् || १६-६७ || स्वराणामवान्तरभेदनिरूपणम् यदादित्रितयं पूर्वं स्वरकूटस्थमीरितम् | अष्टादशविधं तत्तु प्रत्येकं योगिनां मतम् || १६-६८ || स्वरव्यञ्जनकूटौ यौ ऋ ऌ इत्युदितौ पुरा | आद्योऽष्टादशधान्त्यस्तु तयोर्द्वादशभेदवान् || १६-६९ || इति स्वराणां पञ्चानामशीतिश्चतुरुत्तरा | स्वरकूटास्तु चत्वारो ये तेषामीदृशी भिदा || १६-७० || शतानि त्रिण्यथैकारा विंशतिश्चतुरुत्तरा | एवं पञ्च सहस्राणि शतान्यष्टावनुष्टुभाम् || १६-७१ || प्. १५०) ऐकारः कथितः सम्यक् शिक्षातत्त्वविशारदैः | ओकारश्च तथौकार इयद्भेदौ प्रकीर्तितौ || १६-७२ || रम्यौ गौरौ यमित्येव संख्या संभूय संधिगा | योगिनस्तां प्रपश्यन्ति मन्यन्ते मनसा नराः || १६-७३ || संभूय स्वरसंख्या तु स्तब्धौ गौरो यमित्यसौ | द्विस्तावन्तः स्वरा ज्ञेयाः सृष्टिसंहारभेदिताः || १६-७४ || सर्गयुक्ता बिन्दुयुक्ताः केवला इति ये त्रिधा | देहोऽर्थः सङ्ग इत्येव ते संभूय चतुर्दश || १६-७५ || सृष्टिः सोमः समाख्याता बिन्दुः सूर्य उदीर्यते | स्वराणां सूर्यचन्द्रकिरणात्मता पूर्वे सप्त स्वराः सूर्यकिरणाः परिकीर्तिताः || १६-७६ || सोमस्य किरणा ज्ञेया आकारादय उत्तरे | तयोरहोरात्रप्रवर्तकत्वम् अहर्नयति सूर्यस्तु स्वरैः पिङ्गलया चरन् || १६-७७ || रात्रिं सृजति सोमस्तु स्वरैः स्वैरिडया चरन् | परशक्तेः सुषुम्नासंचारित्वम् स्वराणां या परा विष्णोः कूटस्था शक्तिरुज्ज्वला || १६-७८ || प्. १५१) सुषुम्नया संचरते शब्दब्रह्म वितन्वती | इति ते लेशतः प्रोक्ता स्वराणां गतिरुत्तमा || १६-७९ || व्यञ्जनसृष्टिकथनारम्भः अथ व्यञ्जनसृष्टिं ते कथयामि मुने शृणु | विसर्गस्य वासुदेवमूर्तित्वम् अनुत्तरोत्तरा सृष्टिर्या सा हेति पुरोदिता || १६-८० || आदिव्यूहस्य देवस्य वासुदेवस्य सा तनुः | अच्युतो बिन्दुयुक्तोऽसौ रुन्धन्नाधारमादिमम् || १६-८१ || साग्निं दीपयते नादं योगारम्भे तु योगिनाम् | अच्युतः सृष्टियुक्तोऽसावूर्ध्वसृष्टिं करोति च || १६-८२ || अच्युतः सृष्टियुक्तस्तु बहिःसृष्टिं करोत्ययम् | तस्मादूष्मणामुत्पत्तिस्तेषां चातुरात्म्यं च हात् सात् षात् शात्ततः शश्वच्छक्त्यूष्माण उदीरिताः || १६-८३ || चातुरात्म्यमिदं प्रोक्तं चतुर्ब्रह्मेति शब्दितम् | क्षकारसहितानां तेषां ब्रह्मशब्दवाच्यत्वम् क्षेण कूटेन संयोगात् पञ्चब्रह्मेति शब्दितम् || १६-८४ || क्षस्तु सत्यस्य बीजं तु प्रोक्तः सात्त्वतशासने | प्. १५२) कषकूटमुशन्त्यन्ये नित्यं तत्प्रतिरूपकम् || १६-८५ || अन्तःस्थानामुत्पत्तिस्तेषां संज्ञात्रयं च शाद्वस्तस्माल्ल उद्दिष्टो लाद्रो राद्यः प्रजायते | धारणा नाम विज्ञेया याद्या विश्वस्य धारणात् || १६-८६ || अन्तःस्था इति च प्रोक्ता अन्तःस्थपुरुषेशयाः | अवस्था इति च प्रोक्ता ईशावतरणक्रमे || १६-८७ || मकारोत्पत्तिः यकारादीशशक्तिस्थान्मकारो नाम जायते | अनुत्तरोत्तरो बिन्दुर्म इति प्रतिशब्द्यते || १६-८८ || तस्य सर्वचेतनसमष्टिरूपत्वं जीववाचित्वं च चेतनानां तु सर्वेषां समष्टिः सा निगद्यते | अस्मदर्थोऽयमुद्दिष्ट सोऽयमुत्तमपूरुषः || १६-८९ || भकारोत्पत्तिस्तस्य च प्रकृतिवाचित्वम् सूक्ष्मेक्षयानुवृद्धौ सा प्रकृत्या भोग्यरूपया | भ इत्येव मकारात् सा पुनः स्थूला विविच्यते || १६-९० || प्. १५३) बादिटान्तत्रयोदशवर्णोत्पत्तिः भोगोपकरणाकारा बहिरन्तर्व्यवस्थया | त्रयोदशात्मना व्यक्ता बाद्या टान्ता महामुने || १६-९१ || बादित्रयस्य महदहंकारमनोवाचित्वम् तवर्गस्य ज्ञानेन्द्रियवाचित्वम् बुद्धिश्चाहंकृतिश्चैव मनश्चेति मनीषिभिः | वादित्रितयमुद्दिष्टं नादि तान्तं तु धीन्द्रियम् || १६-९२ || टवर्गस्य कर्मेन्द्रियवाचकत्वम् णादि टान्तं तु कर्माख्यमथ भोग्योद्भवो द्विधा | चवर्गोत्पत्तिः तस्य तन्मात्रवाचित्वम् ञादि चान्तं तु तन्मात्रपञ्चकं प्रविजृम्भते || १६-९३ || कवर्गोत्पत्तिः तस्य महाभूतवाचित्वम् ङादिः पञ्चमहाभूता कान्तान्या वर्णसंततिः | यस्माद्यस्योद्भवो वर्णात् तत्त्वसृष्ट्यां तु तत् स्मरेत् || १६-९४ || लकारोत्पत्तिः लस्यैव करणान्यत्वे लकारो नाम जायते | व्यञ्जनानां वैविध्यम् चतुस्त्रिंशदिति प्रोक्ता वर्णास्ते व्यञ्जनात्मकाः || १६-९५ || प्. १५४) एवमेकैकशो योगाद्भेदाः स्युर्बहवः स्वरैः | चतुःपञ्चाशदुद्दिष्टाः ककारास्तत्र वै मुने || १६-९६ || किकाराश्च कुकाराश्च कृकाराश्च तथाविधाः | कॢकारास्तत्र षट्त्रिंशत् केकारा रसधीर्मुने || १६-९७ || तथाविधाश्च कोकारा योगिभिः संख्यया स्मृताः | स्तब्धस्वार्थोऽयमित्येवं कैकारो योगिभिः स्मृतः || १६-९८ || कौकाराश्च तथासंख्याः सप्त संहत्य ते पुनः | देहोऽर्थः सङ्ग इत्येवं संख्याताः परमर्षिभिः || १६-९९ || वेगव्यञ्जनसंख्यैव देहोऽर्थः साङ्गभेदिताः | नीतिमत्प्रतिभा हेति संख्यया जायते मुने || १६-१०० || स्वरव्यञ्जनसंयोगादियं संख्या समीरिता | एकद्वित्र्यादिसंयोगैर्व्यञ्जनानां क्रमात् क्रमात् || १६-१०१ || केवलानां सस्वराणां ततः संख्याविधिः स्मृतः | वर्णमातृकाया भगवच्छक्तिप्रोतत्वम् पदवाक्यप्रमाणादिनानाकोरकशालिनी || १६-१०२ || वर्णस्तम्बा ज्ञानमूला शब्दशक्तिर्हि वैष्णवी | विष्णुना देवदेवेन तेन शक्तिमता स्वयम् || १६-१०३ || स्थूलसूक्ष्मपरत्वेन प्रोतेयं वर्णसंततिः | प्. १५५) भगवदाज्ञया रुद्रांशस्यापि वर्णमातृकाधिष्ठातृत्वम् तदाज्ञयास्मदंशैश्च रुद्रैर्नानाविधैरियम् | मन्त्रयोनिरियं देवी मातृकाधिष्ठिता सदा || १६-१०४ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वर्णोत्पत्तिनिरूपणं नाम षोडशोऽध्यायः || १६ || आदितः श्लोकाः १००४ वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः ध्यायिनां सुखदं नित्यं ज्वालाजटिलकुन्तलम् | सुदर्शनाख्यं तद्दिव्यं महः किमपि धीमहि || वर्णमातृकाधिष्ठातृरूपप्रश्नः नारदः - नमस्ते शर्व सर्वज्ञ सर्वासुरनिबर्हण | स्थूलसूक्ष्मपरैर्भावैर्यथा वर्णा अधिष्ठिताः || १७-१ || विष्णुना देवदेवेन रुद्रैश्च भवदंशकैः | तथा तं मे परं भावं वक्तुमर्हसि शंकर || १७-२ || तत्प्रतिवचनप्रतिज्ञा अहिर्बुध्न्यः - विष्णुशक्तिमया वर्णा विष्णुसंकल्पजृम्भिताः | अधिष्ठिता यथा भावैस्तथा तन्मे निशामय || १७-३ || वर्णाधिष्ठातृवैष्णवरूपाणि प्रथमश्चाप्रमेयश्च व्यापकोऽकार उच्यते | आनन्द आदिदेवश्च गोपनश्चाः स्मृतो बुधैः || १७-४ || प्. १५७) इष्ट इद्धश्च रामश्च इकारः परिपठ्यते | विष्णुश्च पञ्चबिन्दुश्च माया ईकार उच्यते || १७-५ || उकार उदयश्चापि ह्युद्दामो भुवनाह्वयः | प्रज्ञाधारश्च लोकेश ऊर्ज ऊकार उच्यते || १७-६ || ऋकार ऋतधामा च सत्यश्चाङ्कुश एव च | ज्वाला प्रसरणश्चैव ऋकारो विष्टराह्वयः || १७-७ || ऌकारस्तारकः प्रोक्तो लिङ्गात्मा भगवानिति | ॡकारो दीर्घघोणश्च देवदत्तस्तथा विराट् || १७-८ || एकारस्तु जगद्योनिस्त्र्यश्रो विग्रह एव च | ऐकारश्च तथैश्वर्यं योगी ह्यैरावणस्तथा || १७-९ || ओदनश्चौतदेवश्च विक्रम्योकार उच्यते | और्वो भूधरसंज्ञश्चाप्यौः स्मृतो ह्यौषधात्मकः || १७-१० || त्रैलोक्यैश्वर्यदो व्यापी व्योमेशौंकार एव च | अंकारः सृष्टिकृत् प्रोक्तो विसर्गः परमेश्वरः || १७-११ || ककारः कमलश्चैव करालः प्रकृतिः परा | खकारः खर्वदेहश्च वेदात्मा विश्वभावनः || १७-१२ || गकारस्तु गदध्वंसी गोविन्दश्च गदाधरः | प्. १५८) घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा || १७-१३ || ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः | चद्रांशुश्चञ्चलश्चक्री चकारः परिकीर्त्यते || १७-१४ || छन्दःपतिश्छलध्वंसी छकार छन्द एव च | अजितो जन्महन्ता च जकारः शाश्वतः स्मृतः || १७-१५ || झकारो झषसंज्ञस्तु सामगः सामपाठकः | ञकार उत्तमाख्यश्च ईश्वरस्तत्त्वधारकः || १७-१६ || विश्वाप्यायकरश्चन्द्री ट आह्लाद उदीरितः | धाराधरो नेमिसंज्ञष्ठकारः कौस्तुभो मतः || १७-१७ || मौसलो दण्डधारश्च डकारोऽखण्डविक्रमः | ढकारो विश्वरूपश्च दृढकर्मा प्रतर्दनः || १७-१८ || णकारोऽभयदः शास्ता वैकुण्ठः परिकीर्तितः | तकारस्ताललक्ष्मा च वैराजः स्रग्धरस्तथा || १७-१९ || धन्वी भुवनपालश्च थकारः सर्वधारकः | दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः || १७-२० || धकारः शार्ङ्गधृग्धामा माधवश्च प्रकीर्तितः | नरो नारायणः पन्था नकारः समुदाहृतः || १७-२१ || पकारः पद्मनाभश्च पवित्रः पश्चिमाननः | प्. १५९) फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः || १७-२२ || बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते | भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः || १७-२३ || मकारो मर्दनः कालः प्रधानः परिपठ्यते | चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते || १७-२४ || अशेषभुवनाधारो रोऽनलः कालपावकः | लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः || १७-२५ || वराहश्चामृताधारो वकारो वरुणः स्मृतः | शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः || १७-२६ || नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा | सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः || १७-२७ || सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः | अनन्तेशः क्षकारस्तु वर्गान्तो गरुडः स्मृतः || १७-२८ || बिन्दुः संहार इत्युक्तो विसर्गः सृष्टिरुच्यते | विष्णुशक्तिमया एते स्थूलसूक्ष्मपरात्मकाः || १७-२९ || अप्रमेयादयो भावाः शतं सार्धमुदीरिताः | वर्णाधिष्ठातृरौद्ररूपाणि वर्णास्तेऽधिष्ठिता यैस्तैर्मदंशै रुद्रसंज्ञितैः || १७-३० || प्. १६०) तान्निबोध महाभागानक्षरस्थान् महामुने | श्रीकण्ठानन्दसूक्ष्मेशास्त्रिमूर्तिरमेश्वरः || १७-३१ || अङ्घ्रीऽसो भारभूतिश्च तिथिः स्थाणुर्भवाह्वयः | चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः || १७-३२ || अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः | ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः || १७-३३ || तथैकरुद्रः कूर्मैकनेत्राह्वचतुराननाः | अजेशः सर्वसोमेशौ लाङ्गली दारिकस्तथा || १७-३४ || अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ | अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा || १७-३५ || चलगण्डद्विगण्डौ च समहाकालवालिनौ | भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा || १७-३६ || श्वेतो भृगुर्वकुलीशः संवर्तक इतीरितः | रुद्रमूर्तय उद्दिष्टा मदीया वर्णपालिकाः || १७-३७ || वर्णचक्रपद्मनिरूपणम् तथा वर्णमयं चक्रं पद्मं चापि निबोध मे | प्रणवोऽक्षः समुद्दिष्टः शक्तिर्नाभिरुदीरिता || १७-३८ || प्. १६१) अकचाष्टतपाश्चैव सवर्ग्या अरपद्धतिः | यादयो नेमिरुद्दिष्टा गरुडः प्रधिरुच्यते || १७-३९ || प्रणवः कर्णिका प्रोक्ता शक्तिः केसरपद्धतिः | स्वरद्विरष्टकं वर्गा अन्तःस्था ऊष्मभिः सह || १७-४० || पत्राष्टकमिदं प्रोक्तं गरुडो दीप्तिरुच्यते | इति चक्राब्जमध्यस्था मातृकावर्णमालिनी || १७-४१ || मन्त्रयोनिर्महादेवी वैष्णवी षड्गुणात्मिका | वर्णमातृकात्मकवैष्णवशक्तिस्वरूपवर्णनम् आदिवर्णप्रकॢप्ताङ्गा वर्गाभरणभूषिता || १७-४२ || पद्मगर्भप्रतीकाशा शङ्खपङ्कजधारिणी | प्रणवेनाथ शक्त्या च श्रिया संकॢप्तदेहिका || १७-४३ || स्वरसंपूर्णवदना कचकॢप्तकरद्वया | टतकॢप्तपदद्वन्द्वा पादिकॢप्तोदरा शुभा || १७-४४ || यरप्राणोष्मका देवी लकारवरहारिणी | वकारकाञ्चीसुभगा शषकुण्डलधारिणी || १७-४५ || सहृत्का हान्तरात्मा च क्षप्रभा वर्णमालिनी | पाशाङ्कुशकराग्रा च वाणी ध्येया विपश्चिता || १७-४६ || प्रथमं वैष्णवशक्त्याराधनम् वक्ष्यमाणेन मन्त्रेण पुरैवाराधयेद्गिरम् | ततो मन्त्रोद्धारः प्. १६२) लब्धानुज्ञस्ततो देव्या गुरुपङ्क्तिं समर्च्य च || १७-४७ || गणेशमभिपूज्याथ मन्त्रानिष्टान् समुद्धरेत् | वैष्णवरूपैरेव वैष्णवमन्त्रोद्धरणम् अप्रमेयादिभिर्भावैर्वैष्णवानुद्धरेत् सुधीः || १७-४८ || रौद्रमन्त्राणा रौद्ररूपैरुद्धरणम् शक्तिमन्त्राणां शक्तिरूपैः रौद्रान् रुद्रैस्ततः शाक्तान् भारत्यंशैः समुद्धरेत् | यद्यपि व्यापका मन्त्रा नित्यं सिद्धा महामुने || १७-४९ || स्युः शक्तिशालिनो मन्त्रा एवं सृष्टिविचिन्तनात् | उक्तक्रमोल्लङ्घने प्रत्यवायः उज्झित्वोक्तक्रमं यो हि मन्दात्मा मन्त्रमुद्धरेत् || १७-५० || भवन्ति शापदा मन्त्रास्तस्य शास्त्रातिवर्तिनः | अनुल्लङ्घनेऽभ्युदयः अनुज्झित्वा क्रमं सर्वं यः सुधीर्मन्त्रमुद्धरेत् | तस्याध्ययनमात्रेण मन्त्रः सिद्धिं प्रयच्छति || १७-५१ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वर्णसंज्ञानिरूपणं नाम सप्तदशोऽध्यायः || १७ || आदितः श्लोकाः १०५५ मन्त्रोद्धारो नाम अष्टादशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || शक्तिमन्त्रोद्धारः अहिर्बुध्न्यः शक्तिं समुद्धरेत् पूर्वमग्नीषोमात्मना स्थिताम् | विष्णुस्थां परमात्मस्थां स्पृशन्तीं व्यापिनीं पुनः || १८-१ || वानीहृदयमादाय योजयेदन्तरात्मना | हृदा पुनः समायोज्य योजयेदूष्मणो द्वयम् || १८-२ || पञ्चबिन्दुं महाशक्तिं स्मरेदथ तदासनाम् | व्योमेशमाश्रयन्तीं तां स्मरेदथ धिया पुनः || १८-३ || संक्षेपतस्तत्प्रभावः इयं दिव्या महाशक्तिः सोमसूर्याग्निभूषणा | माया नाम तनुर्विष्णोस्त्रैलोक्यैश्वर्यदोज्ज्वला || १८-४ || स्थूलसूक्ष्मपरत्वेन शक्तिरेषा निदर्शिता | सौदर्शनानां मन्त्राणामियं योनिर्महामुने || १८-५ || प्. १६४) विष्णुसंकल्परूपाणां ये चान्ये वैष्णवा भुवि | इयम् सा परमा शक्तिरहंतेयं हरेः परा || १८-६ || विचित्रानेकशब्दार्थतत्तत्संकल्पकोरका | युग्मान्तैरादिभिः षड्भिराद्यन्तस्वरषट्कयोः || १८-७ || अङ्गकॢप्तिः समुद्दिष्टा शक्त्या मेलितया स्वया | सुदर्शनदशाक्षरमन्त्रोद्धारः मनसाभ्यस्य तां शक्तिं संतोषावधि वैष्णवीम् || १८-८ || समुद्धरेन्महामन्त्रं सौदर्शनमनन्यधीः | अमृतं शक्तिहृद्भूतमप्रमेयेन वर्णयेत् || १८-९ || दिव्यं तदन्तरात्मानं परमात्मानमञ्जसा | योजयेत् प्रथमेनैव तत्स्थां तृप्तिं तु केवलाम् || १८-१० || केवलं तत्स्थितं सोमं तत्स्थितं च स्मरेत् सुधीः | अशेषभुवनाधारं तत्स्थमानन्दमेव च || १८-११ || कालपावकमादाय दुष्टपापेन्धनानलम् | योजयेद् व्यापकेनैव नानाविधविभाविना || १८-१२ || संक्षेपतस्तत्प्रभाववर्णनम् दशाक्षरी महाविद्या शक्तिः सौदर्शनी त्वियम् | स्थूलसूक्ष्मपराकारा विष्णुसंकल्परूपिणी || १८-१३ || प्. १६५) तत्तद्विचित्रसंकल्पसदसद्भावभाविनी | सर्वभावानुगा विष्णो परा सौदर्शनी स्थितिः || १८-१४ || आकाशादिपृथिव्यन्तभूतिभेदानुयायिनी | सूक्ष्मा सौदर्शनी शक्तिः कारणादिविभागिनी || १८-१५ || तत्तद्दुरितदैत्यौघतमोविध्वंसनात्मिका | स्थूलचक्रस्वरूपाढ्या विष्णोः सांकल्पिकी स्थितिः || १८-१६ || स्वरव्यञ्जनकूटस्थैः पूर्णेयं चतुरक्षरी | निदानं सर्वसिद्धीनामपदं लाभनाशयोः || १८-१७ || कूटे त्र्यर्णमये त्वस्याः परतः प्रायशः स्थितेः | याभ्यां षडक्षरी सैषा विद्या भुवनकारिका || १८-१८ || त्रेधा पञ्चमबीजकथनम् परमात्मानमादाय योजयेदुदयेन तु | प्रधानं संस्पृशेद्भूयः परं बीजं तु पञ्चमम् || १८-१९ || सूर्यमुद्दामकालाढ्यं सूक्ष्मं तद्बीजमुच्यते | सप्राणं भुवनाधारं रक्षोदुरितमर्दनम् || १८-२० || स्थूलं तु पञ्चमं बीजं सौदर्शनमनुत्तमम् | त्रेधा षष्ठबीजकथनम् प्. १६६) यत्तत् सांकर्षणं घोरं लाङ्गलं परमायुधम् || १८- २१ || योजयेदप्रमेयेण चन्द्रिकाकेवलेन च | परं तत् परमं षष्ठं दीप्तिशालि सुदर्शने || १८-२२ || सर्वशास्त्रार्थकूटस्थमिति तेजोऽप्रमेयकम् | षष्ठे परा स्थितिर्बीजे सेयं नारद दर्शिता || १८-२३ || तत् फुल्लनयनाकारं फुल्लैर्यन्नयनैर्वृतम् | प्रथितं प्रथमाक्रान्तं विश्वाप्ययकृदुज्ज्वलम् || १८-२४ || सूक्ष्मं षष्ठं समुद्दिष्टं बीजं सौदर्शनं परम् | यस्मान्नयति सन्मार्गं छित्त्वाघं बाह्यमान्तरम् || १८-२५ || प्रथते च मुहुर्वृद्ध्या विश्वमाप्याययत्यपि | इयं ते मध्यमावस्था सूक्ष्मा षष्ठी प्रदर्शिता || १८-२६ || श्वेताख्या व्यापकाक्रान्ता आह्लादेन तु केवलम् | षष्ठी स्थूला समुद्दिष्टा विधा नारद ते मुने || १८-२७ || स्थाणुं छित्त्वा यथा दग्ध्वा पूर्वं केदारकारकः | फलप्रापणबीजानि प्रथयित्वा च वारिणा || १८-२८ || आप्यायय शान्तसंतापो व्याप्नुवन् विविधं फलम् | आह्लादं लभतेऽतीव सेयं षष्ठी परा मुने || १८-२९ || प्. १६७) इति ते दर्शिता शश्वच्छक्तिः सा षोडशाक्षरी | सुदर्शनगायत्री स्वशक्त्या तु समाक्रान्ता गायत्री सेयमीरिता || १८-३० || पुनः शक्तिमन्त्रवैभवः एषा सौदर्शनी शक्तिर्भवबीजक्षयंकरी | जप्तार्चिता हुता ध्याता तारयत्येव साधकम् || १८-३१ || अस्याः प्रातिस्विकं बीजं चतुर्थं कूटमुत्तमम् | स्मृता प्रातिस्विकी शक्तिस्तृप्तिः सोमामृतात्मिका || १८-३२ || शक्तिमन्त्रस्य प्रथमद्वितीयाक्षराभ्यां पुरुषसूक्तश्रीसूक्तयोराविर्भावः अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम् | द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने || १८-३३ || संक्षेपतो मन्त्रार्थवर्णनम् सहयोर्यत् स्मृतं ज्ञानं तत् सहस्रारमुच्यते | सहो बलं समाख्यातं तत् स्रवत्यखिलेन यत् || १८-३४ || तत् सहस्रं समाख्यातमनन्तं प्राणनं च तत् | अरं ज्ञानं समाख्यातं नित्यशुद्धं निरञ्जनम् || १८-३५ || प्. १६८) ज्ञानक्रियात्मिका शक्तिरिति सौदर्शनी कला | संप्राप्योदयमुद्दामं भुवनस्य कृते स्वयम् || १८-३६ || प्राणसूर्यात्मिका भूत्वा परमात्मस्वरूपिणी | निहत्य दुरितं शश्वद्विश्वमाप्याययन्त्यपि || १८-३७ || श्वेता प्रसन्नभूयिष्ठा स्वयमानन्दते मुहुः | संहृतैर्विगृहीतैश्च वाक्यैर्वर्णैः पदैरपि || १८-३८ || लेशतोऽर्थगतिः प्रोक्ता विस्तृत्या नैव शक्यते | सुदर्शनसप्ताक्षरी प्रणवेन समाक्रान्ता सेयं सप्ताक्षरी स्मृता || १८-३९ || सुदर्शनाष्टाक्षरी स्वशक्त्या च समाक्रान्ता सेयमष्टाक्षरी स्मृता | सुदर्शननवाक्षरी श्रिया समेता भूयोऽपि स्मृता सैषा नवाक्षरी || १८-४० || अथाङ्गसिद्ध्यर्थाङ्गमन्त्रः अथास्या अङ्गसिद्ध्यर्थमेकमङ्गं निशामय | चन्द्रांशुमुद्धरेत् पूर्वमप्रमेयेण भूषयेत् || १८-४१ || प्. १६९) अशेषभुवनाधारं परप्रकृतिसंयुतम् | आनन्देन समाक्रान्तं द्वितीयं कूटमुद्धरेत् || १८-४२ || चतुर्गतिमथादाय ह्यप्रमेयेण भूषयेत् | ततोऽमृतमुपादायाप्यमृताधारभूषितम् || १८-४३ || आनन्दयोजितं पश्चात् परमात्मानमुद्धरेत् | आनन्दपूरितः सोऽयं मन्त्रः सर्वाङ्गमन्त्रराट् || १८-४४ || अतिचञ्चलदीप्ताग्निः फुल्लत्कमलसंनिभः | सूर्यानलसहस्राभ आदिदेवसमद्युतिः || १८-४५ || नित्यतृप्तश्च मन्त्रात्मा सूक्ष्मावस्थ उदाहृतः | करालाकारवर्णाभा स्फुरच्चक्रायुतान्विता || १८-४६ || निहत्य दुरितं सर्वं प्राणेन स्वेन तेजसा | सोमसूर्यात्मिका भूत्वा गोपायति जगत्त्रयम् || १८-४७ || इति स्थूला गतिर्दिव्या चक्रमन्त्रस्य दर्शिता | इदं नानाविधैर्बीजैर्हृदयाद्यङ्गसंततौ | योजयेच्चक्रमन्त्रं तु यथा तन्मे निशामय || १८-४८ || इति श्रीपाञ्चरात्रे तत्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रोद्धारो नाम अष्टादशोऽध्यायः || १८ || आदितः श्लोकाः ११०३ अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || हृदयमन्त्रः अहिर्बुध्न्यः यत्तज्ज्ञानमयं दिव्यं गुणानां प्रकृतिः परा | पञ्चानां तु बलादीनां नित्यशुद्धं निरञ्जनम् || १९-१ || तन्नाम हृदयं मन्त्रं स षाड्गुण्यमयो यतः | तस्य वाचकमाकारमुद्धरेन्मनसा सुधीः || १९-२ || ज्ञानत्वादप्रमेयश्च प्रथमो व्यापकः स्मृतः | आनन्द आदिदेवश्च गोपनश्चेति षड्विधाः || १९-३ || क्रमात् संहृत्य तज्ज्ञानं सांकर्षणमनुत्तम् | तत्तद्विशेषसंयोगाद्विशेष्यस्तन्मयः सदा || १९-४ || इत्याभावसमायोगाज्ज्ञानात्मा मन्त्रराट् स्वयम् | हृदयाय नमः पश्चाद्व्यक्त्यर्थं संप्रयोजयेत् || १९-५ || शिरोमन्त्रः प्. १७१) रमणीया समिद्धा च येच्छा देवस्य शाश्वती | सर्वत्राप्रतिघा दिव्या ह्यमृताधारभेदिता || १९-६ || वीति बीजेन निर्दिष्टा तच्चैश्वर्यं महद्धरेः | ऐश्वर्यं च शिरःस्थाने यत्तत् सर्वोपरि स्थितम् || १९-७ || अविघातात्मकं यत्तदिच्छाया रूपमुत्तमम् | समिद्धं रमणीयं तदमृतस्याश्रयः परः || १९-८ || वीति तद्द्योतकं बीजं तेन संयोजयेच्छिरः | तेन संयोजितश्चक्रमन्त्र ऐश्वर्यबृंहितः || १९-९ || इच्छामिन्धान एवास्य मन्त्रिणः संप्रकाशते | ततस्तच्छिरसे स्वाहा व्यक्त्यर्थं संप्रयोजयेत् || १९-१० || शिखामन्त्रः अमृता सोमरूपा च या सा तृप्तिमयी परा | जगत्प्रकृतिरीशाना विष्णुशक्तिः परावरा || १९-११ || तस्या यो भुवनाकार उद्दाम उदयोऽमलः | सु इत्येवं समाख्याता शक्तिस्तेनोदिता सती || १९-१२ || विशेषयति रूपेण चक्रमन्त्रं सनातनम् | तया स भेदितः शक्त्या शक्त्यात्मा संप्रकाशते || १९-१३ || या सा कुण्डलिनी शक्तिर्हृदयस्था समीरिता | प्. १७२) योगिभिर्या शिखा तस्या दिव्या दीपाकृतिः परा || १९-१४ || प्रसरत्यूर्ध्वभागे तु शिखास्थाने विराजते | अतः शक्तेः शिखास्थाने न्यासस्तस्यास्ततः स्मृतः || १९-१५ || शिखायै वषडित्येवं व्यक्त्यर्थं संप्रयोजयेत् | कवचमन्त्रः ऊर्जो नाम समुद्दिष्टो बलं विष्णोः स्वमूर्जितम् || १९-१६ || प्रज्ञाधारणसामर्थ्यं नित्यतृप्तिमयं परम् | सर्वकार्यैः समुद्युक्तः श्रमाभावे हि तृप्यति || १९-१७ || अशेषभुवनाधारस्तद्बलं परिगीयते | बले बलं धारणेद्धा बिभर्ति सकलं जगत् || १९-१८ || चतुर्गतिमयं यत्तत् प्राणानां परिगीयते | व्यानापानादिका सा च प्रोक्ता गतिचतुष्टयी || १९-१९ || चतुर्गतिमयः प्राणो बलं तत् परिगीयते | अजितो भगवान् येन जयत्यखिलमच्युतः || १९-२० || एतैर्गुणैः समायुक्तं बलं तद्वैष्णवं महत् | अप्रमेयमनाद्यं तत् सूर्यशब्देन गीयते || १९-२१ || बलेन भेदितो मन्त्रो बलात्मा व्यवतिष्ठते | बलं चाखिलगात्रेषु मूर्छितं विपुलं महत् || १९-२२ || अंसयोस्तदभिव्यक्तिरतस्तत्रैव विन्यसेत् | प्. १७३) कवचाय हुमित्येव व्यक्त्यर्थं संप्रयोजयेत् || १९-२३ || अस्त्रमन्त्रः महत्ता न्यूनताभावः स च स्यादविकारिता | अव्याहतस्वसंकल्पः सुशब्दार्थो निरूपितः || १९-२४ || चेतनाचेतनं विश्वं स्वसंकल्पेन भावयन् | यः स्यादविकृतः सोऽस्य भावो महासुदर्शनः || १९-२५ || तद्वीर्यं तच्च शास्त्रोक्तं यद् दुष्टदमनात्मकम् | शान्तिदं सर्वपापानां शंकरं जगतामपि || १९-२६ || विकारविरहो दैत्यमर्दिनः परमात्मनः | महासुदर्शनेत्येवं तद्विर्यं बहुधोच्यते || १९-२७ || वीर्येण भेदितो मन्त्रो वीर्यात्मा व्यवतिष्ठते | तस्य हस्ततले स्थाने ततस्तत् तत्र विन्यसेत् || १९-२८ || ततोऽस्त्राय फडित्येवं व्यक्त्यर्थं संप्रयोजयेत् | नेत्रमन्त्रः अन्तर्बोधस्वरूपो यः प्राकृतध्वान्तनाशनः || १९-२९ || सूर्यवत् तपतस्तस्य या ज्वालाप्यूर्ध्वगामिनी | पुरुषाणामशेषाणामैश्वर्यान्निरपेक्षता || १९-३० || अमृताधाररूपत्वमनिशं जन्मघातकम् | प्. १७४) नैरपेक्ष्येण यत् तस्य तत् तेजः समुदाहृतम् || १९-३१ || ज्वालाशब्देन तत् तेजो वैष्णवं बहुधेर्यते | तेजसा भेदितो मन्त्रस्तेजोरूपोऽवतिष्ठते || १९-३२ || तेजसो नयनं स्थानमतस्तत् तत्र विन्यसेत् | वौषण्नेत्रत्रयायेति व्यत्यासाद् व्यक्तये पठेत् || १९-३३ || इति षाड्गुण्यरूपेयं दर्शिता तेऽङ्गसंततिः | उपाङ्गसंततिश्चैव न्यसनीया विपश्चिता || १९-३४ || उपाङ्गमन्त्रः कुक्षिपृष्ठांसयुग्मोरुजानुपादयुगेषु च | शाद्यर्णान् व्यापिसंयुक्तान् ज्ञानाद्यैर्नमसा सह || १९-३५ || विन्यसेत् षड्गुणात्मैव मन्त्रिदेहः प्रजायते | अप्रमेयो गदध्वंसी पन्थाः स्वर्गापवर्गयोः || १९-३६ || इच्छामयो हि यो भावो विष्णुसंकल्पजृम्भितः | अशेषदुरितप्लोषात् सोऽग्निरित्युच्यते बुधैः || १९-३७ || अग्निना भेदितो मन्त्रस्त्वग्न्यात्मा व्यवतिष्ठते | प्राकारं कल्पयेत् तेन परितः पावकाकृतिम् || १९-३८ || अग्निप्राकारमध्यस्थो दुर्निरीक्षोऽभिजायते | संस्मरंश्चक्रगायत्रीं परितश्चक्रमुद्रया || १९-३९ || ऊर्ध्वाधस्तिर्यगाकारं मुद्रयेदात्मनो बहिः | अग्निप्राकारतः पूर्वं चक्रमुद्राथवा भवेत् || १९-४० || चक्रगायत्री हृदयं चाथ चक्राय विद्महेपदमादिमम् | मन्त्रनाथस्य नेत्रादिपदं सूक्ष्मोऽथ धीमहि || १९-४१ || गायत्र्या आद्यनवमे ततश्चैवानिवारितः | ततः समस्तरूपं तु गायत्र्या दशमं पदम् || १९-४२ || उदिता चक्रगायत्री सप्तविंशतिकीर्तिता | अथ सौदर्शनास्त्राणां मन्त्रानेतान् निबोध मे || १९-४३ || चक्राद्यस्त्रमन्त्राः ओं नमो भगवन् विष्णो सर्वेषामादिमं समम् | चक्रमूर्तिधरेत्येवं गदामूर्तिधरेति च || १९-४४ || शार्ङ्गमूर्तिधरेत्येवं खड्गमूर्तिधरेति च | चक्राद्यस्त्रचतुष्कं तु ततः सेनापतेपदम् || १९-४५ || सर्वत्र सममुच्चार्य वदेत् प्रातिस्विकं ततः | मन्त्रनाथो भवेच्चक्रे षड्वर्नोऽथ गदादिषु || १९-४६ || कौमोदकि महाशर्ङ्ग महाखड्गेत्युदीरयेत् | वर्मास्त्रे च ततो युञ्ज्यादेष मौनविधिक्रमः || १९-४७ || इमाश्चतस्रो गायत्र्यश्चक्रादीनामुदीरिताः | शङ्खादीनां चतुर्णां तु मन्त्रानेतान्निबोध मे || १९-४८ || शङ्खादिमन्त्राः प्. १७६) ओं नमो भगवन् विष्णो सर्वेषामादितः समम् | शङ्खमूर्तिधरेत्येवं हलमूर्तिधरेति च || १९-४९ || मुसलमूर्तिधरेत्येवं शूलमूर्तिधरेति च | सेनापतेपदं पश्चात् सर्वेषां तुल्यमुच्चरेत् || १९-५० || महाथ पाञ्चजन्याय स्वाहेत्येकाधिको मनुः | महाहलाय स्वाहेति मन्त्रोऽप्येकाधिकः स्मृतः || १९-५१ || महा च मुसलायाथ स्वाहेत्यभ्यधिको मनुः | महाशूलाय स्वाहेति स चाप्यभ्यधिको मनुः || १९-५२ || इमाश्चतस्रो गायत्र्यः शङ्खादीनां प्रदर्शिताः | दण्डादीनामथाष्टानामिमान् मन्त्रान् निबोध मे || १९-५३ || दण्डाद्यस्त्रमन्त्राः ओं नमो भगवन् विष्णो सर्वेषामादितः समम् | दण्डमूर्तिधरेत्येवं कुन्तमूर्तिधरेति च || १९-५४ || शक्तिमूर्तिधरेत्येवं पाशमूर्तिधरेति च | अङ्कुशमूर्तिधराय कुलिशमूर्तिधरेति च || १९-५५ || परशुमूर्तिधरायाथ ततः शतमुखेति च | अनलमूर्तिधरेत्येवं प्रातिस्विकपदक्रमः || १९-५६ || सेनापतेपदं पश्चात् सर्वेषा सममुच्चरेत् | प्. १७७) महादण्डायाथ नमो मन्त्र एवाधिकः स्मृतः || १९-५७ || महाकुन्तायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः | महाशक्तये च नमो मन्त्रोऽप्येकोऽधिकः स्मृतः || १९-५८ || महापाशायाथ नमो मन्त्रोऽप्येकोऽधिकः स्मृतः | महाङ्कुशाय नम इत्येषोऽप्यधिक उच्यते || १९-५९ || महा च कुलिशायाथ नम इत्यपि तादृशः | महापरशवे चाथ नम इत्यपि तादृशः || १९-६० || महाशतमुखेत्येवमनलाय ततो नमः | अयं मन्त्रस्त्रयस्त्रिंशद्वर्णो वह्न्ययुतप्रभः || १९-६१ || इत्यस्त्राणामिमे मन्त्रा रूपतस्ते निदर्शिताः | अत्रानुक्तस्य संहितान्तरात् ग्रहणम् आधाराद्यासनाकारो द्वारपर्यन्तपूजनम् || १९-६२ || मुद्रा च विविधाकारा यस्य यस्य च यादृशी | अभिषेकविधिश्चैव दीक्षानियम एव च || १९-६३ || भूतशुद्धिविधिश्चैव ध्यानानि विविधानि च | सर्वं जयाश्रुतं कार्यं तत्तद्वैशेषिकं विना || १९-६४ || अमुद्राणामिहास्त्राणां दण्डादीनां महामुने | कार्या समन्विता दिव्या शक्तिमुद्रास्त्रमुद्रया || १९-६५ || प्. ७८) इति ते लेशतः प्रोक्तः सौदर्शनविधिक्रमः | ग्रहणादिप्रकारोऽयं वक्ष्यते शृणु तं मुने || १९-६६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अङ्गोपाङ्गमन्त्रोद्धारो नाम एकोनविंशोऽध्यायः || १९ || आदितः श्लोकाः ११६९ मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || आचार्यलक्षणम् अहिर्बुध्न्यः वेदवेदान्ततत्त्वज्ञो विद्यास्थानविचक्षणः | ऊहापोहविधानज्ञो दैवपित्र्यक्रियापरः || २०-१ || अवक्ता चापवादानामकर्ता पापकर्मणाम् | अमत्सरी परोत्कर्षे परदुःखे घृणापरः || २०-२ || दयावान् सर्वभूतेषु हृष्टः परसुखोदये | पुण्येषु मुदितायुक्त उपेक्षावान् कुबुद्धिषु || २०-३ || तपःअसंतोषशौचाढ्यो योगस्वाध्यायतत्परः | पाञ्चरात्रविधानज्ञस्तन्त्रान्तरविचक्षणः || २०-४ || तन्त्राणामन्तरज्ञश्च मन्त्राणां कृत्यतत्त्ववित् | पदवाक्यप्रमाणज्ञो हेतुवादविचक्षणः || २०-५ || प्. १८०) सामान्यस्यापवादस्य वेत्ता यन्त्रविचक्षणः | कुण्डमण्डलभेदज्ञः क्रियाकारविचक्षणः || २०-६ || अध्यात्मज्ञानकुशलः शान्तो दान्तो जितेन्द्रियः | सदन्ववायसंभूत आचार्यो नाम वैष्णवः || २०-७ || शिष्यलक्षणम् आचार्यमाश्रयेच्छिष्यः श्रेयोऽर्थी सुसमाहितः | विनयव्रतशाली च द्विजातिः संस्कृतः शुचिः || २०-८ || ब्रह्मचर्यपरो धीमान् स्वदारनिरतोऽथवा | अच्छलेन यथावत् स्वकृताकृतनिवेदकः || २०-९ || संसाराङ्गारमध्यस्थः पच्यमानः स्वकर्मभिः | भवन्तं शरणं प्राप्त उपसन्नोऽस्म्यधीहि भोः || २०-१० || इत्येवं प्रतिपद्येत शिष्य आचार्यसत्तमम् | दीक्षाक्रमः इत्येवं संप्रपन्नाय शिष्यायाच्छलवादिने || २०-११ || प्रत्यक्षाभिः परोक्षाभिरुपाधिभिरनेकधा | शोधितायैकरूपाय रहस्याम्नायगोपिने || २०-१२ || अशठायानसूयाय लोभमोहाद्यसेविने | संवत्सरं परीक्ष्यैवं परितः परितो धिया || २०-१३ || प्. १८१) निष्कम्पाय वदेद्विद्यां यावती यादृशी च सा | अङ्गन्यासकरन्यासौ मातृकामादितो देवीं विन्यसेद्वपुषि स्वके || २०-१४ || अङ्गन्यासकरन्यासौ मन्त्रवर्णैः समाचरेत् | मृजेत् प्रकोष्ठमेकैकं त्रिर्मन्त्रेण त्रिरूपिणा || २०-१५ || एवं पाणितलद्वन्द्वमङ्गुलीष्वथ विन्यसेत् | उभाभ्यां मध्यमाग्राभ्यामुभयस्मिंस्तलद्वये || २०-१६ || तारकं तारिकां लक्ष्मीं प्रणवाद्यन्तगां न्यसेत् | प्रणवाद्यन्तगं सोमं मध्यमेऽङ्गुष्ठपर्वणि || २०-१७ || सबिन्दुं विन्यसेत् प्राणमेव तर्जनिपर्वणि | न्यसेद्वर्णांस्तृतीयादीनङ्गुल्यन्तरपर्वसु || २०-१८ || लाङ्गलं परमास्त्रं तु न्यसेदूर्ध्वाङ्गुलीष्वथ | ऋष्यादीनां स्थानभेदः ऋषिं शिरसि विन्यस्येच्छन्दो वदनगोचरम् || २०-१९ || नारायणमनाद्यन्तं देवतां हृदये स्मरेत् | परसूक्ष्मस्थूलमन्त्राणामृषयः पराकारस्य मन्त्रस्य परमात्मा ऋषिः स्मृतः || २०-२० || संकर्षणस्तु सूक्ष्मस्य स्थूलस्याहमृषिः स्मृतः | सुदर्शनमन्त्रस्याथर्वणवेदसारतमत्वम् प्. १८२) अथर्वाङ्गिरसो नाम पञ्च शाखा महामुने || २०-२१ || तासु त्वन्तर्हितो दिव्यः कृतान्तो मन्त्रराट् स्वयम् | संकर्षणाज्ञया अहिर्बुध्न्येन तदुद्धरणम् मया त्रेतायुगादौ तु तप्त्वा वर्षायुतं तपः || २०-२२ || दिव्यात् संकर्षणादेशात् परमेण समाधिना | सर्व आथर्वणो वेदो मथितस्तु शनैः शनैः || २०-२३ || मथ्यमानात् ततस्तस्माद् दध्नो घृतमिवोद्धृतः | मन्त्रोऽयं सपरीवारः साङ्गोपाङ्गः सनातनः || २०-२४ || स्थूलस्य मन्त्रनाथस्य ततो मामृषिमूचिरे | दैवी ब्राह्मी तथार्षी च गायत्री छन्द उच्यते || २०-२५ || परः सूक्ष्मस्तथा स्थूलः परमात्मा च देवता | देहे संहारन्यासक्रमः विन्यसेदथ गात्रेषु मन्त्रनाथं सनातनम् || २०-२६ || परसूक्ष्मादिभावेन सोमार्कानलदीधितिम् | प्रणवादित्रयं मूर्ध्नि ललाटे सोममेव च || २०-२७ || आस्ये सूर्यं गले स्रां च हृदि रं नाभिगं तु हुं | मूलाधारे तु फट्कारं तारादित्रितयं हृदि || २०-२८ || प्. १८३) नाभौ समूलगं हं च पादयोः स्रां च रं हृदि | हुं वक्त्रे फट् शिरोदेशे ततः सर्वात्मना क्रिया || २०-२९ || अङ्गोपाङ्गन्यासः हृदयादीन्यथाङ्गानि स्वेषु स्थानेषु विन्यसेत् | उपाङ्गेषु तथा न्यासं मान्त्रैर्वर्णैः समाचरेत् || २०-३० || देहस्य त्रेधा विभावनम् स्थूलसूक्ष्मपरत्वेन देहं विद्यात् ततस्त्रिधा | अङ्गप्रत्यङ्गकोशाढ्यं प्रत्यक्षं स्थूलमुच्यते || २०-३१ || पुर्यष्टकं तु सूक्ष्माख्यं परमाणव उच्यते | वह्न्यर्ककोटिसंकाशज्वालाकोलाहलाकुले || २०-३२ || त्रिविधे मन्त्रनाथेऽस्मिंस्त्रिविधं भावयेद्वपुः | तेजो दिव्यं महच्छुभ्रं मनःस्थं हृत्स्थमव्ययम् || २०-३३ || नारायणमयं ध्यायेदात्मानं ज्योतिषां पतिम् | ततस्तच्चक्रमध्याक्षसोमसूर्यानलात्मनि || २०-३४ || मज्जयित्वा स्वमात्मानं निर्वासनमथोद्धरेत् | सृष्टिन्यासः ततः परादिभावस्थान् मन्त्रनाथान् सनातनान् || २०-३५ || प्. १८४) तेनैव क्रमयोगेन तनूस्ता विसृजेत् पुनः | तासु प्रवेश्य चात्मानं पुनर्न्यासं समाचरेत् || २०-३६ || हस्तदेहादिगो न्यासो यावत् पूर्वमुदाहृतः | शिष्यावेक्षणम् अथ मन्त्रतनुर्दिव्यो मन्त्रात्मा मन्त्रसारथिः || २०-३७ || विष्णुसंकल्पजं रूपं वहन् सौदर्शनं वपुः | नेत्रैः शिष्यमवेक्षेत वह्न्यर्केन्दुमयैः क्रमात् || २०-३८ || शिष्यस्य संहारन्यासः अथ स्थूलादिभावेन दहेन्मन्त्रेण तद्धिया | पूर्वोक्तक्रमयोगेन शिष्यात्मानं परात्मनि || २०-३९ || सृष्टिन्यासः निमज्जयित्वेत्याद्यं तु क्रमं सर्वं समाचरेत् | मनसा शुष्कदग्धोत्थे शिष्यदेहे तथा तथा || २०-४० || विन्यसेत् क्रमयोगेन मन्त्रन्यासं धिया ततः | मन्त्रोपदेशः अथ तस्योपदेष्टव्यः सहाङ्गो मन्त्रनायकः || २०-४१ || सार्थः सप्रतिपत्तिश्च यो यो भावः पुरोदितः | प्. १८५) एवं गृहीतमात्रे तु मन्त्रनाथे सनातने || २०-४२ || उत्पद्यते स्वयं चित्ते प्रत्ययो देवनिर्मितः | शिष्यकृत्यम् सम्यगित्थं गृहीतेन मन्त्रेणानेन मन्त्रवित् || २०-४३ || कृतार्थं मन्यमानः स्वं गुरवेऽथ निवेदयेत् | आत्मानमथ चात्मीयं यत् किंचिदुत विद्यते || २०-४४ || विना पापमनिष्टं च सर्वं तस्मै निवेदयेत् | एवं निवेद्य मन्वीत कृतार्थोऽहमिति स्वयम् || २०-४५ || एवंधियो ह्यच्छलेन मन्त्रः स्वेन प्रकाशते | भावस्य तारतम्येन तत्तद्दीक्षादिसाधनम् || २०-४६ || दीक्षया दीक्षयित्वाथ पात्रयित्वाथवा धिया | संस्कारेणाथर्वणेन यद्वा संस्कृत्य मन्त्रतः || २०-४७ || मन्त्रोऽयमुपदेष्टव्यो गुरुणा गुरुसेविनः | इत्थं ग्रहणसिद्धेन साधनेनाथ वाग्यतः || २०-४८ || मन्त्रेणानेन सिद्धेन कुर्याल्लोकहितं सुधीः | क्षुद्रार्थं मन्त्रो न प्रयोज्यः न जातु यस्य कस्यापि क्षुद्रस्यात्मन एव वा || २०-४९ || प्. १८६) लौकिकेऽर्थे विधिः कार्यः क्षुद्रकृत्यं हि तत् स्मृतम् | मन्त्रप्रयोगविषयाः त्रैलोक्यस्याथ रक्षायै भुवश्चक्रस्य वा कृते || २०-५० || राष्ट्रस्य वाथ राज्ञो वा राजमात्रस्य वा कृते | भावायैव विधिः कार्यो नैवाभावाय कर्हिचित् || २०-५१ || पुरश्चरणार्थप्रदेशविधिः पर्वताग्रे नदीतीरे विष्णोरायतनेऽपि वा | ऋषीणामाश्रमे वापि सिद्धानामालयेऽपि वा || २०-५२ || गवामायतने वापि वह्न्यायतन एव वा | कृच्छ्रादिभिः शरीरशोधनम् त्रिभिः कृच्छ्रैर्विशोध्य स्वं गायत्रीनियुतेन वा || २०-५३ || त्रिभिर्वा ब्रह्मकूर्चोत्थैः स्नानैः सात्त्वतचोदितैः | पुरश्चरणाङ्गनियमाः अहरेकं हरेर्बिम्बमापादमवलोकयेत् || २०-५४ || ततो भैक्षहविष्याशी यावकेनोत वर्तयेत् | पयोव्रतो हविष्याशी यथा वा शक्नुयान्नरः || २०-५५ || मन्त्रजपादिसंख्या प्. १८७) जपेल्लक्षाणि षण्मन्त्री जुहुयाच्चायुतानि षट् | तावच्च तर्पयेत् तोयैर्ब्राह्मणानथ तर्पयेत् || २०-५६ || मन्त्रसिद्धिः अच्छलेनेतिवृत्तस्य मन्त्रनाथः प्रसीदति | तेन लोकसंरक्षा प्रसन्नेनाथ मन्त्रेण रक्षा लोकानुकम्पया || २०-५७ || राजार्थितेन वै कार्या नार्थकार्पण्यतः क्वचित् | इति ते दर्शितः सम्यङ् मन्त्रनाथस्य विस्तरः | मन्त्रानधिकारिणः नादान्तैः श्रावणीयोऽयं नैव यादृशतादृशैः || २०-५८ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रग्रहणादिदीक्षाविधानं नाम विंशोऽध्यायः || २० || आदितः श्लोकाः १२२७ ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || रक्षाप्रकारप्रश्नः नारदः नमो निखिलगीर्वाणगणश्रेयोविधायिने | नमस्ते त्रिपुराराते भूयो गौरीगुरो नमः || २१-१ || अत्यद्भुतमिदं दिव्यं वेदान्तेष्वपि दुर्लभम् | श्रुतं भगवतो वाक्यं कृतार्थोऽहमनेन वै || २१-२ || भूयोऽहं श्रोतुमिच्छामि त्वद्वाक्यामृतमुत्तमम् | का रक्षा कीदृशी चैव कार्या मन्त्रेण मन्त्रिणा || २१-३ || रक्षाया द्वैविध्यम् अहिर्बुध्न्यः रक्षा तु द्विविधा मान्त्री मन्त्रनित्येन धीमता | कार्या ज्योतिर्मयी पूर्वं पश्चात् तत्र च वाङ्मयी || २१-४ || अक्षकल्पनम् यत् तद् दिव्यं महज्ज्योतिरक्षरं ब्रह्म शाश्वतम् | प्. १८९) सूर्यस्य यः परः सूर्यश्चन्द्रश्चन्द्रस्य यः परः || २१-५ || अग्नेरग्निः परो दीप्तेस्तेजस्तत्तेजसामपि | नित्यतृप्तं सदानन्दमुदयास्तमयोज्झितम् || २१-६ || तदक्षं कल्पयेद् दिव्यमथ नाभिं स्मरेद् बुधः | नाभिकल्पनम् तद्धर्मधर्मिणीं शक्तिं ब्रह्मणोऽनपगामिनीम् || २१-७ || अनाकारामनौपम्यां लक्षयन्तीं सदा जगत् | शक्तेः श्रीशब्दवाच्यत्वं तन्निर्वचनं च श्रयन्तीं श्रीयमाणां च शृणन्तीं शृण्वतीमपि || २१-८ || महानन्दां महाभासां निर्विकारां निरेषणाम् | श्रियः षाड्गुण्यपूर्णता ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभावतीम् || २१-९ || अनन्तानन्तरूपां तामभेद्यां सर्वभेदिनीम् | नन्दां भद्रां जयां पूर्णां रिक्तां चैवामृतां हराम् || २१-१० || त्रिरूपामत्रिरूपां च सर्वप्रत्यक्षसंमताम् | निषेधैरनिषेध्यां तामविधेयां विधिक्रमैः || २१-११ || अवाच्यां वाचिकां नित्यां गौरीं लक्ष्मीं सरस्वतीम् | अरकल्पनम् अराणि पञ्च कृत्यानि शक्तेस्तस्याः प्रकल्पयेत् || २१-१२ || प्. १९०) तिरोभावं सृजिं चैव स्थितिं संहृत्यनुग्रहौ | नेमिकल्पनम् व्यूहं व्यूहान्तरं चैव नेमिभावं प्रकल्पयेत् || २१-१३ || सच्चिदानन्दसंदोहमस्पन्दस्पन्दलक्षणम् | सर्वक्रियास्पदं शुद्धमक्रियास्पदसेवितम् || २१-१४ || उदयास्तमयस्थं तदुदयास्तमयोज्झितम् | अवस्थाविधुरं नित्यं शश्वच्चतुरवस्थितम् || २१-१५ || अपदं चाक्रमं चैव क्रमास्थितचतुष्पदम् | अनायुधमसंरम्भं सर्वायुधसमन्वितम् || २१-१६ || शास्त्रशास्त्रार्थतद्भेदं फलकॢप्तिविचक्षणम् | चन्द्रार्काग्निसहस्रौघकोटिकोट्यर्बुदोपमैः || २१-१७ || स्वभासां निचयैर्ध्वस्तसमस्तदुरितोदयम् | विभवेशादीनां नेमिबाह्यस्थानकल्पनम् नेमिबाह्यस्थितान् ज्वालान् विभवेशाननुस्मरेत् || २१-१८ || चन्द्रार्काग्निसहस्राभान् संविदानन्दलक्षणान् | सर्वाकारान् निराकारान् सर्वाभीष्टफलप्रदान् || २१-१९ || कान्तिज्वालाकुलालीढरक्षोदैत्येन्द्रदानवान् | धूम्रां ज्वालाकुलोत्थां च सृष्टिं शुद्धेतरां स्मरेत् || २१-२० || त्रैलोक्यं धरणीं चक्रं मण्डलं वा तदीश्वरम् | प्. १९१) अक्षस्थं कल्पयेत् तस्य यदीच्छेद्रक्षितुं धिया || २१-२१ || एवं ध्यायिन आनुषङ्गिकं फलम् इत्थं विचिन्तयेद् यत्र मन्त्री मन्त्रार्थतत्परः | तत्र नश्यति पाप्मान आधयो व्याधयोऽपि वा || २१-२२ || ईतयोऽरातयश्चैव न क्लेशा दधते पदम् | राजा विजयते नित्यं शश्वत् स्निह्यन्ति मन्त्रिणः || २१-२३ || नित्यं माद्यन्ति मित्राणि सुख्यन्ति सुहृदस्तथा | बध्नन्ति बान्धवाः प्रीतिं सन्तः सन्ति च संततम् || २१-२४ || पोष्याः पुष्यन्ति चार्थानां श्रयन्ति श्रिय एव च | ऋध्नुवन्ति प्रजा नित्यं प्रसीदन्त्यः परस्परम् || २१-२५ || कामैर्धमान् निबन्ध्नन्ति धर्मैरर्थाननेकशः | अर्थैः कामान् निबध्नन्ति तथा धर्मानशेषतः || २१-२६ || धर्मैरर्थान् निबध्नन्ति तथा कामानशेषतः | धर्मार्थाभ्यां तथा कामं कामार्थाभ्यां तथेतरम् || २१- २७ || अर्थं च धर्मकामाभ्यां संचिन्वन्ति सदा नराः | मुख्यफलकथनम् सर्वे स्वधर्मनिरतास्तथा कल्याणभागिनः || २१-२८ || संप्राप्य भगवज्ज्ञानं प्राप्नुवन्ति परं पदम् | प्. १९२) अध्यायार्थनिगमनम् इति ज्योतिर्मयी रक्षा लेशतस्ते निदर्शिता | रक्षां तु वाङ्मयीं प्रोक्तां गृणतो मे निशामय || २१-२९ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ज्योतिर्मयरक्षानिरूपणं नाम एकविंशोऽध्यायः || २१ || आदितः श्लोकाः १२५६ मन्त्रमयरक्षानिरूपणं नाम द्वाविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || तत्रादौ चतुररब्रह्मचक्रम् अहिर्बुध्न्यः शृणु मन्त्रमयीं रक्षां वाङ्मयी या निगद्यते | यस्मिन् विश्वमिदं प्रोतं सदेवासुरमानुषम् || २२-१ || मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः | कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः || २२-२ || तं तारशक्तिश्रीबीजैर्ग्रथितं कल्पयेन्मनुम् | तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया || २२-३ || विलिखेत् परितो भूयः सहग्रथितमातृकम् | परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् || २२-४ || मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो लिखेत् | अक्षकॢप्तिरियं दिव्या देवैरपि सुदुर्लभा || २२-५ || प्. १९३) स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम् | स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् || २२-६ || शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् | अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः || २२-७ || व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत् | अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् || २२-८ || उद्दामादिक्रमेणैव दक्षिणं चारमालिखेत् | प्रासादादिक्रमेणैव प्रश्चिमं चारमालिखेत् || २२-९ || व्योमेशादिक्रमेणैवमुत्तरं चारमालिखेत् | इयं चतुररी दिव्या सुरैरपि सुपूजिता || २२-१० || आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत् | कालानलसमज्योतिर्भवेदरचतुष्टयम् || २२-११ || परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम् | शक्तिताररमाबीजैर्ग्रथितं वर्मवेष्टितम् || २२-१२ || शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत् | फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः || २२-१३ || प्रधिभूमौ लिखेच्चक्रमेतच्चतुररं स्मृतम् | षडरविष्णुचक्रम् तारकात्मकमेतत्तु चक्रमक्षं प्रकल्पयेत् || २२-१४ || प्. १९५) तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम् | परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत् || २२-१५ || नामवर्णान् लिखेद् बाह्ये तारादित्रयदर्भितान् | वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् || २२-१६ || परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् | मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् || २२-१७ || वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः | ग्रथितं कल्पयेन्नाभिं स्राकारां परमाद्भुतम् || २२-१८ || स्राकारग्रथितां चापि मातृकां परितो लिखेत् | रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च || २२-१९ || रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने | रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् || २२-२० || प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत् | रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च || २२-२१ || विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत् | रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च || २२-२२ || ष्णं [श्रियं रेफमित्येवं नैर्-ऋतं चाप्यरं लिखेत् | रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च || २२-२३ || वें श्रियं] रेफमित्येवं वारुणं चाप्यरं लिखेत् | प्. १९६) रेफं नं प्रणवं रेफं नं शक्तिं रेफमेव च || २२- २४ || नं श्रियं रेफमित्येवं वायव्यं चारमालिखेत् | रेफं मों प्रणवं रेफं मों शक्तिं रेफमेव च || २२-२५ || मों श्रियं रेफमित्येवमैशानं चाप्यरं लिखेत् | तत्तदक्षरसंदिष्टं मन्त्रं तत्पार्श्वयोर्लिखेत् || २२-२६ || दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु | इयं हि षडरी दिव्या देवैरपि सुपूजिता || २२-२७ || परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः | हंकारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् || २२-२८ || शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः | फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् || २२-२९ || एतत्तु षडरं चक्रं षड्विंशार्णविनिर्मितम् | अष्टारनारायणचक्रम् षडरं कल्पयेच्चक्रमक्षमेतन्महाद्युति || २२-३० || अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत् | महाबलं महाभीमं कालानलसमद्युति || २२-३१ || विधानमस्य चक्रस्य यथावदवधारय | विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् || २२-३२ || प्. १९७) नामवर्णान् लिखेद्बाह्ये तारादित्रयलोलितान् | अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् || २२-३३ || परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् | मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् || २२-३४ || अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः | ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् || २२-३५ || स्राकारग्रथितां चापि मातृकां परितो लिखेत् | एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् || २२-३६ || रेफं च प्रणवं तारं रेफं तारं च तारिकाम् | रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् || २२-३७ || रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा | श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् || २२-३८ || रेफं मों तारकं रेफं मों शक्तिं रेफमोंद्वयम् | श्रियं रेफं च मतिमानरं याम्यं क्रमाल्लिखेत् || २२-३९ || रेफं नां तारकं रेफं नां शक्तिं रेफमेव च | नां श्रियं रेफमित्येवं नैर्-ऋतं च लिखेदरम् || २२-४० || रेफं रां तारकं रेफं रां शक्तिं रेफमेव च | रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् || २२-४१ || रेफं यं तारकं रेफं यं शक्तिं रेफमेव च | यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् || २२-४२ || प्. १९८) रेफं णां तारकं रेफं णां शक्तिं रेफमेव च | णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् || २२-४३ || रेफं यं तारकं रेफं यं शक्तिं रेफमेव च | यं श्रियम् रेफमित्येवमैशानं च लिखेदरम् || २२-४४ || तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः | अष्टारीयं महापुण्या सुरासुरनमस्कृता || २२-४५ || परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् | तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् || २२-४६ || शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् | फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् || २२-४७ || नारायणं महाचक्रमेतन्नारायणेरितम् | अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत् | वासुदेवं महाचक्रं विधिं तस्य निशामय || २२-४८ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां मन्त्रमयरक्षानिरूपणं नाम द्वाविंशोऽध्यायः || २२ || आदितः श्लोकाः १३०४ वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || द्वादशारचक्रम् अहिर्बुध्न्यः द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते | पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः || २३-१ || नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम् | तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः || २३-२ || तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् | परितो विलिखेद् बाह्ये चक्रान्नारायणाह्वयात् || २३-३ || नामवर्णान् लिखेद् बाह्ये तारादित्रयलोलितान् | द्वादशाक्षरमन्त्रेण ग्रथितं मन्त्रनायकम् || २३-४ || परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम् | मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् || २३-५ || प्. २००) द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः | ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् || २३-६ || स्राकारग्रथितां चापि मातृकां परितो लिखेत् | एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् || २३-७ || दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत | रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके || २३-८ || रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा | अराणि द्वादशैवं च द्वादशाक्षरविद्यया || २३-९ || प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः | तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः || २३-१० || द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया | परितः कल्पयेन्नेमिं जितंताख्यमहामनुम् || २३-११ || तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् | शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः || २३-१२ || फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् | वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम् || २३-१३ || अस्य चक्रस्य माहात्मयं वक्तुं शक्यं न मादृशैः | अजिताख्यद्वात्रिंशदरचक्रम् अक्षं कृत्वा चक्रमेतद् द्वात्रिंशदरमालिखेत् || २३-१४ || प्. २०१) अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम् | अस्य चक्रस्य विधिवद् विधानमुपदिश्यते || २३-१५ || वासुदेवाह्वयं चक्रमस्याक्षं परिकल्पयेत् | यथा तथा विधानेन विधानं शृणु सांप्रतम् || २३-१६ || तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् | परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः || २३-१७ || तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः | जितंताग्रथितं मन्त्रं परितो बहिरालिखेत् || २३-१८ || मातृकां विलिखेद् बाह्ये सहद्वन्द्वविदर्भिताम् | विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः || २३-१९ || जितंताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः | ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् || २३-२० || स्राकारग्रथितां चापि मातृकां परितो लिखेत् | एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसंमता || २३-२१ || द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत् | दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् || २३-२२ || रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके | रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा || २३-२३ || द्वात्रिंशतमराण्येवं लिखेत् सम्यग्जितंतया | प्. २०२) तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः || २३-२४ || सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा | परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् || २३-२५ || तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् | शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् || २३-२६ || फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् | अजिताख्यमिदं चक्रं पुण्डरीकाक्षसंमतम् || २३-२७ || येनाद्य पुण्डरीकाक्षो दैत्यान् विजयतेऽखिलान् | एतदत्यद्भुतं चक्रं कथ्यते वैष्णवं यशः || २३-२८ || नित्ययुक्तोऽत्र सन्मन्त्री जगद्विजयतेऽखिलम् | नारसिंहद्वात्रिंशदरचक्रम् अक्षीकृत्यैतच्चक्रं तु चक्रमन्यत् प्रवर्तते || २३-२९ || महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम् | विधानं शृणु तस्येदं कथ्यमानं मयानघ || २३-३० || तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् | अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् || २३-३१ || तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत् | उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् || २३-३२ || परितो विलिखेद् बाह्ये सहग्रथितमातृकम् | प्. २०३) महाविष्णुमयं ह्येतदक्षं चक्रस्य शोभनम् || २३-३३ || उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः | ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् || २३-३४ || स्राकारग्रथितां चापि मातृकां परितो लिखेत् | एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा || २३-३५ || द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत् | दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् || २३-३६ || रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके | रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा || २३-३७ || द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा लिखेत् | तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः || २३-३८ || सा द्वात्रिंशदरी विद्या दुष्टदैत्यनिबर्हणी | अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् || २३-३९ || गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च | तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् || २३-४० || शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् | फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् || २३-४१ || एतदत्यद्भुतं घोरं दुष्टदानवसूदनम् | नारसिंहं महाचक्रं मृत्युंजयमिति श्रुतम् || २३-४२ || प्. २०४) प्रेतापस्मारकुश्माण्डदैत्यदानवराक्षसाः | डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः || २३-४३ || स्मरणादस्य चक्रस्य विनश्यन्त्येव सर्वदा | शतारज्योतिश्चक्रम् अक्षीकृत्यैतच्चक्रं तु ज्योतिश्चक्रं प्रवर्तते || २३-४४ || ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम् | विधिज्ञैस्तस्य चक्रस्य विधानं विहितं शृणु || २३-४५ || यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम् | एषा तदिति गायत्री वेदानां जननी परा || २३-४६ || यदेतदग्निहोत्रस्थं ज्योतिर्वहति वै हुतम् | जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः || २३-४७ || रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम् | तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः || २३-४८ || ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः | विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः || २३-४९ || यत् पूर्वमुदितं चक्रं महाविष्णुमयं महत् | तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः || २३-५० || छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा | महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् || २३-५१ || प्. २०५) तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः | छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् || २३-५२ || मातृकां विलिखेद् बाह्ये सहद्वयविदर्भिताम् | एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद || २३-५३ || त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः | ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् || २३-५४ || स्राकारग्रथितां चापि मातृकां बहिरालिखेत् | एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता || २३-५५ || अराणि शतमस्य स्युर्विधानं तस्य मे शृणु | वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् || २३-५६ || सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु | अराणि पञ्च पञ्चैव क्षेत्रमेकैकमालिखेत् || २३-५७ || अराणि शतमेवं स्युर्विधानं तस्य मे शृणु | गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् || २३-५८ || रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके | रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा || २३-५९ || विलिखेदरगायत्रीं गायत्र्यादौ समाहितः | अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् || २३-६० || अनुष्टुभमराणां चानुष्टुभैव समालिखेत् | प्. २०६) प्रागादिक्रमयोगेन यावदीशानगोचरम् || २३-६१ || तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः | शतारीयं महापुण्या सा ब्रह्मास्त्रमयी परा || २३-६२ || पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया | ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा || २३-६३ || आन्तरं नेमि भागं तु गायत्र्या कल्पयेत् सुधीः | आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया || २३-६४ || मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः | अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् || २३-६५ || त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया | विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः || २३-६६ || तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् | शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् || २३-६७ || फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् | त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम् || २३-६८ || नानास्त्रग्रामसंभिन्नं ब्रह्मज्योतिरनामयम् | ब्रह्मचक्रम् अस्माच्चक्राद् बहिः पञ्च होतारः सग्रहाः स्मृताः || २३-६९ || संभाराः पत्नयश्चैव दक्षिणा हृदयानि च | प्. २०७) तद्बहिः शतरुद्राणि पञ्च ब्रह्माणि तद्बहिः || २३-७० || त्वरितां तद्बहिश्चैव सूक्तं पौरुषमेव च | श्रीसूक्तं तद्बहिश्चैव गायत्रीं व्याहृतित्रयम् || २३-७१ || प्रणवं चेति परितः पङ्क्तीरेताः क्रमाल्लिखेत् | एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम् || २३-७२ || सर्वदुःखोपशमनं सर्वपापनिबर्हणम् | स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा || २३-७३ || सहस्रारमातृकाचक्रम् बहिः प्रवर्तते चास्मान्मातृकाचक्रमुत्तमम् | सोमसूर्यौर्वबिन्दूनां कूटं तु परितो लिखेत् || २३-७४ || तारतारानुताराभिर्ग्रथितं मन्त्रनायकम् | तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः || २३-७५ || नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान् | मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् || २३-७६ || एतदक्षं समुद्दिष्टं मातृकाचक्रसंभवम् | तारतारानुताराभिर्वर्णमातृकयापि च || २३-७७ || ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् | स्राकारग्रथितां चापि मातृकां बहिरालिखेत् || २३-७८ || प्. २०८) एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा | अराण्यस्य सहस्रं स्युस्तद्विधानमिदं शृणु || २३-७९ || पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत् | पञ्च पञ्चाशतं कुर्यादराणि प्रतिभागशः || २३-८० || पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम् | तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा || २३-८१ || चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः | आदिद्विसप्तसंभिन्नैः काद्यैः क्षान्तैश्च वर्णकैः || २३-८२ || त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः | तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः || २३-८३ || अराणि कल्पयेदेवं सहस्रं तद्विधिं शृणु | रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके || २३-८४ || रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा | प्रागादिक्रमयोगेन लिखेदरसहस्रकम् || २३-८५ || सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा | ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं संप्रचक्षते || २३-८६ || करालविबुधाख्यस्था माया व्यापिसमन्विता | कामराजमयं बीजं सोमौर्वव्यापिसंयुता || २३-८७ || प्. २०९) बीजं सारस्वतमिदं वाग्भवाद्या इमे त्रयः | कालानलस्थकमलभास्करानिलगामिनी || २३-८८ || माया व्यापिसमायुक्ता मातृकाबीजमादिमम् | अशेषभुवनाधारसूर्यानलविहारिणी || २३-८९ || पञ्चबिन्दुर्व्यापियुता द्वितीयं बीजमुच्यते | सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः || २३-९० || तृतीयं बीजमुद्दिष्टं चतुर्थमपि मे शृणु | सोमतालाङ्कसूक्ष्मस्थकालपावकगोपना || २३-९१ || कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम् | बीजानीमानि चत्वारि मातृकायां महामुने || २३-९२ || तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः | अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे || २३-९३ || मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम् | विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् || २३-९४ || बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः | फट्कारग्रथितां चापि मातृकां प्रधिमालिखेत् || २३-९५ || एतत् तन्मातृकाचक्रं यत्र सर्वं प्रतिष्ठितम् | प्. २१०) यद्बीजं मातृकाक्षाद्यं तद्बहिः प्रधिमालिखेत् || २३-९६ || ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम् | परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् || २३-९७ || तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम् | तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः || २३-९८ || आचक्रादीनि चाङ्गानि तद्बहिः परितो लिखेत् | तद्बहिश्चापि दिग्बन्धं तस्य रूपमिदं शृणु || २३-९९ || पुरुषाय ततः स्वाहा दिङ्नामामर्षणं ततः | सहेति च ततः पश्चाद्बन्धयामीति दिग्गतम् || २३-१०० || आत्मने च ततः स्वाहा विदिङ्नामाप्यमर्षणम् | सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् || २३-१०१ || विलिखेच्चक्रगायत्रीमग्निप्राकारमन्ततः | आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् || २३-१०२ || वायुबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् | वह्निबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् || २३-१०३ || आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम् | तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् || २३-१०४ || प्राणः सूक्ष्मोऽनलश्चैव वारुणः पुरुषेश्वरः | प्. २११) सव्यापिनः क्रमादेतद् व्योमादेर्बीजपञ्चकम् || २३-१०५ || अनलः कमलश्चैव भास्करो मर्दनस्तथा | अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे || २३-१०६ || सव्यापिनः स्म्र्तं बीजं चिन्तामणिरिदं परम् | परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका || २३-१०७ || सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा | सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् || २३-१०८ || योनिं सुदर्शनस्याथ वेष्टयेत् तारया बहिः | सोमः सूर्यस्ततः सोमः कालपावकयोर्द्वयम् || २३-१०९ || सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम् | एतत् सौदर्शनं रूपं कालानलसमद्युति || २३-११० || शमयेत् कूटमेतद्वै तारयामृतरूपया | अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने | वैष्णवं परमं तेजो ध्याहि चक्रमिदं सदा || २३-१११ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः || २३ || आदितः श्लोकाः १४१५ यन्त्रदेवताध्याननिरूपणं नाम चतुर्विंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || उक्तानामष्टानां चक्राणां संक्षेपेण फलकथनम् अहिर्बुध्न्यः सोमसूर्यदहनप्रभोज्ज्वलं चक्रमेतदुदितं महामुने | वाङ्मयं सकलमन्त्रसंमितं शब्दशब्द्यमखिलं यदुद्गतम् || २४-१ || ब्रह्मचक्रमुदितं यदान्तरं केवलं विमलधीप्रदं मुने | विष्णुचक्रमुदितं यदद्भुतं व्याप्तिकान्तिमतिविक्रमप्रदम् || २४-२ || यत् तृतीयमुदितं महाद्भुतं चक्रमुज्ज्वलयशोऽर्थदं तु तत् | यत्तु चक्रमुदितं तुरीयकं मोक्षदं मुनिगणोदितं मुने || २४-३ || प्. २१३) पञ्चमं विजयदायि कीर्तिदं षष्ठमुग्रगदमृत्युनाशनम् | ब्रह्मवर्चसविधायि सप्तमं संपदर्थविजयार्थमष्टमम् || २४-४ || विस्तरेण तन्महिमवर्णनस्याशक्त्यत्वम् एकैकशोऽल्पश इदं गदितं फलं ते चक्राष्टके सकलयोगिमुनीन्द्रवन्द्ये | वर्षायुतैर्बहुभिरप्यखिलात्मकस्य शक्या न विस्तृतिरमुष्य मयाभिधातुम् || २४-५ || मन्त्राक्षरप्रथितभावविभेदपूर्वं मन्त्री यजेत विधिवन्मनुदेवतास्ताः | आकारशक्तिपरिवारविभूषणास्त्र- वीर्यप्रभावविषयैश्च विचिन्तयेत् ताः || २४-६ || तत्तच्चक्रदेवतास्वरूपतद्ध्यानादिप्रपञ्चनम् आद्यं निरञ्जनमशेषजगत्प्रसूति- त्राणप्रमाथनियमोद्यदनुग्रहस्थम् | संपूर्णशक्तिमतरङ्गमहार्णवाभं ध्यायेद्धरिं प्रणवगोचरमादिचक्रे || २४-७ || प्. २१४) श्वेतं प्रसन्नवदनं कमलायताक्षं पीताम्बरं पृथुलवक्षसमात्मयोनिम् | पीनोरुदीर्घभुजबृन्दधृतारिशङ्ख- कौमोदकीसरसिजं खलु विष्णुचक्रे || २४-८ || श्यामं किरीटिनमुदारचतुर्भुजस्थ- कौमोदकीकमलवारिजवर्यचक्रम् | नारायणं नयननन्दनमादिदेवं ध्यायेच्छ्रिया सह तृतीयपदस्थचक्रे || २४-९ || कुन्देन्दुगौरमरविन्ददलायताक्षं शुद्धाक्षमालममलोद्यतबोधमुद्रम् | बाहुद्वयीविधृतचक्रविशुद्धशङ्खं तं वासुदेवमिति चिन्तय तुर्यचक्रे || २४-१० || शङ्खारिपङ्कजगदाङ्कुशपाशशार्ङ्ग- सौनन्दकान् दधतमष्टभिरुग्रहस्तैः | तार्क्ष्यस्थितं रजतशैलनिभं पुराणं संचिन्तयेदजितचक्रगतं पुमांसम् || २४-११ || क्रूरोग्रवक्रनखकोटिनिकृत्तदैत्य- वक्षःस्थलोच्चलितशोणितदिग्धदेहम् | घोरप्रकारनयनत्रयदुर्निरीक्षं षष्ठे विचिन्तय मुने नरसिंहमीशम् || २४-१२ || प्. २१५) सोमाग्निसूर्यकिरणोद्गमपुञ्जकुञ्ज- मध्यस्थितं विधृतपद्मगदारिशङ्खम् | छन्दःस्थितं भुवनकारणमप्रमेयं श्रीशं विचिन्तय मुने पुरुषं पुराणम् || २४-१३ || मातृकाचक्रे लक्ष्म्या ध्येयत्वम् गोक्षीरशङ्खहिमदीधितिदेवसिन्धु- कुन्दप्रभाविमलपङ्कजशङ्खहस्ता | स्मेरप्रसन्नवदना कमलायताक्षी ध्येया स्वचक्रभवनोपरि मातृका सा || २४-१४ || आलोलशूलदशकं त्रियुगाधिकं स्वै- र्हस्तैर्द्विरष्टभिरथो दधती जपाभा | चिन्तामणिस्थितिमती नयनत्रयाढ्या शक्तिर्हरेरिति मुने मनसा विचिन्त्या || २४-१५ || पूर्णेन्दुशीतलरुचिर्धृतबोधमुद्रा बाह्वन्तरस्थनिजबोधनपुस्तकाढ्या | देवी परा परमपूरुषदिव्यशक्ति- श्चिन्त्या प्रसन्नवदना सरसीरुहाक्षी || २४-१६ || पद्मारुणाभयवराङ्कुशपाशहस्ता रक्ताम्बरा विपुलवारिजपत्रनेत्रा | प्. २१६) सूक्ष्मप्रभास्थितपरावरतत्त्वजाता चिन्त्यादिशक्तिरपि सा च परावराख्या || २४-१७ || बाहुस्थपाशवलिताखिलजीववर्गा बन्धूकपद्मकुसुमारुणदेहकान्तिः | पीनस्तनी मदविघूर्णितनेत्रपद्मा लक्ष्मीशपार्श्वनिलयाखिलदेवतेयम् || २४-१८ || वक्राग्रनासिनिशिताङ्कुशकीलितेन नम्रेण जीवनिकरेण समीड्यमाना | दिव्याङ्कुशस्थितिमती हरिशक्तिराद्या ध्येया समाधिनिरतेन महाप्रभावा || २४-१९ || अङ्गमन्त्रदेवतातद्ध्यानादिप्रपञ्चनम् अङ्गं तु चक्रमयदेवसमानरूप- माचक्रपूर्वमखिलं गदितं यदादौ | गायत्र्यपि ज्वलितपावकतुल्यवर्णा चक्रेशतुल्यविभवा विपुलस्तनाढ्या || २४-२० || ज्वालाकुलद्रुतसमस्तसुरारिवर्गं प्राकारमग्निमयमेव वदन्ति सन्तः | प्. २१७) व्योमस्थशक्तिरपि सूर्यसहस्रमाला नीलाम्बुजद्युतिमती मनसा विचिन्त्या || २४-२१ || मालां चतुर्गतिमयीं वपुषा दधाना वायुस्थशक्तिरपि धूम्रतनुर्विचिन्त्या | कालानलाख्यतरुणार्कसहस्रमाला तेजःस्थशक्तिरपि रक्ततनुर्विचिन्त्या || २४-२२ || पीयूषरूपरचना सलिलस्थशक्ति- र्ध्येया वराहनियुतायुतकॢप्तमाला | उत्तप्तकाञ्चनरुचिः पुरुषेश्वराढ्या भूशक्तिरादिपुरुषस्य विचिन्तनीया || २४-२३ || सुदर्शनमयसर्वचक्रकूटध्यानम् कालानलायुतसहस्रसमानरूपं कूटं सुदर्शनमयं मनसा विचिन्त्यम् | तापातुरक्वथदशेषसुरारिमेदो- निष्यन्दमेदुरितदीप्तिशिखाजटालम् || २४-२४ || सौदर्शनसर्वमन्त्रमूलभूतशक्तिध्यानम् सूर्येन्दुवह्निनयना तरुणार्कवर्णा व्याप्य स्थिता जगदशेषमशेषवन्द्या | प्. २१८) चक्राणि बाहुनिवहैर्दधती सहस्रं योनिः सुदर्शनमनोरिति चिन्तनीया || २४-२५ || उक्तेषु यन्त्रेषु द्विजस्यैवाधिकारः लेशतो गदितमेतदुदारं रक्षणं सकललोकहिताय | भूपतेरनुमतो द्विजवर्यो भावयेदनिशमेतदतन्द्री || २४-२६ || उक्तयन्त्राणामानुषङ्गिकफलपूर्वकमुक्तिरूपपरमफल- साधनत्वम् नाद्रवन्ति दुरितानि कदाचि- द्विद्रवन्ति निखिला ग्रहरोगाः | वर्धते वसुमती बहुसस्या न त्रिवर्गविहतिर्मनुजानाम् || २४-२७ || धर्मार्थकामबहुलाश्चिरजीविनश्च हीनाश्च पाप्मभिरुदारयशःप्रतापाः | आराध्य शास्त्रनिरता विहितक्रियाभि- रन्ते विशन्ति विमलाः परमं पुमांसम् || २४-२८ || सौदर्शनमन्त्रेष्वभिक्रमनाशाद्यभावः प्. २१९) दिव्यो विधिः कथित एष मुने समस्तो विप्रैर्नृपैर्धृतसमाधिभिरत्र भाव्यम् | अस्मिन् समाधिविरही ललितक्रियोऽपि यत्नोचितं लभत एव फलं मनुष्यः || २४-२९ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां यन्त्रदेवताध्याननिरूपणं नाम चतुर्विंशोऽध्यायः || २४ || आदितः श्लोकाः १४४४ सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || यन्त्रवैभवं प्रदर्शयितुमुक्तार्थानुवादः नारदः भगवन् सम्यगाख्यातं विस्तरेण यथातथम् | यत्कारणं यदाधारं यत्प्रमाणमिदं जगत् || २५-१ || तथा धर्मार्थकामानां स्वरूपं साधनं तथा | परविद्या तथा विद्या तथा चाध्यात्मसंज्ञिता || २५-२ || मुक्तिश्च परमा प्रोक्ता बन्धस्तत्साधनं तथा | वर्णाश्रमविभागश्च तद्धर्माश्च विशेषतः || २५-३ || सर्वेषामेव वर्णानां राज्ञां रक्षाविधिस्तथा | राज्ञां तु रक्षणविधिर्दिव्योऽयं वर्णितस्तथा || २५-४ || कथं किल कलौ प्राप्ते राज्ञां रक्षाविधिर्भवेत् | संक्षेपतः कलिस्वरूपकथनम् न यक्ष्यन्ति न दास्यन्ति न होष्यन्ति द्विजातयः || २५-५ || प्. २२१) न सर्वे स्वेषु धर्मेषु करिष्यन्ति मतिं कलौ | शक्तयः सर्वमन्त्राणां प्रयास्यन्ति तिरस्कृतिम् || २५-६ || निर्वीर्याश्च भविष्यन्ति राजानः सत्त्ववर्जिताः | निर्धना हृतराज्याश्च दस्युभिः परिपीडिताः || २५-७ || अल्पक्षीरा भविष्यन्ति गावः प्राप्ते कलौ युगे | प्रजाः क्षुधार्ताश्च कलाववग्रहनिपीडिताः || २५-८ || पाषण्डधर्मनिरता भगवन्तं जनार्दनम् | निन्दनादीन् करिष्यन्ति तमःप्राया ह्यवेदिनः || २५-९ || तादृशे कलौ राज्ञां रक्षाविध्युपायप्रश्नः इत्थं दोषास्पदे काले राज्ञां रक्षाविधिः कथम् | संपत्स्यते शक्तिहीनैर्द्विजैः सत्त्वविवर्जितैः || २५-१० || येनोपायेन रक्षा स्यात्तं मे ब्रूहि सुनिश्चितम् | सर्वज्ञ त्वदृते वक्तुं कः शक्नोति महेश्वर || २५-११ || तत्प्रतिवचनारम्भः अहिर्बुध्न्यः साधु साधु यदेतत् त्वं पृष्टवानसि नारद | सत्यमेतत् कलौ रक्षाविधिर्मन्त्रैर्न युज्यते || २५-१२ || तथापि भक्त इति ते कथयामि शृणुष्व तम् | प्. २२२) सर्वेषामेव भूतानां राज्ञां चैव विशेषतः || २५-१३ || रक्षाविधिं परं गुह्यं तन्त्राणां सारमुत्तमम् | स्वकृतपितामहशिरश्छेदमहापापप्रशमाय नारायणात् सुदर्शनयन्त्रप्राप्तिकथनम् मम नारायणेनोक्तं पुण्ये बदरिकाश्रमे || २५-१४ || पितामहशिरश्छेदमहापातकशान्तये | सर्वबाधाप्रशमनं सर्वदुःखनिवारणम् || २५-१५ || तन्महिमसंक्षेपः सर्वसिद्धिप्रदं सर्वसंपदामेककारणम् | पराभिचारशमनं परराज्यप्रदं शुभम् || २५-१६ || कलिदोषापहरणं सर्वशत्रुनिबर्हणम् | यस्य संस्मरणेनैव नॄणां नश्यन्ति शत्रवः || २५-१७ || दस्यवो नष्टविषया विद्रवन्ति दिशो दश | यन्त्रं यस्य गृहे न्यस्तं तस्य सर्वं प्रसिध्यति || २५-१८ || यो राजा यन्त्रमेतत्तु सादरं कारयेद् गृहे | तस्य भूमण्डलं सर्वं भवेद् वश्यं न संशयः || २५-१९ || सौदर्शनस्य यन्त्रस्य माहात्म्यं वर्णितं मया | सुदर्शननारसिंहयन्त्रफलप्रदर्शनम् प्. २२३) सुदर्शनेन युक्तस्य नारसिंहस्य यन्त्रकम् || २५-२० || यः कारयति तस्यान्यो लोको वश्यो भवेदपि | एतल्लेखनमात्रेण सर्वं संपद्यते नृणाम् || २५-२१ || विष्णुपञ्जरयन्त्रफलप्रदर्शनम् विष्णुपञ्जरयन्त्रस्य करणेनैव देवताः | सर्वाः प्रसीदन्ति सदा किं पुनर्मनुजादयः || २५-२२ || समुदितयन्त्रत्रयफलस्याशक्यवर्णनत्वम् एषां त्रयाणां यन्त्राणां समाहारफलं मया | वक्तुं न शक्यते सर्वं सर्वज्ञेनापि नारद || २५-२३ || महासुदर्शनयन्त्रफलम् महासुदर्शनस्येह यन्त्रस्य करणाद् द्विजः | त्रैलोक्यं समवाप्नोति किं पुनर्मण्डलं भुवः || २५-२४ || एकत्र कल्पितसुदर्शननारसिंह- मन्यत्र केवलसुदर्शनमुज्ज्वलाङ्गम् | संकल्पितोभयमुखं घटितास्त्रजालं श्रीविष्णुपञ्जरगतं युतमन्त्रजालम् || २५-२५ || प्. २२४) माहासुदर्शनमपुण्यकृतां जनाना- मप्राप्यमाश्रितसुखप्रदमेकयन्त्रम् | तेजोमयं सकललोकनमस्कृतं यत् तत् कारयेत् सकललोकजयं यदीच्छेत् || २५-२६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनयन्त्रवैभववर्णनं नाम पञ्चविंशोऽध्यायः || २५ || आदितः श्लोकाः १४७० महासुदर्शनयन्त्रलक्षणं नाम षड्विंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || विस्तरेण महासुदर्शनयन्त्रलक्षणप्रश्नः नारदः विस्तरेणास्य यन्त्रस्य संस्थानं लक्षणं तथा | श्रोतुमिच्छामि भगवंस्तन्ममाचक्ष्व पृच्छतः || २६-१ || तत्प्रतिवचनप्रतिज्ञा अहिर्बुध्न्यः विस्तरेण प्रवक्ष्यामि स्वरूपं लक्षणं तथा | अस्य यन्त्रस्य देवर्षे तन्मे कथयतः शृणु || २६-२ || यन्त्रनिर्माणद्रव्याणि रजतेन सुवर्णेन लोहैर्वा शिलयापि वा | यथाधिकारं यन्त्रस्य कुर्यादर्चां तु साधकः || २६-३ || यन्त्रलेखनसाधनद्रव्याणि धातुचन्दनकर्पूरकुङ्कुमागुरुजै रसैः | सुवर्णसूच्या यदि वा यन्त्रमेतल्लिखेत् पटे || २६-४ || प्. २२६) यन्त्रमध्ये सौदर्शनपुरुषलेखनम् चन्द्रमण्डलमध्ये तु तारं कुर्यात् समाहितः | तस्य मध्ये लिखेद् देवं रक्तवर्णं सुदर्शनम् || २६-५ || तत्स्वरूपवर्णनम् पिङ्गाक्षं पिङ्गकेशाढ्यं रक्ताम्बरधरं विभुम् | युक्तं षोडशभिर्हस्तैरष्टाभिर्वा महाद्युतिम् || २६-६ || पाशाङ्कुशाब्जमुसलधनुःशङ्खगदारिभिः | भीषणैरायुधवरैरुपेतं जयिनां वरम् || २६-७ || तद्विष्णोः परमं रूपं नित्यं तैजसविग्रहम् | दंष्ट्रानिष्ठ्यूतसप्तार्चिर्ज्वालापल्लविताननम् || २६-८ || भूषणैर्भूषितं चित्रैर्भीषणं रोमहर्षणम् | स्वतेजसा जगत् सर्वं पूरयन्तं महाबलम् || २६-९ || निर्भिद्यमानदैतेयशोणिताशनलम्पटम् | उद्यत्प्रद्योतनशतप्रख्यं विख्यातपौरुषम् || २६-१० || मनस्तत्त्वेन सततं संश्रितं वेगवत्तया | नारायणकराम्भोजसेवारसविशारदम् || २६-११ || जवेन विष्णुचिन्तायाः परमं मार्गदर्शिनम् | स्मृत्यैव स्वानुरक्तानां दृष्टादृष्टार्थसाधनम् || २६-१२ || स्वभक्तप्रत्यनीकानां मारणं सुरपूजितम् | प्. २२७) संस्तूयमानचरितं सिद्धगन्धर्वदानवैः || २६-१३ || तस्य सर्वशरण्यत्वं निर्दोषत्वं कल्याणगुणाकरत्वं च भक्तारिभञ्जनपरं शरण्यं शरणार्थिनाम् | नित्यनिःसीमनिर्दोषकल्याणगुणसागरम् || २६-१४ || तत्पादप्रान्ते साधकनामलेखनम् एवंभूतं समालिख्य सदानन्दं सुदर्शनम् | तत्पादपद्मपर्यन्ते साधकं नाम विन्यसेत् || २६-१५ || ततः पर्यन्ते षट्कोणचक्रलेखनम् इन्दुबिम्बस्य पर्यन्ते षट्कोणं चक्रमालिखेत् | आग्नेयममितप्रख्यममोघं सर्वसाधकम् || २६-१६ || तत्र षडक्षरविन्यासः प्राच्यादिदिक्षु कोणेषु षड् वर्णान् विन्यसेन्मनोः | अङ्गमन्त्रन्यासः षट्सु कोणान्तरालेषु त्वङ्गमन्त्रान् न्यसेत् क्रमात् || २६-१७ || ततश्चतुर्दलपद्मलेखनम् अस्माद्बहिस्तथा पद्मं चतुर्दलसमन्वितम् | तत्र न्यसनीया वर्णाः सबिन्दुवर्म फट् चास्य दलेष्वेषु क्रमान्न्यसेत् || २६-१८ || अन्तरालेष्वन्तःस्थवर्णविन्यासः प्. २२८) दलान्तरालेष्वन्तःस्थान् विन्यसेत् साधकस्तथा | ततः षोडशकेसराष्टदलपद्मलेखनम् बाह्ये तत्राष्टपत्राब्जमन्तः षोडशकेसरम् || २६-१९ || केसरेषु षोडशस्वरविन्यासः केसरेषु क्रमादस्य विलिखेत् षोडश स्वरान् | दलेष्वष्टाक्षरमन्त्रन्यासः अष्टाक्षरं महामन्त्रं दलेष्वस्य समालिखेत् || २६-२० || द्वात्रिंशत्केसरषोडशदलपद्मलेखनम् द्वात्रिंशत्केसरं चास्य बहिः षोडशपत्रकम् | केसरेषु कादिसान्तवर्णविन्यासः ककारादि सकारान्तं केसरेष्वस्य चालिखेत् || २६-२१ || दलेषु षोडशार्णमन्त्रवर्णन्यासः दलेष्वस्य लिखेन्मन्त्रं षोडशार्णं तु वैष्णवम् | द्वात्रिंशत्केसरदलपद्मलेखनम् द्वात्रिंशत्केसरदलं बाह्ये तस्य समालिखेत् || २६-२२ || केसरेषु वाराहानुष्टुभमन्त्रवर्णन्यासः केसरेष्वस्य पद्मस्य प्राच्यादिषु यथाक्रमम् | प्. २२९) मन्त्रमानुष्टुभं सम्यग्वाराहं विलिखेत् परम् || २६-२३ || दलेषु नारसिंहानुष्टुभमन्त्रवर्णन्यासः द्वात्रिंशति दलेष्वस्य नारसिंहं क्रमाल्लिखेत् | आनुष्टुभं महामन्त्रममोघं सर्वसाधकम् || २६-२४ || चतुःषष्टिदलपद्मलेखनम् तस्य बाह्ये लिखेत् पद्मं चतुःषष्टिदलैर्युतम् | तद्दलेषु पातालनारसिंहमन्त्रन्यासः पातालनारसिंहाख्यं तद्दलेषु न्यसेन्मनुम् || २६-२५ || पुनरष्टदलपद्मलेखनम् पुनश्च पद्मं विन्यस्य दलैरष्टभिरावृतम् | तद्दलेष्वष्टाक्षरनारसिंहमन्त्रन्यासः अष्टाक्षरं नारसिंहं तद्दलेषु समालिखेत् || २६-२६ || तद्बहिर्माहेन्द्रमण्डलकल्पनम् तद्बाह्ये मण्डलं कुर्यान्माहेन्द्रं वज्रभूषितम् | जाज्वल्यमानं स्वेनैव सर्वालंकारमण्डितम् || २६-२७ || तद्बहिः साधकनाम्ना सह तद्बीजन्यासः तस्य बाह्ये महादिक्षु प्रागादिषु यथाक्रमम् | प्. २३०) तद्बीजं विन्यसेद्धीमान्निजनाम्ना समन्वितम् || २६-२८ || बहिष्कोणेष्वन्तःस्थवर्णन्यासः बहिष्कोणेषु चतुर्षु तथान्तःस्थान् प्रकल्पयेत् | कोणान्तरालेषु तद्बीजन्यासः कोणाभ्यन्तरभागेषु तद्बीजं विन्यसेत् पुनः || २६-२९ || तत्परितः स्वराणां प्रातिलोम्येन विन्यासः परितस्तत् स्वरान् सर्वान् प्रातिलोम्येन चालिखेत् | तत्परितः सादिकान्ताक्षरविन्यासः सकारादि ककारान्तं विन्यसेत् परितस्तथा || २६-३० || स्वनाम्ना पाशाङ्कुशाभ्यां चावेष्टनम् विदर्भितं स्वनाम्नैव परितोऽन्त्ययुगं न्यसेत् | पाशेनावेष्टयेदेतदङ्कुशेन तथातुरः || २६-३१ || भूपुरकल्पनम् पुटितं भूपुरं तस्य बाह्ये कुर्यादतन्द्रितः | समन्तात् केशवादिमूर्तिन्यासः केशवादीन् मूर्तिमतः समन्तादस्य विन्यसेत् || २६-३२ || केशवस्वरूपवर्णनम् प्. २३१) तप्तजाम्बूनदप्रख्यं पुण्डरीकायतेक्षणम् | अपारकरुणं पद्मशङ्खचक्रगदाधरम् || २६-३३ || पीताम्बरधरं देवं वनमालाविभूषितम् | हारकेयूरकटककुण्डलैरुपशोभितम् || २६-३४ || चतुर्बाहुमुदाराङ्गं प्रसन्नवदनं विभुम् | प्रागादि विन्यसेद् देवं केशवं क्लेशनाशनम् || २६-३५ || नारायणस्वरूपवर्णनम् शङ्खपद्मगदाचक्रधरं नीलाम्बुदच्छविम् | सर्वालंकारसंयुक्तं कुर्यान्नारायणं ततः || २६-३६ || माधवस्वरूपवर्णनम् पद्मकौमोदकीशङ्खचक्रधारिणमव्ययम् | देवमिन्दीवरश्यामं माधवं भावयेत् ततः || २६-३७ || गोविन्दस्वरूपवर्णनम् चक्रकौमोदकीशङ्खपद्मायुधविराजितम् | इन्दुबिम्बनिभं कुर्याद् गोविन्दममितौजसम् || २६-३८ || विष्णुस्वरूपवर्णनम् गदाब्जशङ्खचक्रास्त्रधरं परमभूषितम् | विष्णुं विश्वपतिं कुर्यात् पद्मकिञ्जल्कसंनिभम् || २६-३९ || मधुसूदनस्वरूपवर्णनम् प्. २३२) चक्रशङ्खाम्बुजगदाधारिणं करुणानिधिम् | रक्तपद्मदलप्रख्यं भावयेन्मधुसूदनम् || २६-४० || त्रिविक्रमस्वरूपवर्णनम् चक्रकौमोदकीपद्मशङ्खसेवितमीश्वरम् | उज्ज्वलत्कनकप्रख्यं तं कुर्वीत त्रिविक्रमम् || २६-४१ || वामनस्वरूपवर्णनम् शङ्खचक्रगदापद्मधरं परमभूषितम् | तरुणादित्यसंकाशं वामनं भावयेत् ततः || २६-४२ || श्रीधरस्वरूपवर्णनम् पद्मचक्रगदाशङ्खधरं सद्गुणसागरम् | पुण्डरीकनिभं देवं श्रीधरं परिकल्पयेत् || २६-४३ || हृषीकेशस्वरूपवर्णनम् गदासुदर्शनयुते शङ्खपद्मे च बिभ्रतम् | विद्युत्प्रभं हृषीकेशं कुर्वीत कमलेक्षणम् || २६-४४ || पद्मनाभस्वरूपवर्णनम् शङ्खपद्मे गदाचक्रे तथा बिभ्राणमुज्ज्वलम् | सहस्रादित्यसंकाशं पद्मनाभं तु कारयेत् || २६-४५ || दामोदरस्वरूपवर्णनम् पद्मशङ्खगदाचक्रधरं बन्धूकसंनिभम् | प्. २३३) भक्त्येकसुलभं देवं दामोदरमथ स्मरेत् || २६-४६ || नमोऽन्तानां तत्तन्नाम्नामपि लेखनम् एवं क्रमेण न्यस्यैतानेषां नामानि च न्यसेत् | नमोऽन्तान्यमुकं रक्ष रक्षेति च समन्ततः || २६-४७ || प्रागादिषु प्रादक्षिण्येन बीजाक्षरन्यासः यं शं रं षं तथा लं सं वं हं चेति द्वयं द्वयम् | प्राच्यादिषु महादिक्षु प्रादक्षिण्येन विन्यसेत् || २६-४८ || ऐशान्यादिष्वप्रादक्षिण्येन बीजाक्षरन्यासः यं शं रं षं तथा लं सं वं हं चेति युगं युगम् | ऐशान्यादिषु कोणेषु विन्यसेदप्रदक्षिणम् || २६-४९ || पुनः पाशाङ्कुशाभ्यां वेष्टनम् पाशेन तु समावेष्ट्य अङ्कुशेनापि वेष्टयेत् | सर्वमेतत् सबीजेन हृल्लेखमनुना वृतम् || २६-५० || प्रागादिचतुर्दिक्षु विष्णुविन्यासस्तेषामायुधानि च प्रागादिषु चतुर्दिक्षु विन्यसेद् विष्णुमव्ययम् | चक्रकौमोदकीशार्ङ्गखड्गैर्युक्तं यथाक्रमम् || २६-५१ || साधारणौ च सर्वेषां शङ्खचक्रौ वरायुधौ | आग्नेयादिकोणेषु हृषीकेशन्यासः प्. २३४) आग्नेयादिषु कोणेषु हृषीकेशं ततो न्यसेत् || २६-५२ || तेषामायुधविशेषाः शङ्खं हलं च मुसलं शूलं चैतेषु धारयेत् | कोणान्तरालेष्वष्टसु जनार्दनविन्यासः विकोणेष्वष्टसु तथा जनार्दनमथो न्यसेत् || २६-५३ || तेषामायुधविशेषाः दण्डं कुन्तं तथा शक्तिं पाशमङ्कुशमेव च | वज्रं तथैव परशुं तथा शतमुखानलम् || २६-५४ || करेष्वमीषामेतानि विलिखेत्तु यथाक्रमम् | तत्तत्पार्श्वेषु तत्तत्परिवारलेखनम् प्रत्येकं परिवारांस्तु तेषां पार्श्वेषु विन्यसेत् || २६-५५ || ततो भूमौ भूम्या सह पुरुषोत्तमस्मरणम् वराहरूपिणं देवं शङ्खचक्रगदाधरम् भूमौ च सहितं भूम्या संस्मरेत् पुरुषोत्तमम् || २६-५६ || अम्बरे नरसिंहस्मरणम् अम्बरे नारसिंहं तु चिन्तयेदमितौजसम् | भीषणं घटितानेकभूषणं दारितासुरम् || २६-५७ || प्रागादिषु चक्रगदाशार्ङ्गखड्गस्मरणम् प्. २३५) प्राच्यां दिशि महाज्वालागतं चक्रं स्मरेद्बुधः | दक्षिणस्यां दिशि तथा स्मरेज्ज्वालागतां गदाम् || २६-५८ || प्रतीच्यां शार्ङ्गमत्युग्रज्वालामध्यगतं स्मरेत् | उत्तरस्यां दिशि तथा स्मरेत् खड्गं सुदारुणम् || २६-५९ || अस्य यन्त्रस्यापराङ्गकल्पनाय मध्ये चतुर्विंशत्यरचक्रकल्पनम् अपराङ्गेऽथ यन्त्रस्य मध्ये चक्राब्जसंस्थितम् | चतुर्विंशत्यरं चक्रं सुनेमि रुचिराकृति || २६-६० || तन्मध्ये द्वादशदलपद्मलेखनम् मध्येचक्रं न्यसेत् पद्मं युक्तं द्वादशभिर्दलैः | तत्कर्णिकायामाग्नेयमण्डलन्यासः चक्राब्जकर्णिकास्थाने न्यसेदाग्नेयमण्डलम् || २६-६१ || तन्मध्ये योगनृसिंहलेखनम् तन्मध्ये योगपट्टेन पिनद्धाङ्गं सनातनम् | नारसिंहं चतुर्बाहुं चतुश्चक्रधरं परम् || २६-६२ || समासीनमशोकस्य मूले कालानलद्युतिम् | सर्वाभरणसंयुक्तं सर्वभक्तार्तिहारिणम् || २६-६३ || अपारसंख्यकल्याणगुणपूर्णमहार्णवम् | भक्तानुकम्पिनं नित्यं सर्वलोकैकनायकम् || २६-६४ || तत्पादपर्यन्ते द्वयोस्तद्भृत्ययोर्विन्यासः प्. २३६) एवं विन्यस्य तत्पादपर्यन्ते विन्यसेदुभौ | तदाज्ञाकारिणौ भीमौ नीलनीरदविग्रहौ || २६-६५ || उदग्रकायौ भीमाक्षौ भीमायुधधरौ वरौ | दंष्ट्राकरालवदनौ विन्यसेद् वृत्तलोचनौ || २६-६६ || चक्रस्य प्रागादिष्वष्टशक्तिध्यानम् चिन्तयेदथ चक्रस्य समन्तादष्ट योषितः | ऊर्ध्वमाबद्धकेशाढ्यास्तच्छक्तीः प्राप्तयौवनाः || २६-६७ || सर्वालंकारसंयुक्ता द्विभुजा माल्यधारिणीः | प्राच्यां दिशि जयां देवीं पीतवर्णां विचिन्तयेत् || २६-६८ || आग्नेययां मोहिनीं देवीं श्यामलामायतेक्षणाम् | याम्यामनुस्मरेद् देवीं विजयां कृष्णरूपिणीम् || २६-६९ || रक्तवर्णां तथा देवीं नैर्-ऋत्यां ह्लादिनीं तथा | अजितां पीतवर्णां तु प्रतीच्यां संस्मरेत् पराम् || २६-७० || वायव्यां दिशि मायां तु कृष्णवर्णां सनातनीम् | उदीच्यां रक्तवर्णां तामाशायामपराजिताम् || २६-७१ || ऐशान्यां संस्मरेत् सिद्धिं धूम्रवर्णामतः परम् | यथोक्तलक्षणयन्त्रमहिमा एवमेतन्महायन्त्रं महापातकनाशनम् || २६-७२ || प्. २३७) आयुरारोग्यधनदं पुत्रमित्रकलत्रदम् | सर्वविघ्नोपशमनं सर्वदुष्टनिवारणम् || २६-७३ || यो यदर्थी लिखेद्यन्त्रं तत् तदस्य प्रयच्छति | मणिविद्रुममुक्ताढ्यं कुर्याद् यन्त्रं हिरण्मयम् || २६-७४ || राजा चेद्राज्यमाप्नोति निष्कण्टकमनामयम् | भूर्जपत्रलिखितस्यापि यन्त्रस्य सर्वफलसाधनता भूर्जपत्रे लिखित्वैतत् कुङ्कुमैश्चन्दनेन तु || २६-७५ || यो मर्त्यः शिरसा धत्ते तस्य स्यात् सर्वमीप्सितम् | पिशाचोरगरक्षांसि क्षिप्रं नश्यन्ति तस्य वै || २६-७६ || एतद्यन्त्रशिलाप्रतिष्ठाया मुक्तिसाधनत्वम् शिलाप्रतिष्ठां यः कुर्यादेतस्य जगतीतले | सर्वान् कामानिहावाप्य विष्णुसायुज्यमाप्नुयात् || २६-७७ || लोहादिभिर्यन्त्रप्रतिमानिर्माणफलम् लोहैर्वा रजतेनाथ यः कुर्यात् प्रतिमां बुधः | त्रिवर्गफलमाप्नोति निर्वाणमचिरात् पुनः || २६-७८ || कर्षणादिप्रतिष्ठान्तायतननिर्माणफलम् कर्षणादि प्रतिष्ठान्तं कुर्यादायतनं च यः | आप्नुवन्ति च तद्वंश्याः पुण्यलोकाननुत्तमान् || २६-७९ || भयादिषु यन्त्रस्मरणे फलम् प्. २३८) भयागमे च संग्रामे वादे वा यः स्मरेदिदम् | विजयस्तस्य हस्तस्थो नात्र कार्या विचारणा || २६-८० || त्रिसंध्यं यन्त्रार्चनं मुक्तिसाधनम् अर्चयेद्यस्त्रिसंध्यं वै यन्त्रमेतदनुत्तमम् | तापत्रयविनिर्मुक्तो विष्णुलोके महीयते || २६-८१ || राक्षाविधौ राज्ञां वैशेषिकविध्यारम्भः राज्ञां रक्षाविधाने तु विशेषं शृणु नारद | राज्यार्थी हृतराज्यो वा परिभूतोऽथवा नृपैः || २६-८२ || तत्र प्रथममाचार्यपूजाविधिः सौदर्शनस्य यन्त्रस्य प्रदातारं गुरुं परम् | सर्वेभ्यो ह्यधिकं मत्वा तमभ्यर्च्य महाधनैः || २६-८३ || ततो भगवदाराधनविधिः ततो नारायणं देवं पुण्डरीकायतेक्षणम् | श्यामलं पीतवसनं सर्वाभरणभूषितम् || २६-८४ || आराधयेच्चतुर्बाहुमाचार्योक्तविधानतः | ततो यन्त्रनिर्माणम् तप्तजाम्बूनदमयं मणिविद्रुमचित्रितम् || २६-८५ || सर्वालंकारसंयुक्तं कारयेद्यन्त्रमुत्तमम् | यन्त्रनिर्माणस्य राज्यप्राप्तिहेतुत्वम् प्. २३९) एतत्करणमात्रेण राज्यमाप्नोत्यनामयम् || २६-८६ || प्रतिष्ठापूर्वकार्चनस्य सप्तद्वीपान्तभूमिप्राप्तिहेतुत्वम् प्रतिष्ठाप्यार्चयेदेतत् सादरं सर्वसिद्धिदम् | ततो भूमिमवाप्नोति सप्तद्वीपां सपत्तनाम् || २६-८७ || अन्ततस्त्रैलोक्यपालयितृत्वसिद्धिः वश्या भवन्ति सततं सिद्धगन्धर्वदानवाः | त्रैलोक्यराज्यमखिलं पालयत्यवनीतले || २६-८८ || परकृताभिचारपरावर्तनसिद्धिः अभिचाराः परकृताश्चैनमप्राप्य भीषिताः | प्रविशन्ति प्रयोक्तारमापगेवाचलाहता || २६-८९ || अवग्रहादिपरिहारसिद्धिः अवग्रहाश्च नश्यन्ति शत्रवो विद्रवन्ति च | अपमृत्युमृगव्यालचोररोगादिभिर्भयम् || २६-९० || न तस्य राज्ये भवति विद्यते तत्कुले बलम् | सर्वेषां स्वधर्मप्रवृत्तिसिद्धिः सर्वे स्वेष्वेव धर्मेषु प्रवर्तन्ते सदामुने || २६-९१ || दुर्वाससा शप्तस्येन्द्रस्य यन्त्रेणानेन पुनः स्वपदप्राप्तिः प्. २४०) पुरा दुर्वाससः शापाद्धृतराज्ये शचीपतौ | एतत्प्रसादादखिलं पुनः प्राप त्रिविष्टपम् || २६-९२ || चतुर्मुखस्य भगवत्सकाशाद्यन्त्रप्राप्तिः एतत् पुरा महायन्त्रं ब्रह्मणे प्रोक्तवान् हरिः | चतुर्मुखेन विश्वकर्मणा यन्त्रविमानयोर्निर्मापणम् ब्रह्मा च विश्वकर्माणमाहूयैतदकारयत् || २६-९३ || विमानं च तदारभ्य देवगन्धर्वदानवाः | तदा प्रभृति यन्त्रस्यैव रक्षासाधनत्वम् अनेन रक्षणविधिं चक्रुः पूर्वे नृपास्तथा | तस्माद्राज्ञां च सर्वेषामेष रक्षाविधिः परः || २६-९४ || अध्यायार्थनिगमनम् अभिनवदिननाथप्रोज्ज्वलद्बिम्बतुल्यं कमलभवमुखाद्यैः संश्रितं देवबृन्दैः | परिगतमपि भूतैः पञ्चभिः सेव्यमानं प्रकृतिमहदहंकारैः स्मरेद्यन्त्रराजम् || २६-९५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां महासुदर्शनयन्त्रलक्षणं नाम षड्विशोऽध्यायः || २६ || आदितः श्लोकाः १५६५ धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || वृत्तानुवादपूर्वकं धारकयन्त्रविषयकः प्रश्नः नारदः कथितो यन्त्रराजस्य देवदेवस्य विस्तरः | स्वरूपं साधनं चास्य प्रकारश्च फलं तथा || २७-१ || अद्येदं श्रोतुमिच्छामि भगवान् परमेश्वर | एतदत्यद्भुतं दिव्यं ध्रियते केन भूषणम् || २७-२ || न चास्य धारणे शक्तिं कस्यचित् कलयाम्यहम् | अतिशक्तितयास्येमं संशयं छेत्तुमर्हसि || २७-३ || तत्प्रतिवचनारम्भः अहिर्बुध्न्यः सत्यं न केनचिद्धर्तुं पार्यते तन्महाद्युति | ऋते यन्त्रान्तरादस्माद् देवर्षे शक्तिशालिनः || २७-४ || शृणु तस्य मुनिश्रेष्ठ स्वरूपं वीर्यमद्य वै | प्रथमं माहेन्द्रमण्डलनिर्माणम् प्. २४२) प्रथमं मण्डलं कृत्वा माहेन्द्रं वसुधात्मकम् || २७-५ || सर्वालंकारसंयुक्तं यन्त्रलाञ्छनलाञ्छितम् | तत्कोणेषु भूबीजाक्षरन्यासः भौममेतस्य कोणेषु विन्यसेद् बीजमुत्तमम् || २७-६ || शेषाद्यैरष्टभिर्नागैर्धार्यमाणं समन्ततः | मण्डलप्राग्भागे शेषगुलिकयोर्न्यासः प्राग्भागे मण्डलस्यास्य भीषणौ भीमलोचनौ || २७-७ || विलिखेच्छेषगुलिकौ लोकयन्तौ परस्परम् | दक्षिणभागे वासुकिशङ्खयोः वासुकिं शङ्खपालं च वीक्षमाणौ परस्परम् || २७-८ || दक्षिणस्यां दिशि तथा विन्यसेदस्य साधकः | पश्चिमे तक्षकमहाम्बुजयोः पश्चिमायां लिखेदेवं तौ तक्षकमहाम्बुजौ || २७-९ || उत्तरभागे कार्कोटकाम्बुजयोः कार्कोटकं चाम्बुजं च लिखेदुत्तरतो मुने | तस्य मध्ये महाज्वालामालावर्तविराजितम् || २७-१० || मध्ये वह्निमण्डलकल्पना प्. २४३) कोणसट्कयुतं वह्निमण्डलं बीजसंयुतम् | तन्मध्ये वायुमण्डलविन्यासः समालिख्य च तन्मध्ये वायव्यं मण्डलं लिखेत् || २७-११ || वर्तुलं बिन्दुसंयुक्तं तद्बीजेन समन्वितम् | तन्मध्ये दशारचक्रलेखनम् तन्मध्ये चक्रमतुलं प्रोज्ज्वलन्नेमिमण्डलम् || २७-१२ || अरैर्दशभिराकीर्णं विन्यसेदरिमर्दनम् | अरेषु सुदर्शननारसिंहमन्त्रन्यासः मन्त्रं सौदर्शनस्यास्य नारसिंहस्य विन्यसेत् || २७-१३ || द्वाभ्यां द्वाभ्यां तु वर्णाभ्यामरेषु नवसु क्रमात् | दशमे हनशब्दं तु विन्यसेदरकेऽस्य वै || २७-१४ || चक्रमध्ये अष्टदलपद्मलेखनम् चक्रमध्ये न्यसेत् पद्मं दलैरष्टभिरन्वितम् | कर्णिकाघटितं रम्यं केसरैरुपशोभितम् || २७-१५ || कर्णिकायां प्रणवन्यासः तत्कर्णिकायां विलिखेत् तारं संसारतारकम् | तत्रैवाभीष्टार्थसाध्यनाम्नोर्विलेखनम् अभीष्टमर्थं साध्यस्य नामधेयमतः परम् || २७-१६ || एवं भूतेन धारकयन्त्रेण सकलार्थसिद्धिः प्. २४४) तदेतत् परमं दिव्यं मङ्गलानां च मङ्गलम् | पवित्राणां पवित्रं च चोरपीडानिवारणम् || २७-१७ || सर्वार्थसाधकं घोरं विश्ववन्द्यमनुत्तमम् | यन्त्रेणानेनेन्द्रस्य शत्रुजयप्राप्तिः पुरा देवेषु दैतेयैरभिभूतेषु वासवः || २७-१८ || बृहस्पतिं समाहूय प्रोवाचेदं वचस्तदा | बाधन्ते नितरामस्मानिमे दैतेयदानवाः || २७-१९ || केनोपायेन भगवन् विजेष्यामो महासुरान् | बलहानिः कथं वैषां भविता भगवन् वद || २७-२० || एवं मघवता प्रोक्तः प्रोवाचेदं बृहस्पतिः | सौदर्शननृसिंहस्य यन्त्रस्य करणादिह || २७-२१ || नश्यन्ति शत्रवः सर्वे सुराणां बलसूदन | इत्युक्त्वा स्थापयामास यन्त्रं मघवतः पुरे || २७-२२ || मणिविद्रुममुक्ताढ्यं सौवर्णममितप्रभम् | ततः प्रभृति दैतेया नष्टश्रीका हतत्विषः || २७-२३ || पराजिता विद्रवन्ति दिशो नष्टनिकेतनाः | तदेतदतिवीर्यं तु यन्त्रं सुरसुपूजितम् || २७-२४ || अस्यैव यन्त्रस्य पूर्वोक्तमहासुदर्शनयन्त्रधारकत्वम् प्. २४५) तदेतेनैव यन्त्रेण यन्त्रं सौदर्शनं परम् | धार्यते तत् सुरमुने विचित्रं विष्टरात्मना || २७-२५ || यन्त्रमेतन्मयाख्यातमेवं माहासुदर्शनम् | धृतं यन्त्रेण वीर्यात्तु सुदर्शननृसिंहयोः || २७-२६ || राजन्वद्देशस्यैव यथोक्तयन्त्रभरणक्षमत्वम् एतस्य तु विशिष्टस्य भरणे सैव भूः क्षमा | यस्याः पालयिता राजा धार्मिको दृढविक्रमः || २७-२७ || देवद्विजगुरुप्राज्ञपूजकः परमास्तिकः | राज्ञो नित्यमेतदभ्यर्चनविधिः एतदभ्यर्चयेद्राजा चक्राकारमतन्द्रितः || २७-२८ || पुरुषाकारमपि वा तथैवोभयतोमुखम् | एतन्मन्त्रप्रदातुर्विशेषतः पूज्यत्वम् एतन्मन्त्रप्रदातारं विशिष्टं पूजयेद् बुधः || २७-२९ || एतन्मन्त्रविधिना कर्षणादिप्रतिष्ठान्तकर्मविधिः कर्षणादीनि कर्माणि प्रतिष्ठान्तान्यमुष्य तु | एतन्मन्त्रोक्तमार्गेण कारयेन्नृपतिः स्वयम् || २७-३० || तन्त्रस्यास्य सात्त्वतादिभिरेकतन्त्रत्वम् प्. २४६) सात्त्वतादिषु तन्त्रेषु विहितेनैव चाध्वना | सुदर्शनस्य मन्त्रस्य नारसिंहस्य वा मुने || २७-३१ || कल्पप्रयुक्ता विधयः सर्वे चैतस्य संनिधौ | भवन्ति सकलाश्चैतत्प्रभावेण प्रयोजिताः || २७-३२ || तस्माद्यथोक्तमार्गेण प्रतिष्ठाप्यैतदर्चयेत् | राज्ञामेतदर्चनेन राज्यादिलाभः राजा राज्यं जयं भूतिमायुरारोग्यमाप्नुयात् || २७-३३ || नित्यमर्चयतः फलविशेषः नित्यमर्चयतो राज्ञः सप्तद्वीपवती मही | समुद्रवसना चैषा विश्वा वश्या भविष्.यति || २७-३४ || होमार्थं प्रासादकुण्डयोर्निर्माणम् प्रासादं लक्षणोपेतं विधाय परमासनम् | तत्रैव कारयेत् कुण्डं मन्त्रस्यास्य यथाविधि || २७-३५ || साधकेन तत्र होमादिनिर्वर्तनम् भूपतेर्यानि कर्माणि साधयंस्तानि साधकः | मन्त्रेणानेन जुहुयादस्मिन् कुण्डे समाहितः || २७-३६ || वैकल्पिकप्रदेशान्तरविधिः प्. २४७) अनेनैव तु मन्त्रेण राज्ञो रक्षाविधिर्यदि | विष्णोरायतने रम्ये मण्डपे मण्डितेऽथवा || २७-३७ || कृत्वैतत् कुण्डमत्रैव राजाभ्यर्च्य महाधनैः | एतन्मन्त्रप्रदातारं स्वकर्माण्येव कारयेत् || २७-३८ || पुनर्यन्त्रार्चनफलविशेषकथनम् अनेन कृतकृत्यस्तु राजा राज्यमवाप्नुयात् | नीरोगो निःसपत्नश्च दीर्घायुश्च भविष्यति || २७-३९ || नागैरनेकसाहस्रैरसंख्येयैश्च वाजिभिः | स्यन्दनैर्नरवर्यैश्च पूर्णा तस्य पुरी भवेत् || २७-४० || यश्चैनमर्चयेद्राजा यन्त्रराजमनुत्तमम् | सर्वमन्त्रविशिष्टत्वादर्चितास्तेन देवताः || २७-४१ || यदर्थं योऽर्चयेदेनमात्मार्थे यतते परम् | सर्वेषामेव भूतानां राज्ञश्च कुरुते हितम् || २७-४२ || अस्मिन् मन्त्रे यन्त्रे च राज्ञामेवाधिकारः अयं मन्त्रश्च यन्त्रं च राज्ञामेव विधीयते | सर्वसाधारणार्थानि मन्त्रजातानि नारद || २७-४३ || प्. २४८) एतदभ्यर्चनपरा मन्त्रिणो यस्य भूपतेः | अभिरक्षन्ति राजानमरिष्टमुखतोऽपि ते || २७-४४ || एतत्प्रणामादीनामपि तत्तत्फलसाधनत्वम् एतत्प्रणामेन समर्चनेन संकीर्तनेन स्मरणेन वाऽपि | संतोषयेत् संततमस्य सर्वं मनीषितं हस्तगतं प्रपश्येत् || २७-४५ || अध्यायार्थनिगमनम् इति निगदितमेतद्यन्त्ररूपं समन्त्रं सकलदुरितभेदव्यापृतं संश्रितानाम् | तदिह कृतविधेयो भूपतिः पूर्णकामो भुवनतलमशेषं प्राप्नुयाच्चक्रवर्ती || २७-४६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां धारकयन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः || २७ || आदितः श्लोकाः १६११ भगवदाराधनविधिनिरूपणं नाम अष्टाविंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || आराधनविधिनिरूपणारम्भः अहिर्बुध्न्यः आराधनविधिं वक्ष्ये समासेनैव नारद | आयुरारोग्यविजयभूप्रदं धनधान्यदम् || २८-१ || तस्यैहिकामुष्मिकफलसाधनत्वम् पुत्रपश्वन्नकामानां तत्तत्साधनमुत्तमम् | भुक्तिमुक्तिप्रदं शान्तं पराभिभवकारणम् || २८-२ || तत्रादौ स्नानविधिः तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः | द्विधा कृत्वैकभागेन कुर्याद् देहस्य शोधनम् || २८-३ || स्नात्वाचम्य गृहीत्वान्यं मृद्भागं विन्यसेत् त्रिधा | वामे पाणौ दिशाबन्धं विदध्यादेकभागतः || २८-४ || गात्रालेपं ततः कुर्यादन्येनांशेन नारद | प्. २५०) संकल्पयेत् तृतीयांशं तीर्थपीठमतःपरम् || २८-५ || गङ्गां तत्र स्मरेद्विष्णोर्वामपादविनिःसृताम् | अर्घ्यमस्यै निवेद्याथ ततो हृत्वा जलाञ्जलिम् || २८-६ || स्वमूर्ध्नि सिञ्चेत् त्रिस्तावत् सप्तकृवोऽभिमन्त्रितम् | निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः || २८-७ || यथाशक्ति जपेन्मन्त्रं तस्य ध्यानपरायणः | तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके || २८-८ || धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान् | ध्यात्वा संतर्पयेदन्यदाह्निकं विधिवच्चरेत् || २८-९ || यागभूमिमथागम्य क्षालिताङ्घ्रिकरो वशी | आराधनोपक्रमः आचम्य वाग्यतो भूत्वा प्रारभेत समर्चनम् || २८-१० || चतुर्द्वारयुतं रम्यं गत्वा शरणमात्मवान् | द्वाःस्थानशेषानभ्यर्च्य ततो मण्डपमाश्रयेत् || २८-११ || मण्डपवर्णनम् तुङ्गं मङ्गलसंयुक्तं मणिकुट्टिमभूषितम् | सौवर्णैर्बहुभिः स्तम्भैर्मणिविद्रुमभूषितैः || २८-१२ || उपेतं दीपिकाजालैर्जातरूपमयैर्वृतम् | प्. २५१) विचित्राभिः पताकाभिस्तोरणैरुपशोभितम् || २८-१३ || मणिकिङ्किणिजालैश्च वितानैः क्षौमकल्पितैः | विराजमानं सर्वत्र मणिपीठविराजितम् || २८-१४ || तत्र वेदिकानिर्माणम् तस्य मण्डपरत्नस्य मध्ये परमभास्वराम् | पद्मरागमयैः स्तम्भैश्चतुर्भिरुपशोभिताम् || २८-१५ || मुक्तामयवितानेन युक्तां रत्निचतुष्किकाम् | वैडूर्यघटितोत्तुङ्गवेदिकां दीपिकायुताम् || २८-१६ || एवं कर्तुमशक्तश्चेदेवं ध्यायीत पूजकः | तत्र सपरिवारभगवद्ध्यानम् एवं चतुष्किकामध्ये चक्राब्जमयविष्टरे || २८-१७ || आधारशक्तिकमठानन्तधर्मादिधारिते | पद्मे सोमरविज्योतिःसत्त्वादिपरिवारिते || २८-१८ || एवमुक्तप्रकारेण परिवारैर्निषेवितम् | वेदैर्मन्त्रैस्तथा शस्त्रैरस्त्रैः शक्तिभिरावृतम् || २८-१९ || ध्यायेत् तदासने देवं समासीनः समासने | भगवत्प्रार्थना अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः || २८-२० || प्. २५२) सांस्पर्शिकैरिति ब्रूयाद् देवमाभ्यवहारिकैः | भूतशुद्धिक्रमः संहरेद् देहतत्त्वानि प्रतिसंचरवर्त्मना || २८-२१ || ततः स्थूलमिदं देहं शोषयित्वाथ संदहेत् | प्राणायामेन चाद्येन मन्त्रं नाभ्यां तु विन्यसेत् || २८-२२ || तदुद्भूतेन नादेन सुषुम्नामध्यवर्तिना | वायुमण्डलमभ्येत्य तदुत्थेनैव वायुना || २८-२३ || संशोषयेदिमं देहं स्थूलं सुरमुने ततः | प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् || २८-२४ || मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना | तृतीयेन स्वमात्मानं प्राणायामेन देशिकः || २८-२५ || अधो निवेशयन् विष्णोर्वामपादाम्बुजस्य वै | स्वं तदङ्गुष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् || २८-२६ || पञ्चौपनिषदैर्मन्त्रैस्ततः संजातविग्रहः | न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम् || २८-२७ || आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् | प्रारभेत ततः पूजां करन्यासं विधाय वै || २८-२८ || हृद्यागं प्रथमं कुर्यान्नियतेन्द्रियमानसः | पात्रादिस्थापनम् प्. २५३) आत्मनो दक्षिणे पार्श्वे वासितैः पावनैर्जलैः || २८-२९ || पूरितं स्थापयेत् पात्रं मूलमन्त्रेण मन्त्रितम् | वामपार्श्वे तथा सर्वं विन्यसेत् साधनान्तरम् || २८-३० || ततो विस्तीर्य पुरतः शाटिकामतिनिर्मलाम् | तस्यामाग्नेयदिग्भागे विन्यसेदर्घ्यपात्रकम् || २८-३१ || पाद्यपात्रमथो न्यस्येत् कोणे दक्षिणपश्चिमे | पात्रमाचमनीयस्य विन्यसेत् पश्चिमोत्तरे || २८-३२ || स्नानीयपात्रं दिग्भागे विन्यसेच्छांकरे ततः | अर्घ्यादिषु प्रक्षेप्यद्रव्याणि सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च || २८-३३ || यवं गन्धं फलं पुष्पमष्टाङ्गं चार्घ्यमुच्यते | दूर्वा च विष्णुपर्णी च श्यामाकं पद्ममेव च || २८-३४ || पाद्यद्रव्याणि चत्वारि सोदकानि प्रकल्पयेत् | लवङ्गजातीतक्कोलद्रव्याण्याचमनीयके || २८-३५ || सिद्धार्थकादि स्नानीये पूर्ववत् कल्पयेद् बुधः | प्. २५४) तत्र मन्त्रासनं प्रथनम् अर्घ्यं संकल्पयामीति स्पृशेज्जप्त्वार्घ्यमादितः || २८-३६ || पाद्यपात्रादिकेष्वेवं ब्रूयात् सुरमुने क्रमात् | गन्धतोयेन संपूर्य पात्राण्येतानि सर्वशः || २८-३७ || अर्घ्यात् किंचित् समुद्धृत्य जलं पात्रान्तरेण तु | देवस्य दक्षिणे पाणौ मूलमन्त्रेण विन्यसेत् || २८-३८ || पुष्पं दत्त्वाथ पाद्येन पादौ देवस्य सेचयेत् | वस्त्रेण मार्जयित्वाथ दद्यादाचमनीयकम् || २८-३९ || अर्घ्यादिदत्तशिष्टानि क्षिपेत् पात्रान्तरे तदा | चन्दनं माल्यदानं च धूपं दीपं दिशेत् ततः || २८-४० || पुनराचमनीयं च मुखवासमतः परम् | ताम्बूलं च निवेद्याथ प्रणम्यात्मनिवेदनम् || २८-४१ || स्नानासनं द्वितीयम् विधाय स्नानपीठं तु गन्धपुष्पादिनार्चयेत् | विज्ञाप्य पादुके दत्त्वा देवे स्नानासनं गते || २८-४२ || वस्त्रभूषणमाल्यानि व्यपनीय ततः परम् | स्नानार्थं शाटिकां दद्यात् पाद्यमाचमनीयकम् || २८-४३ || पादपीठप्रदानं च दन्तकाष्ठं दिशेत् ततः | प्. २५५) जिह्वानिर्लेखनं चैव मुखशोधमथो दिशेत् || २८-४४ || पुनराचमनीयं च तथादर्शोपदर्शनम् | पुनस्ताम्बूलदानं च तैलाभ्यङ्गमतः परम् || २८-४५ || उद्वर्तनविधानं च दानमामलकस्य च | तोयदानं ततः कुर्यात् कङ्कतप्लोतमेव च || २८-४६ || ततो विदद्याद् देवस्य देहशोधनशाटिकाम् | हरिद्रालेपनं कुर्यात् प्रक्षालनमतः परम् || २८-४७ || वस्त्रोत्तरीयके दद्यादुपवीतं तथैव च | पाद्याचमनके कुर्याद् विचित्रं चन्दनं तथा || २८-४८ || गन्धं पुष्पं तथा धूपं दीपमाचमनं तथा | नृत्तवादित्रगीतादिसर्वमङ्गलसंयुतम् || २८-४९ || अभिषेकं ततः कुर्यान्नीराजनविधिं ततः | प्लोतवस्त्रोत्तरीये च उपवीतमतः परम् || २८-५० || तत आचमनीयं च दत्त्वा देवाय देशिकः | तृतीयमलंकारासनम् अलंकारासनं पश्चादभ्यर्च्य प्रोक्षणादिना || २८-५१ || विज्ञाप्य पादुके दत्त्वा देवे विष्टरमाश्रिते | अर्घ्यादीन्यथ पात्राणि पूर्ववत् कल्पयेत् ततः || २८-५२ || अर्घ्यं पाद्यं ततो दद्यात् तत आचमनीयकम् | प्. २५६) गन्धवच्चन्दनाद्यैश्च द्रव्यैश्चार्घ्यादिकं चरेत् || २८-५३ || ततश्चित्राणि वासांसि प्रयच्छेद् भूषणानि च | यज्ञोपवीतदानं च तत आचमनीयकम् || २८-५४ || गन्धपुष्पप्रदानं चाप्यादर्शस्य प्रदर्शनम् | धूपदीपौ तथा दद्यात् पुनराचमनीयकम् || २८-५५ || ततः स्तोत्रं जपेच्छत्रचामराणां प्रदर्शनम् | दर्शनं वाहनानां च ततः शङ्खरवं तथा || २८-५६ || वीणाकाहलभेर्यादिनिनादश्रावनं तथा | नृत्तवादित्रगीताद्यैरर्चयेन्मन्त्रतस्ततः || २८-५७ || मूलमन्त्रेण दद्यात्तु पुष्पं देवाय देशिकः | पुष्पाञ्जलिं प्रतिदिशं प्रदक्षिणपुरःसरम् || २८-५८ || दत्त्वा पुनः प्रणम्याथ स्तोत्रैर्देवं स्तुवीत वै | स्वमात्मानं भगवते किंकरत्वाय वेदयेत् || २८-५९ || ततो ध्यात्वा जपेन्मन्त्रं यथाशक्ति समाहितः | आचार्यं गन्धपुष्पाद्यैः समभ्यर्च्य मुने ततः || २८-६० || सर्वभोगैस्तु संपूर्णान् मन्त्रांस्तस्मै निवेदयेत् | मुखवासं ततो दद्यात् ताम्बूलं चार्घ्यमेव च || २८-६१ || चतुर्थं भोज्यासनम् भोज्यासनमथाभ्यर्च्य देवं विज्ञाप्य पादुके | दद्यात् तत्रोपविष्टेऽस्मिन् पाद्यमाचमनं ततः || २८-६२ || प्. २५७) अर्हणं च ततः कृत्वा दध्याज्यक्षीरमाक्षिकान् | गन्धं च पात्रे निक्षिप्य शोषणादिकमाचरेत् || २८-६३ || संप्रोक्ष्यार्घ्यजलेनैव मधुपर्कमथो दिशेत् | ततो दद्यात् सुवर्णं च गां च रत्नानि पूजकः || २८-६४ || हविर्निवेदनम् सुसंस्कृतान्नमाज्यं च दधिक्षीरमधूनि च | मूलानि मोदकान् स्निग्धान् व्यञ्जनानि फलानि च || २८-६५ || यानि कालोपपन्नानि शुचीनि गुणवन्ति च | स्वादिष्ठानि प्रभूतानि हृद्यान्यन्यानि यानि च || २८-६६ || विशोध्य शोषणाद्यैस्तु संप्रोक्ष्यार्घ्यजलेन तु | विधाय रक्षामस्त्रेण हविरर्हणपूर्वकम् || २८-६७ || मुद्रां तु सुरभिं कृत्वा देवायैतन्निवेदयेत् | अनुवासं ततो दद्याद् दर्पणं च ततः परम् || २८-६८ || दद्यादाचमनीयं च हस्तमार्जनचन्दनम् | मुखवासं च ताम्बूलं प्रदायास्मै प्रणम्य च || २८-६९ || पुनर्मन्त्रासनं पञ्चमम् अथ मन्त्रासनं न्यस्य कूर्चेन परिमृज्य च | गन्धपुष्पादिनाभ्यर्च्य दद्याद् विज्ञाप्य पादुके || २८-७० || तथाधिरूढे देवेशे माल्यादिकमपोह्य तु | पाद्याचमनके दत्त्वा ततो धूपं निवेदयेत् || २८-७१ || प्. २५८) स्वादिष्ठानि फलान्यस्मै दद्यात् ताम्बूलमेव च | गीतवादित्रनृत्ताद्यैर्देवमभ्यर्चयेत् ततः || २८-७२ || प्रदक्षिणं विधायास्मै प्रणमेतद् दण्डवत् ततः | षष्ठं पर्यङ्कासनम् अथ पर्यङ्कमभ्यर्च्य देवं विज्ञापयेत् ततः || २८-७३ || ततः पादूप्रदानेन देवे पर्यङ्कमास्थिते | पाद्यमाचमनीयं च पुनर्दत्त्वा समाहितः || २८-७४ || माल्यभूषणकादीनि व्यपनीय महामते | शयनोचितमाल्यानि भूषणान्यंशुकानि च || २८-७५ || सुखस्पर्शानि चान्यानि दद्याद्यज्ञोपवीतकम् | दद्यादाचमनीयं च गन्धं पुष्पमथो दिशेत् || २८-७६ || मुखवासं च ताम्बूलं दत्त्वा स्तोत्रः स्तुवीत तम् | अष्टाङ्गेन प्रणामेन प्रणम्य शरणं व्रजेत् || २८-७७ || प्रदक्षिणसमेतेन देवं योगासनस्थितम् | मनोबुद्ध्यभिमानेन सह न्यस्य धरातले || २८-७८ || कूर्मवच्चतुरः पादाञ्छिरस्तत्रैव पञ्चमम् | दास्यप्रार्थना अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया || २८-७९ || प्. २५९) क्षन्तुमर्हसि तत् सर्वं दास्येन च गृहाण माम् | एवमाराधनं कुर्यादुभयत्र मुखे हरिम् || २८-८० || सुदर्शनं नृसिंहं च विष्णुरूपं सुदर्शनम् | एवमनुष्ठितस्याराधनस्य मोक्षसाधनत्वम् समाराधयतस्त्वेवमेकाहमपि नारद || २८-८१ || मुक्तिः करे स्थिता तस्य सर्वे कामाश्च किं पुनः | आनुषङ्गिकफलसाधनत्वं कैमुतिकम् अनेन लोकपालाश्च सर्वे देवगणास्तथा || २८-८२ || सिद्धगन्धर्वयक्षाश्च नागाश्चाप्सरसां गणाः | सर्वे वश्या भवन्तीह किं पुनर्भुवि मानवाः || २८-८३ || भूतप्रेतपिशाचाश्च कुश्माण्डाश्च विनायकाः | प्रेष्यास्तस्य भविष्यन्ति साधकस्य महात्मनः || २८-८४ || परिवाराध्यर्चनविधिः तथास्य परिवाराणां देवानां शक्तियोषिताम् | मन्त्राणामस्त्रशस्त्राणां स्वैः स्वैर्नामभिरर्चनम् | नमोऽन्तैरुपचारैश्च कुर्यात् षोडशभिः क्रमात् || २८-८५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां भगवदाराधनविधिनिरूपणं नामाष्टाविंशोऽध्यायः || २८ || आदितः श्लोकाः १६९६ काम्याराधनविधिनिरूपणं नाम एकोनत्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || भगवदाराधनस्यानुषङ्गिकफलसाधनत्वकथंताप्रश्नः नारदः एतदाराधनैः कस्य कथं देवादयः सुराः | अन्ये चोक्ता वशं यान्ति तन्मे ब्रूहि यथातथम् || २९-१ || तत्प्रतिवचनारम्भः अहिर्बुध्न्यः क्षत्रियस्य विशेषेण जयार्थित्वान्महामुने | येनार्चनविशेषेण विश्वे वश्या भवन्ति हि || २९-२ || शृणुष्व तं समासेन कथयामि यथातथम् | तत्तदाराधनविशेषाणां तत्तद्दिग्विजयसाधनत्वम् यदीच्छेद्विजयं दिक्षु सर्वासु च महीपतिः || २९-३ || आराधनविशेषैस्तु तत्तद्विजयमाप्नुयात् | तत्र प्राचीदिग्विषये नृपेभ्यो विजयाकाङ्क्षी प्राच्येभ्यश्चेन्महीपतिः || २९-४ || प्. २६१) आराधयेद्विशिष्टैस्तु द्रव्यैर्देवं सुदर्शनम् | सितपुष्पैः सितैर्वस्त्रैरङ्गरागैः सितैरपि || २९-५ || शाल्योदनैश्च दध्याढ्यैरर्चयित्वा सुदर्शनम् | मण्डपे मण्डिते शुद्धे पूर्वोक्ते देवसंनिधौ || २९-६ || प्रासादलक्षणे कुण्डे चतुष्कोणपरिस्तृते | तत्र वह्निमथादाय काष्ठैः प्रज्वाल्य बैल्वकैः || २९-७ || आसीनः प्राङ्मुखो भूत्वा शुचिस्तत्र समाहितः | तस्मिन् फलानि बैल्वानि सर्पिःसिक्तानि नारद || २९-८ || नियुतं मूलमन्त्रेण जुहुयाज्ज्वलितेऽनले | होमैरेभिः समुद्रान्ता प्राची वश्या भवेन्मही || २९-९ || फलानां कोटिहोमेन बैल्वानां वशमेष्यति | प्लक्षद्वीपस्य देशस्तु प्राच्यः सहमहीपतिः || २९-१० || कोटिद्वयेन चैतेषां शाल्मलो वशमेष्यति | देशः प्राच्यः सभूपालः स्वदेश इव नारद || २९-११ || कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीपसंज्ञितः | एकद्वित्रिचतुःपञ्चषट्कैः प्राच्याः क्रमेण वै || २९-१२ || कोटीनां फलहोमानां वशं यास्यन्ति भूपतेः | द्वीपानामपि चैतेषां प्राची माघवती पुरी || २९-१३ || दशकोट्या तु होमानां वशं यास्यति सा ध्रुवम् | प्. २६२) पालनार्थं तु लोकानामेकेनांशेन वासवः || २९-१४ || तत्रैव वर्तते सोऽपि साहाययं तस्य यास्यति | स्त्रीभिरन्नैश्च पानैश्च वाजिभिः परमैर्गजैः || २९-१५ || यथा स्वस्मिन् पुरे राजा विहरत्यविशङ्कया | चिन्तितोपनतैरेव तैर्द्रव्यै रंस्यते नृपः || २९-१६ || अस्य प्रभावतः सर्वे विष्टब्धाः सर्वसागराः | गन्तुं योग्या भविष्यन्ति स्यन्दनेन यथा स्थली || २९-१७ || हारं च वासवस्तस्य चक्रवर्तित्वलक्षणम् | सर्वरत्नमयं दिव्यमुपनेष्यति च स्वयम् || २९-१८ || दक्षिणदिग्विषये दक्षिणाशाजयाशा चेदजनिष्ट महीपतेः | पूर्वोक्ते मण्डपे देवं दक्षिणाभिमुखं नयेत् || २९-१९ || रक्तमाल्याम्बरधरं रक्तचन्दनरञ्जितम् | रक्ताम्बरधरं देवमभ्यर्च्योक्तेन वर्त्मना || २९-२० || गुडौदनं हविस्तस्मै निवेद्य तिलमिश्रितम् | अर्धचन्द्रोपमं कुण्डं कृत्वा प्रासादलक्षणम् || २९-२१ || कुशैः पुष्पैश्च लाजैश्च परिष्कृतमविक्षतम् | दक्षिणाभिमुखस्तत्र समासीनोऽग्रतो विभोः || २९-२२ || प्. २६३) मन्त्रेण वह्निमादाय काष्ठैः प्रज्वाल्य खादिरैः | पद्मानां चैव रक्तानां नियुतैर्होममाचरेत् || २९-२३ || ततः सा दक्षिणा पृथ्वी सागरान्ता वशा भवेत् | सोपहाराश्च राजानस्तत्रत्या द्वारि वारिताः || २९-२४ || प्रतीक्षमाणाः स्थास्यन्ति कालं तस्य महात्मनः | ततो दक्षिणदिग्भागे षट्सु द्वीपेषु संमताः || २९-२५ || एकद्वित्रिचतुःपञ्चषड्भिर्वश्याः सभूभुजः | रक्तपद्माहुतीनां च कोटीनां तु यथाक्रमम् || २९-२६ || एषा दक्षिणतो रम्या याम्या संयमिनी पुरी | सा रक्तपद्महोमानां दशकोट्या वशा भवेत् || २९-२७ || यमोऽपि तस्य भावेन प्रसन्नः प्रीतमानसः | राज्ञो मनीषितं यत् तन्नान्यथा वर्तयिष्यति || २९-२८ || अकालमरणं किंचित् तद्देशे न भविष्यति | ये पुर्यां संयमिन्यां च यमस्य वशवर्तिनः || २९-२९ || ते सर्वे तस्य वशगा भविष्यन्ति न संशयः | दिव्ये रक्ताङ्गदे रम्ये सार्वभौमत्वलक्षणे || २९-३० || यमस्तु स्वयमादाय प्रीतस्तस्मै प्रयच्छति | पश्चिमदिग्विषये प्. २६४) पश्चिमाशां प्रति यदा जिगीषुर्नृपतिस्तदा || २९-३१ || मण्डपेऽलंकृते देवं पश्चिमाभिमुखं नयेत् | चित्रमालाधरं चित्रैरंशुकैः समलंकृतम् || २९-३२ || चित्राङ्गरागैश्चित्राभिर्भूषाभिरुपशोभितम् | मध्वोदनं हविः कृत्वा देवायैतन्निवेदयेत् || २९-३३ || पद्मोपमानं प्रासादं कुण्डं कृत्वा स्वलंकृतम् | तत्राधायाग्निमासित्वा देवस्य पुरतो वशी || २९-३४ || काष्ठैः शमीमयैरग्निं प्रज्वाल्याथ समाहितः | मध्वक्तैः करवीरैस्तु नियुतं जुहुयान्मनुम् || २९-३५ || ततः ससागरा पृथ्वी जम्बूद्वीपस्य पश्चिमा | वर्तिष्यते वशे तस्य राज्ञः सनृपतिस्तदा || २९-३६ || करवीराहुतीनां च कोट्या कोटिद्वयेन च | कोटित्रयचतुःपञ्चसट्कैस्ते च यथाक्रमम् || २९-३७ || सड् द्वीपखण्डाः पाश्चात्त्या वशं यास्यन्ति भूपतेः | सुखाख्या वारुणी रम्या पुरी परमभास्वरा || २९-३८ || सदा संनिहितैर्भोज्यैर्लेह्यैः पेयैश्च पूरिता | दिव्यपादपसंयुक्तैर्नन्दनैरुपशोभिता || २९-३९ || प्. २६५) सदोत्फुल्लाम्बुजाढ्याभिः सरसीभिः परिष्कृता | आक्रीडपर्वतैर्युक्ता नानारत्नविभूषितैः || २९-४० || प्रासादैर्मण्डपैस्तुङ्गैर्मण्डिता सा हिरण्मयैः | एवं विधा पुरी तस्य राज्ञो भोग्या भविष्यति || २९-४१ || वरुणोऽपि स्वयं छत्रं मणिविद्रुमभूषितम् | मुक्तादामभिराकीर्णममृतस्यन्दि वन्दितम् || २९-४२ || चिह्नं तच्चक्रवर्तीनां राज्ञे प्रीतः प्रदास्यति | उत्तरदिग्विषये उदीचीं दिशमुद्युक्तो जेतुं यदि महीपतिः || २९-४३ || चक्राब्जविष्टरे देवमुत्तराभिमुखं नयेत् | पीताम्बराणि बिभ्राणं पीतपुष्पैरलंकृतम् || २९-४४ || विद्रुमाभरणैर्युक्तं कुङ्कुमक्षोदरञ्जितम् | घृतौदनं हविः कृत्वा तेनाभ्यर्च्य सुदर्शनम् || २९-४५ || कुर्यात् तस्याग्रतः कुण्डं वृत्तप्रासादलक्षणम् | उदङ्मुखोऽग्निमाधाय कुण्डे मण्डपसंश्रिते || २९-४६ || काष्ठैरौदुम्बरैर्वह्निं प्रज्वाल्य ज्वलितेऽनले | नन्द्यावर्तप्रसूनैस्तु नियुतं जुहुयात् पुरः || २९-४७ || तेनेदं भारतं वर्षं काञ्चनाचलसंयुतम् | प्. २६६) सराजकं तस्य वशे भविष्यति न संशयः || २९-४८ || लक्षद्वयेन होमानां वर्षं किंपुरुषाह्वयम् | सभूपं भूपतेस्तस्य वशमेष्यत्यसंशयम् || २९-४९ || लक्षत्रयेण वश्यं स्याद्धरिवर्षं सराजकम् | होमलक्षचतुष्केण भद्राश्वं वशमेष्यति || २९-५० || पञ्चषट्सप्तभिर्होमलक्षाणां पृथिवीपतेः | इलावृतं केतुमालं रम्यकं च वशे भवेत् || २९-५१ || हिरण्मये मेरुवर्षे अष्टाभिर्नवभिस्तथा | वशे भविष्यतो होमलक्षाणां समहीश्वरे || २९-५२ || षण्णां प्लक्षमुखानां तु द्वीपानां भोगभूमयः | उक्तसंख्यायुतैर्होमैर्वशमेष्यन्ति नारद || २९-५३ || सर्वेषां द्वीपवर्षाणामुत्तरत्र पुरी वरा | विभावरीति विख्याता सोमस्य परमाद्भुता || २९-५४ || दशकोट्या वशे तस्य होमानां सा भविष्यति | ये तस्यां देवतावर्गाः सोमस्य वशवर्तिनः || २९-५५ || ते सर्वे भूपतेस्तस्य वर्तिष्यन्ते वशे मुने | तस्य प्रभावतः सोमः स्वयमादाय चामरे || २९-५६ || स्वज्योत्स्नासंचयप्रख्ये रत्ननालसमन्विते | विश्वाधिराज्यचिह्ने ते शुभ्रे शीतलदर्शने || २९-५७ || प्. २६७) प्रीतः प्रदास्यति श्रीमानस्मै विस्मितकर्मणे | विदिशां विषये महादिशां जयात् सिद्धो विदिशां वशिनो जयः || २९-५८ || उपहारान् प्रदास्यन्ति तत्तद्दिक्पालकाः परे | ऊर्ध्वलोकस्य विषये ऊर्ध्वलोकजयोद्योगो यद्यवर्तिष्ट भूपतेः || २९-५९ || देवं मण्डपरत्ने तु प्राङ्मुखासनमर्हयेत् | गन्धवन्माल्यसंवीतं मुक्ताभूषणभूषितम् || २९-६० || दिव्यचन्दनलिप्ताङ्गं क्षौमैः कल्पितवाससम् | एवमभ्यर्च्य विधिना पायसं खण्डसंमितम् || २९-६१ || आज्याढ्यं हविरावेद्य सर्वपक्वफलान्वितम् | प्रासादकुण्डमष्टाश्रं सर्वमङ्गलसंयुतम् || २९-६२ || कारयित्वास्त्रमन्त्रेण वह्निमादाय मन्त्रवित् | कृष्णागुरुमयैः काष्ठैर्ज्वलयेज्जातवेदसम् || २९-६३ || तत्राज्यहोमं कुर्याद्वै शतकोटिसमन्वितम् | अन्तरिक्षं ततस्तेन होमेन वशमेष्यति || २९-६४ || तल्लोकवासिनः सर्वे सिद्धगन्धर्वकिंनराः | यक्षाः किंपुरुषाश्चैव चारणाः साङ्गनागणाः || २९-६५ || प्. २६८) वीणावेणुमृदङ्गैश्च वाद्यैस्तालैश्च सर्वशः | तस्यापदानचरितगर्भा भोगवलीः पराः || २९-६६ || गायन्तः परिवार्यैनं हर्षयिष्यन्ति भूपतिम् | कोटिकोट्या तु होमानां स्वर्गो वश्यो भविष्यति || २९-६७ || तत्र देवैर्महेन्द्रोऽपि देव्या शच्या समन्वितः | आरुह्यैरावतं नागमप्सराणां गणैः सह || २९-६८ || तमभ्येत्य महात्मानमवरुह्य मुदान्वितः | मणिपीठं समारोप्य वाचयित्वा च मङ्गलम् || २९-६९ || नृत्तैर्गीतैश्च वाद्यैश्च दिव्यदुन्दुभिनिस्वनैः | शङ्खकाहलनादैश्च सह तीर्थाहृतैर्जलैः | वासवश्चक्रवर्तित्वे राजानमभिषेक्ष्यति || २९-७० || मणिमुकुटमथास्मै वारणं दिव्यमेकं हयमनिलसमानं पुष्पकाभं विमानम् | सरसिजपरिकॢप्तां काञ्चनीं दिव्यमाला- मपि च हरुषजुष्टो दास्यति स्वात्मसाम्यम् || २९-७१ || हयमेधशतेन याजयित्वा नृपतिं सर्वमहीपतिं विधाय | शतमप्सरसः प्रदाय तस्मै त्रिदिवं यास्यति वृत्रहा सदेवः || २९-७२ || नागलोकस्य विषये प्. २६९) नागलोकेषु जाता चेज्जिगीषा चक्रवर्तिनः | पद्मरागमयैर्दिव्यैर्भूषणैरुपशोभितम् || २९-७३ || रक्तचन्दनलिप्ताङ्गं देवं पद्मैः समर्चयेत् | पिष्टौदनं गुडाढ्यं च हविस्तस्मै निवेद्य च || २९-७४ || प्रासादलक्षणे कुण्डे षट्कोणे ज्वलितानले | अपूपानां तु कोटीनां कोट्या होमं समाचरेत् || २९-७५ || तेन तक्षकमुख्यानां नागानां परमा पुरी | वश्या भवेद्भोगवती स्वपुरीवास्य भूपतेः || २९-७६ || तस्य प्रभावमवलोक्य स नागराजो रत्नानि भास्वरतराणि महान्ति भान्ति | द्वे कुण्डले मणिमये च सहाङ्गनाभि- रादाय सत्यमुपयास्यति सार्वभौमम् || २९-७७ || सामान्यपरिभाषा उक्तानामप्यनुक्तानां शृणु नारद लक्षणम् | सामान्यं येन सिद्धिः स्यादीप्सितार्थस्य मन्त्रिणः || २९-७८ || एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवात्मकाः | प्. २७०) विहारास्त्रिचतुःपञ्च समुखान्तायतोच्छ्रिताः || २९-७९ || दिग्विदिक्षु तथा मध्ये नवकाः परिकीर्तिताः | दिक्षु मध्ये तथा पञ्च शेषाः प्राङ्मुखपङ्क्तयः || २९-८० || एकद्व्यादियुगाश्चैव शान्तिपुष्ट्योः प्रकीर्तिताः | एकत्र्याद्ययुजश्चैव क्षुद्रेषु नवकं विना || २९-८१ || पलाशौदुम्बराश्वत्थखदिराद्याश्च यज्ञियाः | दूर्वाद्याश्च तिलाद्याश्च प्रशस्ताः शुभकर्मणि || २९-८२ || कारस्करादयः क्षुद्रे कटुबीजादयस्तथा | सहस्राद्या लक्षमध्याः कोट्यन्ता होमजातयः || २९-८३ || एको द्वौ बहवो वापि यथर्द्ध्या ऋत्विजः स्मृताः | एकस्मिन् वह्निकुण्डे चेज्जुहुयुः प्रागुदङ्मुखाः || २९-८४ || वासुदेवालयोद्यानमन्दिरेषु शुभा क्रिया | अशुभा तु श्मशानादावथ कालविधिक्रमः || २९-८५ || युक्षु कुर्याद् दिनर्क्षेषु शुभामन्यामथान्यथा | व्यस्तैरथ समस्तैर्वा यद्वा कामविकल्पितैः || २९-८६ || समिदाज्यादिभिर्लक्षकोटिहोमादयः स्मृताः | एवमभ्यूह्य कुर्वीत मन्त्रेणेष्टस्य साधनम् || २९-८७ || प्. २७१) अनुक्तमिव यत् किंचित् तान् स्वगृह्योक्तमाचरेत् | अपूर्वो वा भवेद्धोमो नाघारादिसमन्वितः || २९-८८ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां काम्याराधनविधिनिरूपणं नामैकोनत्रिंशोऽध्यायः || २९ || आदितः श्लोकाः १७८४ अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || ब्राह्माद्यस्त्राणां देवपरिवारत्वकथंताप्रश्नः नारदः कथं ब्रह्मास्त्रमुख्यानां महतां शक्तिशालिनाम् | अस्त्राणामप्रमेयाणां देवस्य परिवारता || ३०-१ || तेषां जन्मनामप्रश्नः कस्मादेतानि जातानि महास्त्राणि महेश्वर | अमीषां कानि नामानि तन्ममाचक्ष्व पृच्छतः || ३०-२ || तत्प्रतिवचनार्थमाख्यायिकारम्भः अहिर्बुध्न्यः पुरा नारायणो देवः स्वयमेव व्यवस्थितः | प्राक् सृष्टेर्न रतिं लेभे लीलोपकरणादृते || ३०-३ || लीलार्थं भगवतो बहुभवनम् ततो लीलार्थमात्मानं बह्वकल्पयदीश्वरः | पुरुषाधिष्ठितप्रधानसृष्टिः प्. २७३) अथ प्रधानमसृजत् पुरुषाधिष्ठितं स्वतः || ३०-४ || प्रधानान्महतः सृष्टिः ततो महान्तमव्यक्ताज्जनयामास नारद | महतोऽहंकारसृष्टिः गुणत्रयात्मकं तस्मादहंकारमतः परम् || ३०-५ || सात्त्विकाहंकारादेकादशेन्द्रियसृष्टिः इन्द्रियाणि दशैतानि ज्ञानकर्मात्मकानि वै | मनश्च सात्त्विकात् तस्मादहंकारादजीजनत् || ३०-६ || तामसाहंकारात् भूतसूक्ष्माणां भूतानां च सृष्टिः भूतानि भूतसूक्ष्माणि दशैतानि महामुने | असृजत् तामसात् तस्मादहंकाराज्जनार्दनः || ३०-७ || सप्तावरणवेष्टिताण्डसृष्टिः महदादिविशेषान्तैरेतैरण्डमजीजनत् | दशोत्तरैरावरणै सप्तभिः परिवेष्टितम् || ३०-८ || अण्डे चतुर्मुखसृष्टिः तस्मिन्नण्डे स्वयं विष्णुः प्रजापतिमथाकरोत् | उच्चावचानां भूतानां कर्तारं निजशक्तिभिः || ३०-९ || भगवच्छक्तिभूतस्य कालस्य सृष्टौ सहकारित्वम् हरिः स्वशक्तिरूपेण कालेन च समन्वितः | महदादिषु सृज्येषु सृष्टिं चक्रे जगन्मयः || ३०-१० || चतुर्मुखव्याजेन भगवत एव विचित्रजगत्स्रष्टृत्वम् विष्णुर्ब्रह्मापदेशेन चिदचिन्मिश्रितं जगत् | विचित्रं जनयामास तत्तच्छक्तिसमन्वितः || ३०-११ || वेदशब्देभ्य एव देवादीनां नामरूपव्याकरणम् वेदानालोच्य भूतानां देवादीनां यमः प्रभुः | नामरूपे च विविधे यथापूर्वमकल्पयत् || ३०-१२ || आप्तकामस्यापि स्रष्टृत्वोपपतिः सर्वदावाप्तसकलकामोऽपि परमेश्वरः | जन्तुभिर्निजसृष्टैश्च लीलारसमथान्वभूत् || ३०-१३ || भगवत एव पालकत्वम् अनालोच्यैव जगतां त्रातारमपरं हरिः | स्वयमेवांशरूपेण पालयत्यखिलं जगत् || ३०-१४ || दुष्टनिरसनं विना पालनस्याशक्यत्वम् दैतेयानां दानवानामन्तरेण निबर्हणम् | न शक्यते पालयितुं सदेवासुरमानवम् || ३०-१५ || दुष्टनिबर्हणाय भगवत एव चक्रात्मनावस्थानम् प्. २७५) अतश्च भगवान् विष्णुश्चक्ररूपी व्यवस्थितः | हन्यन्ते तेन चक्रेण विश्वे दैतेयदानवाः || ३०-१६ || देवादीनां सुदर्शनधारणासामर्थ्यम् देवादीनां सुराणां च विशेषाच्च महीक्षिताम् | न शक्यते धारयितुं सुदर्शनमनुत्तमम् || ३०-१७ || शास्त्रास्त्ररूपेण तस्य विभागः अतस्तेषां विभक्तानि विविधानि बहूनि च | अस्त्राणि शस्त्रजातानि शत्रुनाशाय नारद || ३०-१८ || भगवदात्मकात् सुदर्शनादस्त्राणामुत्पत्तिः अस्त्राणि तानि निर्जग्मुर्विष्णुरूपात् सुदर्शनात् | अमोघानि ततोऽस्त्राणि भीषणानि महान्ति च || ३०-१९ || प्रजाः स्रष्टुं मनश्चक्रे चक्ररूपी जगत्पतिः | स्रष्टुमस्त्राणि सर्वाणि स्वस्माद्रूपान्महामुने || ३०-२० || तस्माद्देवो भीममापद्य चोग्रं रूपं पिङ्गं पिङ्गलावृत्तनेत्रम् | दंष्ट्रानिर्यत्पावकप्लुष्टकाष्ठं भीमं केशैः पिङ्गलैर्विद्युदाभैः || ३०-२१ || तत्र मुखजातान्यस्त्राणि नारायणं पाशुपतं ब्राह्ममस्त्रं तथैव च | प्. २७६) अस्त्रं ब्रह्मशिरो नाम विष्णुचक्रं च जृम्भणम् || ३०-२२ || कालपाशमथाग्नेयमस्त्रं हयशिरस्तथा | प्रस्वापनं तापसं च कालास्त्रममितप्रभम् || ३०-२३ || दण्डचक्रं कालचक्रं धर्मचक्रं तथैव च | शैवं शूलं रौद्रमस्त्रं त्रिशूलं घोरमेव च || ३०-२४ || अस्त्राण्येतानि मुख्यानि मुखतो जज्ञिरे विभोः | वक्षोजातान्यस्त्राणि संमोहनं तथैषीकमैन्द्रं चक्रं महाद्युति || ३०-२५ || अशनी द्वे च शुष्कार्द्रासंज्ञिते सर्वभीषणे | पैनाकमस्त्रं कङ्कालं कापालमतिदारुणम् || ३०-२६ || सौर्यं वारुणपाशं च संतापनमरिंदमम् | अस्त्रं वारुणमत्युग्रं धर्मपाशं तथैव च || ३०-२७ || एतान्यस्त्राणि देवस्य निर्जग्मुर्वक्षसस्तथा | ऊरुजातान्यस्त्राणि शक्तिद्वयं च वायव्यमस्त्रं मौसलमेव च || ३०-२८ || गान्धर्वं दर्पणं चास्त्रं शोषणं परदारणम् | तेजःप्रभं च पैशाचमैन्द्रमस्त्रं सुदारुणम् || ३०-२९ || याम्यं विलापनं चास्त्रं वैद्याधरममित्रहम् | प्. २७७) कङ्कणीं मोदकीं चैव शिखरं क्रौञ्चमेव च || ३०-३० || एतानि जनयामास निजोर्वोरुरुविक्रमः | पादजातान्यस्त्राणि असिरत्नं प्रशमनं कन्दर्पदयितं तथा || ३०-३१ || मदनं सौमनं चास्त्रं सत्यं संवर्तनं तथा | मायाधरं च सोमास्त्रं त्वाष्ट्रं शीतेषुमेव च || ३०-३२ || भगास्त्रमस्त्राण्येतानि पद्भ्यां जातानि नारद | अपराङ्गजातान्युपसंहारास्त्राणि संदामनं सत्यवन्तं धरणं धृष्टमेव च || ३०-३३ || भृशाश्वतनयं चैव सत्यकीर्तिं तथैव च | मोहनं रभसास्त्रं च सर्वनाहं पराङ्मुखम् || ३०-३४ || जृम्भकं प्रतिहारं च तथा वरणमुत्तमम् | अवाङ्मुखं धनं धान्यं वृषाक्षं कामरूपकम् || ३०-३५ || दृढनाहं कामरुचिं सुनाभं मकरं तथा | दशाक्षं वृत्तिमन्तं च दशवक्त्रं तथापरम् || ३०-३६ || रुचिरं दशशीर्षं च योगंधरममित्रहम् | अनिद्रं मकरं चैव भोक्तारं कङ्कणीं तथा || ३०-३७ || प्. २७८) शतोदरं सौमनसं पद्मनाभं तथैव च | महानाभं प्रमथनं ज्यौतिषं क्रथनं तथा || ३०-३८ || त्रैराशिं सार्चिमालिं च विमलां धृतिकां तथा | सृष्टिं तथा विषामास्त्रं सुध्याताहं तथैव च || ३०-३९ || विधूतं कृशनं चैव लक्षाक्षं कर्शनं तथा | उपसंहाररूपाणि सर्वाण्यस्त्राण्यमूनि वै | जनयामास देवोऽसौ स्वापराङ्गात् परंतपः || ३०-४० || अध्यायार्थनिगमनम् एवमुक्तानि नामानि जन्मान्यपि च नारद | अस्त्रानामपि माहात्म्यं यन्त्रस्यास्य समासतः || ३०-४१ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अस्त्राणां जन्मनामनिरूपणं नाम त्रिंशोऽध्यायः || ३० || आदितः श्लोकाः १८२५ योगाङ्गयमनियमासननिरूपणं नाम एकत्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || हृद्यागस्वरूपप्रश्नः नारदः प्रथमं बाह्ययागस्य हृदयाराधनं परम् | उक्तं त्वया तत्स्वरूपं यथावद्वक्तुमर्हसि || ३१-१ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः साधु पृष्टं त्वया तस्य स्वरूपं शृणु नारद | येन प्रीणाति भगवान् सर्वलोकनमस्कृतः || ३१-२ || हृद्यागलक्षणम् यैर्बाह्ययागः क्रियते साधनैस्त्रिविधैरिह | संकल्पसिद्धैस्तैरेव देवं प्रति समर्चनम् || ३१-३ || हृदयाराधनं प्रोक्तमेतत् सर्वार्थसाधनम् | आत्मसमर्पणस्य हृद्यागतुल्यत्वम् प्. २८०) यद्वा भगवते तस्मै स्वकीयात्मसमर्पणम् || ३१-४ || वियुक्तं प्रकृतेः शुद्धं दद्यादात्महविः स्वयम् | विशिष्टदैवतायास्मै चक्ररूपाय मन्त्रतः || ३१-५ || प्रकृतिवियुक्तात्मस्वरूपविषयकः प्रश्नः नारदः वियुक्तं प्रकृते रूपमात्मनो वक्तुमर्हसि | केनोपायेन तत्प्राप्तिस्तन्मे ब्रूहि सुनिश्चितम् || ३१-६ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः शृणु तत् परमं सूक्ष्मं सर्वगं सर्वभृत् तथा | ज्ञानरूपमनाद्यन्तमविकारि निरामयम् || ३१-७ || अचक्षुःश्रोत्रमस्पर्शमपाणिचरणं ध्रुवम् | नामजात्यादिरहितमवर्णमगुणं त्वपि || ३१-८ || विश्वश्रवो विश्वचक्षुर्विश्वपाणिपदं परम् | असक्तमचरं शान्तं स्वयंज्योतिरनौपमम् || ३१-९ || दूरस्थमन्तिकचरं ज्ञानगम्यं निरञ्जनम् | प्. २८१) भूतभर्तृ समज्योतिर्ज्योतिषां तमसः परम् || ३१-१० || अक्षरं सर्वभूतस्थं तद्विष्णोः परमं पदम् | योगकर्मणोर्विविक्तात्मस्वरूपप्राप्तिसाधनता तत्प्राप्तिसाधनं योगः कर्म च श्रुतिचोदितम् || ३१-११ || तद्विषयकः प्रश्नः नारदः कीदृशं कर्म विज्ञेयं योगः कीदृश उच्यते | याभ्यां संप्राप्यते चात्मा केवलं प्रकृतेः परः || ३१-१२ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः शृणुष्व प्रथमं कर्म द्विविधं तदिहोच्यते | कर्मणां द्वैविध्यम् एकं प्रवर्तकं प्रोक्तं निवर्तकमथापरम् || ३१-१३ || प्रवर्तकनिवर्तककर्मणोः क्रमादभ्युदयनिश्रेयससाधनत्वम् प्रवर्तकं च स्वर्गादिफलसाधनमुच्यते | निवर्तकाख्यं देवर्षे विज्ञेयं मोक्षसाधनम् || ३१-१४ || जीवपरसंयोगस्याष्टाङ्गयोगशब्दार्थता संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः | अष्टाङ्ग एष कथितो येनात्मा दृश्यतां गतः || ३१-१५ || योगाङ्गपरिगणनम् प्. २८२) अष्टाङ्गान्यस्य वक्ष्यामि पृथक् तानि निशामय | यमश्च नियमश्चैवमासनं तदनन्तरम् || ३१-१६ || प्राणायामस्ततः प्रोक्तः प्रत्याहारश्च धारणा | ध्यानं तथा समाधिश्चाप्यङ्गान्येतानि नारद || ३१-१७ || यमस्वरूपनिरूपणम् सत्यं दया धृतिः शौचं ब्रह्मचर्यं क्षमार्जवम् | मिताहारस्तथास्तेयमहिंसेति यमा दश || ३१-१८ || सत्यादीनां स्वरूपनिरूपणम् हितरूपं वचः सत्यं यथादृष्टार्थगोचरम् | दया दुःखासहिष्णुत्वं सर्वभूतेषु सर्वदा || ३१-१९ || आपद्यपि स्वकार्येषु कर्तव्यत्वस्थितिर्धृतिः | शौचं सर्वेन्द्रियाणां च वैधकर्मसु योग्यता || ३१-२० || ब्रह्मचर्यं स्वयोषित्सु भोग्यताबुद्धिवर्जनम् | अविकारमनस्त्वं तु क्षमा विकृतिहेतुषु || ३१-२१ || वाङ्मनःकायवृत्तीनामेकरूपत्वमार्जवम् | मिताहारस्त्वाश्रमिणां श्रुतिचोदितभोजनम् || ३१-२२ || अस्तेयमस्पृहान्येषां वित्ते वाक्कायमानसैः | अहिंसा वाङ्मनःकायैः परपीडानिवर्तनम् || ३१-२३ || नियमस्वरूपनिरूपणम् सिद्धान्तश्रवणं दानं मतिरीश्वरपूजनम् | संतोषस्तप आस्तिक्यं ह्रीर्जपश्च तथा व्रतम् || ३१-२४ || एते तु नियमाः प्रोक्ता दश योगस्य साधकाः | सिद्धान्तश्रवणादीनां स्वरूपनिरूपणम् सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः || ३१-२५ || दानं न्यायार्जितार्थस्य सत्पात्रे प्रतिपादनम् | विहिते कर्मणि श्रद्धा मतिरित्यभिधीयते || ३१-२६ || यथाशक्त्यर्चनं भक्त्या विष्णोरीश्वरपूजनम् | संतोषोऽलमनेनेति प्रीतिर्यादृच्छिकेन वै || ३१-२७ || कृच्छ्रचान्द्रायणाद्यैश्च तपो देहविशोषणम् | आस्तिक्यम्स्ति वेदैकगम्यं वस्त्विति निश्चयः || ३१-२८ || निषिद्धकर्मकरणे व्रीडा ह्रीः प्रोच्यते बुधैः | गुरूपदिष्टस्वाध्यायमन्त्राभ्यासो जपः स्मृतः || ३१-२९ || सदाचार्योपदिष्टेषूपायत्वप्रग्रहो व्रतम् | अथासनानां स्वास्थ्यहेतुत्वम् आसनानि प्रवक्ष्यामि मुख्यानि विविधानि च || ३१-३० || आस्थायैषामन्यतमं योगिनो यान्ति निर्वृतिम् | प्. २८४) मुख्यासनपरिगणनम् चक्रं पद्मासनं कूर्मं मायूरं कौक्कुटं तथा || ३१-३१ || वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा | मुक्तासनं गोमुखं च मुख्यान्येतानि नारद || ३१-३२ || चक्रासनम् सव्योरुं दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे | निदध्यादृजुकायस्तु चक्रासनमिदं परम् || ३१-३३ || पद्मासनम् ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम् | पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम् || ३१-३४ || कूर्मासनम् गुदं निपीड्य गुल्फाभ्यां व्युत्क्रमेण समाहितः | एतत् कूर्मासनं प्रोक्तं योगसिद्धिकरं परम् || ३१-३५ || मयूरासनम् निवेश्य कूर्परौ सम्यङ् नाभिमण्डलपार्श्वयोः | अवष्टभ्य भुवं पाणितलाभ्यां व्योम्नि दण्डवत् || ३१-३६ || समोन्नतशिरःपादो मायूरासनमिष्यते | एतत् सर्वविषघ्नं च सर्वव्याधिनिवारणम् || ३१-३७ || कुक्कुटासनम् प्. २८५) पद्मासनमधिष्ठाय जान्वन्तरविनिःसृतौ | करौ भूमौ निवेश्यैतद्व्योमस्थं कुक्कुटासनम् || ३१-३८ || वीरासनम् एकत्रोरौ तु संस्थाप्य पादमेकमथेतरम् | ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् || ३१-३९ || स्वस्तिकासनम् उभे पादतले कृत्वा जानूर्वोरन्तरे दृढम् | ऋजुकायः समासीत स्वस्तिकं तत् प्रचक्षते || ३१-४० || भद्रासनम् सीवन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम् | बद्ध्वा कराभ्यां तत् प्रोक्तं भद्रासनमघापहम् || ३१-४१ || सिंहासनम् सीवन्याः पार्श्वयोर्गुल्फौ व्युत्क्रमेण निवेश्य च | करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गुलीः || ३१-४२ || नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुः सुधीः | एतत् सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् || ३१-४३ || मुक्तासनम् प्. २८६) मेढ्रादुपरि विन्यस्य सव्यगुल्फमिहेतरम् | गुल्फं विन्यस्य पाणी चाप्यङ्गमध्ये निवेश्य च || ३१-४४ || मुक्तासनमिदं प्रोक्तं स्थिता यत्र मुमुक्षवः | गोमुखासनम् उभयोर्गुल्फयोः कृत्वा पृष्ठपार्श्वावुभावपि || ३१-४५ || व्युत्क्रमेणाथ पानिभ्यां विन्यस्ताभ्यां विगृह्य च | पृष्ठगाभ्यां पदाङ्गुष्ठावेतद् गोमुखमुच्यते || ३१-४६ || प्राणायामसिद्धये नाडीशुद्ध्यावश्यकता प्राणायामप्रसिद्ध्यर्थं नाडीशुद्धिमनन्तरम् | देहस्थवायुभिः कुर्यात् साग्निभिश्च तपोधन || ३१-४७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां योगाङ्गयमनियमासननिरूपणं नामैकत्रिंशोऽध्यायः || ३१ || आदितः श्लोकाः १८७२ नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम द्वात्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || नाडीसंख्यास्थानादिप्रश्नः नारदः नाडयः कति तिष्ठन्ति कीदृश्यः किंप्रमाणकाः | क्व वर्तन्ते शरीरेऽस्मिन् कथमासां विशोधनम् || ३२-१ || वायुसंख्यादिप्रश्नः वायवः कति तिष्ठन्ति किंनामानश्च कीदृशाः | कानि कर्माण्यमीषां तु तत् सर्वं वक्तुमर्हसि || ३२-२ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः तदेतत् परमं गुह्यं शृणुष्वानन्यमानसः | शरीरस्य षण्णवत्यङ्गुलपरिमाणत्वम् प्. २८८) शरीरं सर्वजन्तूनामङ्गुलीभिरनामयम् || ३२-३ || स्वाभिः स्वाभिः सुरमुने षण्णवत्यङ्गुलात्मकम् | शरीरमध्यभागनिर्णयः शरीरमध्यः क इति शुश्रूषा चेन्महामुने || ३२-४ || श्रूयतां पायुदेशात्तु द्व्यङ्गुलात् परतः परम् | मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्य उच्यते || ३२-५ || शरीरस्थवह्निमण्डलस्वरूपम् चतुष्कोणं त्रिकोणं तद् वृत्तमाग्नेयमण्डलम् | चतुष्पदां नृणां चैव विहंगानां यथाक्रमम् || ३२-६ || नाडीमूलस्थानम् मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां कन्द उच्यते | चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् || ३२-७ || अण्डाकारं परिवृतं मेदोमांसास्थिशोणितैः | नाभिचक्रस्थानम् तत्रैव नाभिचक्रं तु द्वादशारं प्रतिष्ठितम् || ३२-८ || शरीरं ध्रियते येन तस्मिन् वसति कुण्डली | नाभिचक्रस्यारेषु सुदर्शनमन्त्रवर्णन्यासः सौदर्शनस्य मन्त्रस्य यानि वर्णानि सन्ति वै || ३२-९ || प्. २८९) विभज्य तानि सर्वाणि व्यञ्जनानि स्वरांस्तथा | चक्रेऽस्मिन् विन्यसेत् तानि प्राच्याद्यारेषु च क्रमात् || ३२-१० || शिष्टाक्षराणां चक्रमध्ये न्यासः शेषाणि विन्यसेन्मध्ये चक्रस्यास्य समाहितः | नाभिचक्रं परितः कुण्डल्यवस्थितिः वर्तते परितश्चक्रमष्टवक्त्राथ कुण्डली || ३२-११ || अष्टप्रकृतिरूपेण भोगेनावेष्ट्य वैष्णवी | ब्रह्मरन्ध्रं सुषुम्नायाः पिदधाति मुखेन वै || ३२-१२ || चक्रमध्ये अलम्बुसासुषुम्नयोः स्थितिः अलम्बुसा सुषुम्ना च मध्ये चक्रस्य तिष्ठतः | अन्यासां द्वादशनाडीनां स्थानभेदाः अरे प्राच्ये सुषुम्नायाः कुहूर्नाडी वसत्यसौ || ३२-१३ || अनन्तरारयुग्मे च वारुणा च यशस्विनी | दक्षिणारे सुषुम्नायाः पिङ्गला वर्तते क्रमात् || ३२-१४ || तदनन्तरयोः पूषा वर्तते च पयस्विनी | सुषुम्नापश्चिमे चारे स्थिता नाडी सरस्वती || ३२-१५ || शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते | प्. २९०) उत्तरे च सुषुम्नाया इडाख्या निवसत्यरे || ३२-१६ || अनन्तरं हस्तिजिह्वा ततो विश्वोदरा स्थिता | प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः || ३२-१७ || वर्तन्ते द्वादशस्वेता द्वादश ब्रह्मणः सुताः | मुख्यानां चतुर्दशनाडीनां नामानि इडा च पिङ्गला चैव सुषुम्ना च सरस्वती || ३२-१८ || कुहूः पयस्विनी चैव वारुणा च यशस्विनी | विश्वोदरा हस्तिजिह्वा गान्धारी शङ्खिनी तथा || ३२-१९ || अलम्बुसा च पूषा च मुख्यास्त्वेताश्चतुर्दश | देहवर्तिनाडीसंख्या द्विसप्ततिसहस्राणि नाडीनां देहवर्तिनाम् || ३२-२० || मुख्यास्तिस्रो नाड्यः तासु तिस्रो मुख्यतमाः सुषुम्नेडा च पिङ्गला | तास्वपि सुषुम्ना मुख्यतमा तासां सुषुम्ना मुख्या स्यादामूर्धान्तं व्यवस्थिता || ३२-२१ || जीवस्य नाडीचक्रे भ्रमणम् प्राणारूढो भवेज्जीवश्चक्रेऽस्मिन् भ्रमते सदा | ऊर्णनाभिर्यथा तन्तुपञ्जरान्तर्व्यवस्थितः || ३२-२२ || सुषुम्नाया मध्यमरन्ध्रस्य कुण्डल्या पिधानम् प्. २९१) पञ्चरन्ध्र्याः सुषुम्नायाश्चत्वारो रक्तपूरिताः | कुण्डल्या पिहितं शश्वद् ब्रह्मरन्ध्रं तु मध्यमम् || ३२-२३ || नाडीनां परिमाणनिरूपणम् प्राच्यः पार्श्वः सुषुम्नाया ललाटान्तं समुच्छ्रितः | प्रतीच्यः कन्धरान्तस्तु द्वौ पार्श्वौ सव्यदक्षिणौ || ३२-२४ || आ पार्श्वशिरसः प्राप्तौ गुह्यमेतदुदाहृतम् | अलम्बुसाख्या नाडी स्यादापादान्तं व्यवस्थिता || ३२-२५ || आमेढ्रान्तं कुहूः प्राप्ता वारुणा विश्वदेहगा | आदक्षिणपदाङ्गुष्ठं संप्राप्ताथ यशस्विनी || ३२-२६ || प्राप्ता दक्षिणनासान्तं पिङ्गलाख्या तु नाडिका | पूषा पयस्विनी चैव दक्षिणाक्षिश्रुती गते || ३२-२७ || जिह्वामूलमभिप्राप्ता नाडी नाम्ना सरस्वती | शङ्खिनी वामकर्णं च गान्धारी वामलोचनम् || ३२-२८ || वामघ्राणं गता नाडी इडा नाम्नेति विश्रुता | प्राप्ता वामपदाङ्गुष्ठं हस्तिजिह्वा तु नाडिका || ३२-२९ || विश्वोदरोदरं प्राप्ता प्रोक्ता नाडीगतिर्मया | इडापिङ्गलयोश्चन्द्रसूर्यावस्थितिः इडायां वर्तते चन्द्रः पिङ्गलायां प्रभाकरः || ३२-३० || प्. २९२) द्वावेव कुरुतः कालं भुङ्क्ते तं ब्रह्मनाडिका | शरीरवायुवृत्तान्तकथनम् श्रूयतां वायुवृत्तान्तः शरीरान्तरवस्थितः || ३२-३१ || शरीरे दश वायवः प्राणापानसमानाश्चाप्युदानो व्यान एव च | नागः कूर्मश्च कृकरो देवदत्तो धनंजयः || ३२-३२ || प्राणादिवायूनां स्थाननिरूपणम् सदा निवसति प्राणो नाभिचक्रे समीरणः | आस्यनासिकयोर्मध्ये हृदि प्राणः प्रकाशते || ३२-३३ || अपानो वसति प्रायो गुदमेढ्रोरुजानुषु | उदरे वृषणे कट्यां जङ्घानाभ्योः प्रदीपवत् || ३२-३४ || गुदाग्न्यगारयोस्तिष्ठन् मध्येऽपानः प्रकाशते | व्यानः श्रोत्राक्षिमध्ये च कृकाट्यां गुल्फयोरपि || ३२-३५ || घ्राणे गले च स्फिग्देशे वसत्यत्र न संशयः | उदानः सर्वसंधिस्थः पादयोर्हस्तयोरपि || ३२-३६ || समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः | प्राणादीनां वृत्तिनिरूपणम् निश्वासोच्छ्वासकादीनि प्राणकर्म इतीष्यते || ३२-३७ || प्. २९३) हानोपादानकर्मैव व्यानकर्मेति चेष्यते | उदानकर्म तत् प्रोक्तं देहस्योन्नयनादिकम् || ३२-३८ || पोषणादि समानस्य शरीरे कर्म कीर्तितम् | उद्गारादिगुणो यस्तु नागकर्मेति चेरितम् || ३२-३९ || निमीलनादि कूर्मस्य क्षुतं कृकरकस्य च | देवदत्तस्य देवर्षे तन्द्रीकर्मेति चेरितम् || ३२-४० || धनंजयस्य शोफादि सर्वकर्म प्रकीर्तितम् | एवं वायुगतिः सर्वा कर्म तेषां च कीर्तितम् || ३२-४१ || नाडीशोधनविधिः ततश्च सर्वनाडीनां कुर्याच्छोधनमात्मवान् | तच्छोधनप्रकारः इडया वायुमापूर्य बाह्यं षोडशमात्रकैः || ३२-४२ || धारयन्नुदरे वायुं मात्रा द्वात्रिंशतं ततः | स्मरेत् स्वमण्डले वह्निं तत्र रेफं सबिन्दुकम् || ३२-४३ || नासाग्रे शशिनो बिम्बं स्मरेत् पीयूषवर्षिणम् | स्मृत्वा चन्द्रे वकारं च सबिन्दुं रेचयेत् ततः || ३२-४४ || पुनः पिङ्गलयापूर्य यथोक्तेनैव वर्त्मना | धृत्वा च मातरिश्वानमिडया रेचयेत् पुनः || ३२-४५ || एवं त्रिसंध्यां त्रिः कृत्वा कुर्यान्नित्यं समाहितः | उक्तक्रमेण शोधयतो मासत्रयेण नाडीशुद्धिसिद्धिः प्. २९४) एवं नियमयुक्तस्य कुर्वतः सर्वनाडयः || ३२-४६ || मासत्रयेण शुद्धाः स्युरिति योगविदो विदुः | ततो वायुजयः ततश्च मरुतां कुर्युर्विजयं देहवर्तिनाम् || ३२-४७ || वायुजयान्मनसः स्थैर्यम् ततश्च वायवो देहे यत्र यत्र वसन्ति वै | तत्र तत्र मनःस्थैर्यं वह्निना सह नारद || ३२-४८ || प्राणायामविधिः प्राणायामं ततः कुर्यात् सर्वपापप्रणाशनम् | शिखादिस्थानेषु मनोः षडक्षरन्यासः शिखास्थाने नाभिचक्रे हृदयाम्बुरुहे ततः || ३२-४९ || कण्ठकूपे भ्रुवोर्मध्ये जिह्वामूले तथैव च | मनोः षडक्षराण्येषु क्रमेणैव विचिन्तयेत् || ३२-५० || प्राणायामप्रकारः वायुं षोडशमात्राभिरिडयापूर्य चिन्तयेत् | हृन्मध्ये परमात्मानं चक्ररूपिणमव्ययम् || ३२-५१ || प्. २९५) यावच्छक्ति जपेन्मन्त्रमिमं सौदर्शनं स्मरन् | पुनः षोडशमात्राभी रेचयेत् पिङ्गलाह्वया || ३२-५२ || अनया पुनरारोप्य धृत्वा चेतरया त्यजेत् | पूरणे कुम्भके चैव रेचने प्रणवं जपेत् || ३२-५३ || दश पञ्चाशतं चैव चतुर्दश शतं क्रमात् | गायत्रीं यदि वा जप्त्वा कुर्यादुक्तेन वर्त्मना || ३२-५४ || एवं प्रतिदिनं कुर्यात् प्राणायामांस्तु षोडश | एते पुनन्ति मासेन महापातकिनं नरम् || ३२-५५ || प्रत्याहारनिरूपणम् प्रत्याहारं ततः कुर्यादङ्गैः पञ्चभिरन्वितम् | स्वभावेनेन्द्रियार्थेषु प्रवृत्तं मानसं बुधैः || ३२-५६ || तद्दोषदर्शनात् तेभ्यः समाहृत्य बलेन तु | निवेशनं भगवति प्रत्याहार इति स्मृतः || ३२-५७ || धारणानिरूपणम् विषयेषु च वैराग्यादभ्यासाद् गुणदर्शनात् | परमात्मनि संरोधो मनसो धारणा स्मृता || ३२-५८ || ध्याननिरूपणम् तदेवं धृतचित्तस्तु चक्ररूपं जनार्दनम् | ध्यायीत नियतस्तस्मिन् युञ्जानः प्रथमं मनः || ३२-५९ || वर्णाश्रमधर्माणां ध्यानेतिकर्तव्यतात्वम् प्. २९६) रमणीये शुचौ देशे विविक्ते सजले वने | वर्णाश्रमोचिते धर्मे वर्तमानः प्रसन्नधीः || ३२-६० || शान्तः सर्वगुणोपेतः सममासनमास्थितः | ऋजुकायः स्वनासाग्रन्यस्तदृग् भक्तिमान् हरौ || ३२-६१ || प्राणायामोत्थितेनैव वायुना साग्निना मुखम् | कुण्डल्यास्तु विनिर्भिद्य सुषुम्नामध्यवर्तिना || ३२-६२ || विकास्य हृदयाम्भोजे तदाकाशे शिखास्पदे | स्फुरद्वह्निशिखामध्ये चिन्तयेदद्भुताकृतिम् || ३२-६३ || ध्यानालम्बनभूतध्येयस्वरूपनिरूपणम् पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वलज्ज्वलनतेजसम् | दंष्ट्राकरालवदनं भ्रुकुटीभीमदर्शनम् || ३२-६४ || विद्युत्पुञ्जप्रतीकाशैरूर्ध्वकेशैर्विराजितम् | विचित्रानन्दमाणिक्यमुक्ताढ्यमुकुटोज्ज्वलम् || ३२-६५ || पूर्णचन्द्रप्रतीकाशमणिताटङ्कमण्डितम् | भुजाभिरष्टभिर्युक्तं रत्नाम्बरधरं विभुम् || ३२-६६ || शङ्खचक्रगदाशार्ङ्गमुसलैः परमायुधैः | प्. २९७) पाशाङ्कुशाम्बुजैरन्यैरुपेतं परदारुणैः || ३२-६७ || दिव्यमाल्याम्बरधरं दिव्यचन्दनचर्चितम् | हारकेयूरकटककाञ्चीमञ्जीरमण्डितम् || ३२-६८ || अन्यैश्च विविधैश्चित्रैर्भूषणैरुपशोभितम् | पद्मासनस्थं भक्तानां विश्वेषामभयप्रदम् || ३२-६९ || एवं ध्यायन् विमुच्येत मुक्तः सकलकिल्बिषैः | समाधिनिरूपणम् तदेवं स्मृतिसंतानजनितोत्कर्षणं क्रमात् || ३२-७० || अर्थमात्रावभासं तु समाधिं योगिनो विदुः | समाधिनिष्ठस्य महिमानुवर्णनम् ततः समाधिमास्थाय तन्मयत्वमुपागतः || ३२-७१ || तस्य प्रभावमखिलमश्नुते शक्तिशालिनः | अणिमादिगुणाः सर्वे भवन्त्यस्य महात्मनः || ३२-७२ || निःसहायः सपत्नानामनीकानि बहून्यपि | हिनस्त्येष यथा चक्रं चक्रं दैतेयरक्षसाम् || ३२-७३ || मनीषितानि सर्वानि स्वयमस्योपयान्ति वै | सिद्धा विद्याधरा यक्षाः कैंकर्यं तस्य कुर्वते || ३२-७४ || देवाश्च ऋषयः सर्वे गन्धर्वाप्सरसां गणाः | प्. २९८) तदाज्ञाकारिणः सर्वे पिशाचोरगराक्षसाः || ३२-७५ || निखिलभुवनजन्मस्थेमभङ्गैकहेतु- र्भवति सकलवेत्ता सर्वदृक् सर्वशक्तिः | अभिमतबहुरूपो दैत्यरक्षांसि निघ्नन् परिहृतपरिवारो वर्तते पूर्णकामः || ३२-७६ || इति पाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् नाडीशुद्धिवायुजययोगाङ्गप्राणायामादिनिरूपणं नाम द्वात्रिंशोऽध्यायः || ३२ || आदितः श्लोकाः १९४८ मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || उक्तार्थानुवादः नारदः भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा | परिवारास्तथा मन्त्राः शस्त्रैरस्त्रैश्च दैवतैः || ३३-१ || शक्तिभिर्मण्डलैश्चित्रैः पद्मैर्बहुविधैरपि | एतैर्विशिष्टमाख्यातं यन्त्ररूपमनुत्तमम् || ३३-२ || सर्वेषामेव जन्तूनां वर्णानां परमेश्वर | क्षत्रियस्य विशेषेण रक्षार्थं यन्त्रमीरितम् || ३३-३ || सुदर्शनप्रभावविषयकस्त्रिधा प्रश्नः एतस्य यन्त्रराजस्य महिमा कथितः पुरा | प्रभावश्चक्ररूपस्य देवस्य किमयं स्मृतः || ३३-४ || सुदर्शननृसिंहस्य किमु किं परिवारजः | तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो || ३३-५ || प्. ३००) विस्तरेण तदुत्तरकथनारम्भः अहिर्बुध्न्यः सुदर्शनप्रभावोऽयं संक्षेपात् कथितो मया | विस्तारमस्य देवर्षे कथ्यमानमिमं शृणु || ३३-६ || सा भूमानं प्रति प्रायो महतां परिवारता | न चेद्भूमास्य नास्त्येव परिवायत्वसंभवः || ३३-७ || सर्वस्यापि सुदर्शनात्मकत्वम् ततश्चक्रमयं सर्वं जगत् स्थावरजङ्गमम् | सुदर्शनस्यैव कालचक्रात्मकत्वम् चक्रात्मानमनाद्यन्तं कालं प्रथमतः शृणु || ३३-८ || कालचक्रस्वरूपनिरूपणम् त्रिनाभियुक्तं षण्नेमि पञ्चारं चक्रमव्ययम् | संवत्सरमयं यत् तत् कालचक्रमिति स्मृतम् || ३३-९ || सर्वस्यापि कालचक्रवशवर्तित्वम् तद्वशे वर्तते विश्वं चेतनाचेतनात्मकम् | परमात्मा कालचक्रप्रवर्तकः परिवर्तयते देवस्तदेतच्चक्ररूपधृत् || ३३-१० || जगच्चक्रनिरूपणम् अव्यक्तादिविशेषान्ततत्त्वरूपैररैर्वृतम् | प्. ३०१) चतुर्विंशतिसंख्याकैः पुरुषात्मकनेमियुक् || ३३-११ || परमात्मनस्तत्प्रेरकत्वम् जगच्चक्रमिति ख्यातं तच्च प्रेरयति स्वयम् | परमात्मनो नाभिचक्रप्रेरकत्वम् स्थीयते द्वादशारेण नाभिचक्रेण देहिनः || ३३-१२ || शरीरं तच्च तेनैव प्रेर्यते चक्ररूपिणा | परमात्मनः सर्वप्रेरकत्वनिगमनम् अतः प्रेरयिता देवः समस्तस्य जनार्दनः || ३३-१३ || सुदर्शनवपुः श्रीमाननादिप्रभवाप्ययः | तस्यैव जगत्सर्गस्थितिसंहारहेतुत्वम् ज्ञानस्वरूपो भगवान् पूर्णषाङ्गुण्यविग्रहः || ३३-१४ || स एव सर्वभूतानां स्रष्टा पालयितान्तकः | तस्यैव शिवरूपधरस्य शैवैराराध्यत्वम् स एव शिवरूपेण शैवैराराध्यते प्रभुः || ३३-१५ || तस्यैव ब्रह्मरूपेण जगत्स्रष्टृत्वम् स एव ब्रह्मरूपेण सृजत्येतच्चराचरम् | तस्यैव स्वांशरूपेण जगत्पालकत्वम् स एव पालयत्येतद् विष्णुर्भूत्वा जनार्दनः || ३३-१६ || तस्यैव रुद्ररूपेण संहर्तृत्वम् प्. ३०२) स एव रुद्ररूपेण संहरत्यखिलं जगत् | तस्यैव बुद्धरूपत्वम् बुद्धात्मना च बौद्धानां स एव जगति स्थितः || ३३-१७ || तस्यैव दिगम्बररूपत्वम् स एव शाम्बराणां च निरावरणरूपधृत् | तस्यैव जिनरूपत्वम् स एव चार्वाकमते जिनेश्वरवपुर्धरः || ३३-१८ || तस्यैव यज्ञपुरुषरूपत्वम् स एव याज्ञिकानां च यज्ञपूरुषसंज्ञकः | मीमांसकैः स एवायमुपास्यत्वेन चोद्यते || ३३-१९ || कापिलमते तस्यैव पुरुषरूपत्वम् कापिलैः पुरुषत्वेन स एवाख्यायते विभुः | सर्वस्वरूपत्वात् तस्यैव सर्वफलप्रदत्वम् उपास्यत्वेन ये प्राहुर्यं यं तत्तद्वपुर्धरः || ३३-२० || तेषां मनीषितं सर्वं स एवाशु प्रयच्छति | देवादिरूपधारणादपि चक्ररूपधारणं भगवतः प्रियतमम् प्. ३०३) एतेषामेव देवानां स्वतनूनां जनार्दनः || ३३-२१ || परं प्रीणाति भगवांश्चक्ररूपधरो हरिः | तत्र हेतुनिरूपणम् स्वसमाश्रितरक्षायां परेषां च निबर्हणे || ३३-२२ || इदमेव वपुर्धत्ते सुदर्शनमयं हरिः | रहस्यमेतत् कथितं भक्तोऽसीति तपोधन || ३३-२३ || तत्रेतिहासोदाहरणम् पुरावृत्तं सुरमुने शृणुष्व गदतो मम | दुर्धर्षो नाम राजर्षिर्धार्मिको दृढविक्रमः || ३३-२४ || प्रमगन्दसुतः श्रीमान्नैचाशाखपुरे वसन् | धर्मतः पालयामास सप्तद्वीपवतीं महीम् || ३३-२५ || वत्सला नाम तस्याभून्महिषी वरवर्णिनी | सा तस्य जनयामास मणिशेखरमात्मजम् || ३३-२६ || सोऽप्यवस्थामतिक्रम्य प्रथमां मणिशेखरः | रमणीयाकृतिः शूरः प्राप्तविद्यः परंतपः || ३३-२७ || संप्राप्तयौवनः श्रीमान् प्राचीं भार्यामविन्दत | सर्वलोकाधिपत्यार्हमेनं दुर्धर्षणः सुतम् || ३३-२८ || निधाय राज्ये तत्रैव जगाम तपसे वनम् | प्. ३०४) पितेव पालयामास स समुद्रवतीं महीम् || ३३-२९ || प्राच्यां पुत्रः समभवंस्तस्य सप्त महात्मनः | पालयत्यवनीं तस्मिन् निखिलां मणिशेखरे || ३३-३० || तस्मिन् काले समभवत् सर्वप्राणिभयंकरः | विकटाक्ष इति ख्यातो ब्रह्मदत्तवरो बली || ३३-३१ || महासुरेण तेनैव पीडिता सकला मही | तत्पुत्रैस्तस्य पौत्रैश्च प्रपौत्रैः पूरिता मही || ३३-३२ || तेऽसुराः सर्वभूतानि पीडयन्ति स्म भीषणाः | विकटाक्षसमाज्ञप्ता भीमरूपाः सहस्रशः || ३३-३३ || कांश्चिद्विद्रावयन्ति स्म कांश्चिज्जघ्नुस्तरस्विनः | द्विजातीनां मुनिश्रेष्ठ यज्ञव्यासेधमाचरन् || ३३-३४ || सर्वेषामेव वर्णानां तत्तदाश्रमवासिनाम् | अबाधिषत कर्माणि विहितानि यथातथम् || ३३-३५ || पृथिव्यां यानि रत्नानि धनानि विपुलानि च | स्वस्मै प्रदापयामास विकटाक्षो महासुरः || ३३-३६ || ततः संपीडिताः सर्वाः प्रजास्तेन दुरात्मना | व्यजिज्ञपंस्तद् वृत्तान्तं मणिशेखरभूभुजे || ३३-३७ || क्रोधेन महताविष्टो राजा राजीवलोचनः | प्. ३०५) अभियोद्धुं मनश्चक्रे विकटाक्षं महासुरम् || ३३-३८ || समानीय ततः सर्वान् सैनिकान् समनह्यत | तस्य संनाहमालोक्य मन्त्रिणस्तस्य संगताः || ३३-३९ || इदमूचुरवध्यत्वं तस्य सेनाभियोगतः | पुरा दुरात्मावृणुत तपःअस्ंतोषिताद्विधेः || ३३-४० || ये मामभिमुखायाताः शत्रवस्तैरवध्यताम् | एवमस्त्विति तेनोक्ते विकटाक्षोऽतिदर्पितः || ३३-४१ || ततः प्रभृत्यजययोऽभूच्छत्रुभिः संमुखागतैः | तस्मात् त्वमपि संनाहमुपसंहर तं प्रति || ३३-४२ || ततः स शुश्रुवान् वाक्यं मन्त्रिभिः समुदीरितम् | ततः संग्रामसंनाहाद् विरराम महीपतिः || ३३-४३ || ततः क्रतुं समाहूय पुरोधसमनागसम् | मन्त्रयामास नृपतिस्तेन मन्त्रविदा समम् || ३३-४४ || विकटाक्षस्य वृत्तान्तं सर्वमाख्याय तत्त्वतः | परैरजययतां चास्य युद्धे संमुखवर्तिभिः || ३३-४५ || येनोपायेन भगवन् जेष्यामस्तं दुरासदम् | ब्रूहि तं सकलाः स्वस्था भवेयुर्मामिकाः प्रजाः || ३३-४६ || एवमुक्तस्तदा तेन भूभुजा स पुरोहितः | चिन्तयित्वा चिरायैतदुवाच मणिशेखरम् || ३३-४७ || प्. ३०६) सत्यं न शक्यते जेतुं युद्धे स वरदर्पितः | भगवन्तमृते विष्णुं शङ्खचक्रगदाधरम् || ३३-४८ || नीलजीमूतसंकाशं पुण्डरीकायतेक्षणम् | अप्रमेयं जगन्नाथमाश्रितार्तिविनाशनम् || ३३-४९ || उत्तुङ्गमङ्गलगुणं दैत्यचक्रप्रमर्दनम् | नास्त्युपायान्तरं लोके तत्समं जगतीपते || ३३-५० || अतस्तं शरणं गच्छ सर्वभावेन भूपते | चक्ररूपधरं देवं भक्तरक्षणदीक्षितम् || ३३-५१ || तत्प्राप्त्युपायं जानाति दुर्वासा मुनिसत्तमः | तत्प्रासादात् तमसुरं संहर्तुं सकलं क्षमम् || ३३-५२ || तमृषिं सर्वभूतानां भीषणं गच्छ सांप्रतम् | एवमेवेति निश्चित्य राजा परमधार्मिकः || ३३-५३ || निर्जगाम पुरात् तस्मात् सार्धं तेन पुरोधसा | हिमवच्छिखरे रम्ये तपस्यन्तं महामुनिम् || ३३-५४ || वसानं वल्कले शुभ्रे शुभ्रयज्ञोपवीतिनम् | जटाजिनधरं शान्तं ज्वलत्पावकसंनिभम् || ३३-५५ || तं तथावस्थितं राजा जगाम सपुरोहितः | स मुनिस्तौ मुनिश्रेष्ठो दृष्ट्वा राजपुरोहितौ || ३३-५६ || तौ समभ्यर्च्य विधिना स्वागतं व्याजहार ह | प्. ३०७) इमं देशमनुप्राप्तौ किमर्थं वनगोचरम् || ३३-५७ || भवन्तौ लक्षये साक्षाद् ब्रह्मक्षत्रे सविग्रहे | प्रमगन्दसुतं वीर जाने त्वां मणिशेखरम् || ३३-५८ || सप्तद्वीपवती पृथ्वी तव वश्येति शुश्रुम् | सर्वेष्वङ्गादिधर्मेषु भवतः किमनामयम् || ३३-५९ || प्रजाः पालयसे सर्वाः स्वधर्मस्था महीपते | क्रतुं पुरोहितं लब्ध्वा भवतः किं न सेत्स्यति || ३३-६० || अनूचानो मुनिः श्रेयान् सर्वेषां च तपस्विनाम् | शान्तो दान्तः शुचिः श्रीमान् सत्यवादी दृढव्रतः || ३३-६१ || धर्मज्ञः सर्वशास्त्रज्ञः सर्वकर्मसु कोविदः | कर्मठः शीलसंपन्नो यायजूको निरामयः || ३३-६२ || कृपानुरक्तः सर्वेषु समबुद्धिः समाधिमान् | दैष्टिकः परमोदारो धृतिमान् राजसत्कृतः || ३३-६३ || सर्वैरनुमतः शश्वद् भक्तिमान् पुरुषोत्तमे | षण्णां समयधर्माणामभिज्ञो नयकोविदः || ३३-६४ || दयालुरभिजातश्च साधकः सर्वमन्त्रवित् | अन्यैश्च सद्गुणैर्युक्तः पुरोहित इति स्मृतः || ३३-६५ || ईदृशोऽयं क्रतुः साक्षाद् बृहस्पतिरिवापरः | अनेन सर्वकार्याणि कुरुष्व मणिशेखर || ३३-६६ || प्. ३०८) तथापि कैश्चिदरिभिः परिभूत इवागतः | आख्याहि सर्वं नृपते किमागमनकारणम् || ३३-६७ || एवमुक्त्वा महातेजा विरराम तपोधनः | अथ क्रतुर्मुनिश्रेष्ठः प्राह दुर्वाससं प्रति || ३३-६८ || राजकार्यमशेषेण समागमनकारणम् | स्वराज्यं विकटाक्षेण पीड्यमानं दुरात्मना || ३३-६९ || बलं महासुरस्यास्य दुर्जयत्वमरातिभिः | प्रजापतेर्वरप्राप्तिं तत्संततिविजृम्भणम् || ३३-७० || एवं बहुविधं तस्य चेष्टितं लोकगर्हितम् | व्याहृत्य प्रणिपत्यैनमुवाच विनयान्वितः || ३३-७१ || ब्रूहि तस्य जयोपायं त्वामयं शरणं गतः | त्वमापदः परित्राहि राजानं धर्मवत्सलम् || ३३-७२ || परित्रातान्यनेनैव भुवनानि तपोधन | एवमुक्त्वा मुनिवरं प्रणिपत्य पुरः स्थितौ || ३३-७३ || कृपया परया वीक्ष्य षड्वर्णं मन्त्रमुत्तमम् | सौदर्शनं तयोः प्रादाच्चतुर्वर्गफलप्रदम् || ३३-७४ || अनेन साधयाभीष्टमेतेनैव पुरोधसा | पुरोधा एव राज्ञां हि दृष्टादृष्टार्थसाधकः || ३३-७५ || विशेषेणास्य देवस्य प्रतिष्ठाराधनादिषु | प्. ३०९) वैगुण्यमस्य तत् सर्वमपराधात् पुरोधसः || ३३-७६ || तथा साद्गुण्यमस्यैव राज्ञः कार्येषु भूपते | अन्यैः पौरोधसैः कार्यं कार्यमेतस्य तच्च वै || ३३-७७ || इत्युक्त्वा तौ तदा प्राह पुरावृत्तं महामुनिः | वाराहं रूपमास्थाय भगवान् पुरुषोत्तमः || ३३-७८ || उज्जहार भुवं कल्पे वाराहे सलिलात् ततः | तदाह परमप्रीता देवं देवी वसुंधरा || ३३-७९ || प्रियार्थमनुरक्तानां सदा भूमण्डले त्वया | वर्तितव्यं जगन्नाथ प्रियां तनुमुपेयुषा || ३३-८० || एवमुक्तस्तया देव्या तदा प्रभृति केशवः | सालग्रामाह्वये पुण्ये न्यवसन्मण्डले भुवः || ३३-८१ || सुदर्शनवपुः श्रीमान् भगवान् भक्तवत्सलः | अद्यापि देशमाहात्म्याद् भक्तानामनुकम्पया || ३३-८२ || भुवः प्रार्थनया तत्र नित्यं संनिहितो हरिः | अत्र तप्तं तपो यत् तत् सहस्रगुणितं भवेत् || ३३-८३ || मनुष्याः पशवस्तत्र क्रिमयश्च पतत्रिणः | ये मृताः शङ्खचक्राङ्कास्ते भवन्ति न संशयः || ३३-८४ || भगवान् पुण्डरीकाक्षः सुदर्शनवपुर्धरः | संनिधत्ते सदा तत्र सन्मङ्गलगुणार्णवः || ३३-८५ || तद्देशवासिनो मर्त्याः सुरास्तिर्यञ्च एव च | प्. ३१०) तरवश्चाचलाः सर्वे चक्रमुद्राङ्कितास्तदा || ३३-८६ || सरस्वत्यास्तटे पुण्ये सालग्रामे जनार्दनम् | चक्ररूपं समाराध्य पूर्वोक्तेनैव वर्त्मना || ३३-८७ || तत्प्रसादात् सपत्नांस्त्वं जहि दुष्टविचेष्टितान् | ततो निष्कण्टकां भूमिं पालयैनां पुरा यथा || ३३-८८ || एवमुक्त्वा मुनिश्रेष्ठो राजानं सपुरोहितम् | उपारराम भगवान् दुर्वासा यमिनां वरः || ३३-८९ || ततः प्रणम्य तं राजा पुरोधाश्चापि जग्मतुः | जैत्रं विमानमारुह्य नैचाशाखपुरं प्रति || ३३-९० || सालग्रामं ततो गत्वा भगवन्तं जनार्दनम् | संभृत्य सर्वसंभारांश्चक्ररूपं जगत्पतिम् || ३३-९१ || पुरोधसैव नृपतिरर्चयामास मन्त्रतः | अर्चनेन जपेनैव ध्यानेन च महीपतिः || ३३-९२ || तोषयामास मासेन भक्त्या परमया हरिम् | आविर्बभूव स तदा चक्ररूपी महीपतेः || ३३-९३ || गदामुसलशङ्खारिधनुःपाशाङ्कुशाम्बुजान् | अष्टाभिर्बाहुभिर्दिव्यैर्बिभ्रत् पिङ्गललोचनः || ३३-९४ || ऊर्ध्वपिङ्गलकेशाढ्यो रक्तवर्णो महाद्युतिः | दंष्ट्राकरालवदनः पङ्कजासनसंश्रितः || ३३-९५ || प्. ३११) रक्ताम्बरधरो दृप्तः सर्वभूषणभूषितः | दिव्यमालाधरोरस्कः सस्मितं समुदैक्षत || ३३-९६ || समुदियाय ततो हरिवक्षसः प्रतिहताखिललोकविलोचनम् | वलयिताचिररोचिरिवाम्बरात् परमचक्रमथैन्द्रमतिद्युति || ३३-९७ || प्रथममेकमथो दश तच्छतं दशशतक्रमतो नियुतायुते | भवदथो बहुधा सकलं नभः कलितचक्रमभूदतिभीषणम् || ३३-९८ || युगपद् विकटाक्षदानवं विनिहत्याखिलबान्धवैः सह | तदिहाविषयं व्यतिष्ठत क्षणमाप्लुत्य ययौ सुदर्शनः || ३३-९९ || शशास पृथ्वीं ससमुद्रकाननां जिताखिलद्वीपवतीं सपत्तनाम् | यथा शचीशस्त्रिदिवं सदैवतं पवित्रकीर्तिर्मणिशेखरस्तथा || ३३-१०० || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां मणिशेखरोपाख्यानवर्णनं नाम त्रयस्त्रिंशोऽध्यायः || ३३ || आदितः श्लोकाः २०४८ ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || ब्रह्मास्त्रादिमन्त्रस्वरूपप्रश्नः नारदः भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत | उक्तं चक्राद्विनिष्क्रान्तमस्त्रजातमिह प्रभो || ३४-१ || तेषां स्वरूपं मन्त्राणां सर्वेषां वक्तुमर्हसि | विना त्वां न हि पश्यामि वेत्तारं कमपीश्वर || ३४-२ || तदुत्तरकथनाय तेषां गुह्यतमत्वाख्यानम् अहिर्बुध्न्यः महर्षे यत् त्वया पृष्टमेतद् गुह्यतमं परम् | सुदुर्लभमनाख्येयं कस्मैचित् सर्वसाधकम् || ३४-३ || तथापि तव वक्ष्यामि भक्तोऽसीति महामुने | त्वयाप्येतन्न दातव्यं सुरासुरसमर्चितम् || ३४-४ || १ ब्रह्मास्त्रम् प्. ३१३) फान्तं वह्निसमायुक्तं व्योम हालासमन्वितम् | मेषद्वयं दन्तयुतं हालाहलमतः परम् || ३४-५ || घनाद्यं वायुपूर्वं च दन्तयुक्तमथान्तिमम् | सरसं चर्क्षपर्यायं भान्तं भृगुमतः परम् || ३४-६ || अम्बरं वायुसंयुक्तमरिमर्दनमप्यतः | प्रदीप्तमथ वक्तव्यं परमं च पदं ततः || ३४-७ || तत्ते पदे प्रयोक्तव्ये गायत्र्या मध्यमं ततः | पदत्रयं प्रयोक्तव्यमेतद् ब्रह्मास्त्रमीरितम् || ३४-८ || २ दण्डचक्रम् जीवः पञ्चमवर्गादिश्चतुर्थाद्योऽन्तिमान्वितः | भृगुः सदीर्घो दण्डाद्यो मेषो यष्ट्यपराह्वयः || ३४-९ || आत्मने च पदं तत्र चक्रायेति पदं ततः | वर्मान्त एष मन्त्रस्तु दण्डचक्रमितीष्यते || ३४-१० || ३ कालचक्रम् वारुणं मायया युक्तं वान्तं वारुणसंयुतम् | प्. ३१४) यूपान्तं वह्निना युक्तं मोऽथ साग्निरथात्रियुक् || ३४-११ || धान्तं कालात्मनेत्येतच्चक्रायेति पदं ततः | फडन्त एष मन्त्रस्तु कालचक्रः प्रकीर्तितः || ३४-१२ || ४ धर्मचक्रम् मोन यक्राच नेत्मर्मा तथा ध नमयेति च | निलखीत्यपिचाकारो व्युत्क्रमेण प्रदृश्यते || ३४-१३ || धर्मचक्रमिमं मन्त्रं विदुः पूर्वे महर्षयः | ५ विष्णुचक्रम् तारपूर्वं च हृदयं भगाद्यन्तौ वनादिमः || ३४-१४ || चण्डीशयुक्त आषाढस्तीव्रतेजस इत्यपि | पर्यायं लक्षसंख्याया आरेति च पदं ततः || ३४-१५ || परमत्र प्रयोक्तव्यं भिन्धीति च पदं ततः | भीषयेत्यपि वक्तव्यं विष्णुचक्रमिदं विदुः || ३४-१६ || ६ इन्द्रचक्रम् यषशो कं तथा नीवानदा वन्नपिरूमहि | मिन्नेलज्वेति तारं च इन्द्रचक्रमिदं स्मृतम् || ३४-१७ || ७ वज्रास्त्रम् तारं चतुर्मुखः स्वङ्गनाथवान् दीर्घसंयुतः | प्. ३१५) पिनाकी दीर्घसंयुक्तो जलाद्यं मायि सोमराट् || ३४-१८ || फलान्तं भीषणपदं दम्भोले इत्यपि क्रमात् | वर्मास्त्रयुक्तं विज्ञेयं वज्रास्त्रमिदमुत्तमम् || ३४-१९ || ८ त्रिशूलम् हृत्पूर्वं वह्निमायायुगाषाढो मायया बकः | वह्निर्भृगुः सचण्डीशः प्रयोक्तव्यस्ततः परम् || ३४-२० || अथ शूलवरायेति भीमरूपपदं तथा | दारयेति पदं तत्र मारयेति पदं ततः || ३४-२१ || भीषयेति शिरोऽन्तं च त्रिशूलमिदमीरितम् | ९ ब्रह्मशिरोऽस्त्रम् क्रोधी दण्डी च चण्डीशवीरान्तं वृश्चिकादिमम् || ३४-२२ || आषाढयुक् सचण्डीशो हुं फड् ब्रह्मशिरः स्मृतम् | १० ऐषीकास्त्रम् हास्वा पक्षि यवद्रावि न्यंसैरप मरेति च || ३४-२३ || पकारं व्युत्क्रमेणेदमैषीकं परमं स्मृतम् | ११ मोदकी भृगुः क्रोधी पिनाकी च सानन्तो मित्र इत्यपि || ३४-२४ || प्. ३१६) संतापनान्ते माया स्यान्मोदकान्ते च तां न्यसेत् | कवचास्त्रयुतो मन्त्रो मोदकी स्याद् गदाह्वया || ३४-२५ || १२ शिखरी लोहितश्च भुजंगेशो भृगुर्भौतिकसंयुतः | मुण्डः सवाली खड्गीशो दीर्घयुक्तश्च पावकः || ३४-२६ || उमेशो मायया युक्तः शिखरीति पदं ततः | ततो भेदिनि फट् चैव शिखरी स्याद् गदाह्वया || ३४-२७ || १३ धर्मपाशास्त्रम् वप्रान्तमाद्यं चण्डस्य मण्डपे मध्यमं ततः | दुर्वृत्तेति पदं तत्र गजपर्यायमप्युत || ३४-२८ || द्विरावृत्तं बन्धयेति धर्मपाशमिदं विदुः | १४ कालपाशास्त्रम् अत्रिर्मायान्वितः श्वेतः ससोमेशोऽथ पावकः || ३४-२९ || षष्ठस्वरसमायुक्तो लोहितश्च ततः क्रमात् | विष्टम्भयेति च पदं द्विरावृत्तमतः परम् || ३४-३० || वर्मान्त एष मन्त्रस्तु कालपाश इतीरितः | १५ वरुणपाशास्त्रम् तुन्दिलेति पदं पूर्वं सर्वेति च पदं ततः || ३४-३१ || प्. ३१७) वारणेति ततो घोररूपेति च पदं क्रमात् | वर्म फट् चेति मन्त्रोऽयं वारुणं पाशमुत्तमम् || ३४-३२ || १६ आद्योऽशनिः लोहितश्चैव वह्निश्च कूर्मः साषाढकं विषम् | भारभूतियुतः क्रोधी ततश्च मतिपश्चिमः || ३४-३३ || अथ हस्तापरं नाम शोषयेति द्विरुच्चरेत् | अशनिद्वितयादाद्यमिमं मन्त्रं विदुर्बुधाः || ३४-३४ || १७ अन्योऽशनिः यषभी णरदानोमरप इत्यपरोऽशनिः | १८ पैनाकास्त्रम् अमरेशोऽथ खान्तोऽग्निसंयुक्तो दण्ड इत्यपि || ३४-३५ || अङ्कुशो भिन्धि भिन्धीति पैनाकममितद्युति | १९ नारायणास्त्रम् विष्णुर्दण्डी पुनश्चाद्यो भुजङ्गो दीर्घसंयुतः || ३४-३६ || आषाढो मायया युक्तः सुदर्शनपराह्वयः | दारणेति पदं तत्र विश्वमूर्ते इति क्रमात् || ३४-३७ || वर्मास्त्रे च तथा ज्ञेये नारायणमिदं स्मृतम् | २० पाशुपतास्त्रम् सपिनाकी बको बिन्दुर्महामायासमन्वितः || ३४-३८ || प्. ३१८) लोहितोऽथ बकश्चायं पञ्चमस्वरसंयुतः | कवचास्त्रे प्रयोक्तव्ये एतत् पाशुपतं स्मृतम् || ३४-३९ || २१ आग्नेयास्त्रम् तारं ततश्च हृदयं बहुवर्णाय चेत्यथ | वृत्तपिङ्गलशब्दं च लोचनेति ततः क्रमात् || ३४-४० || विश्वामित्रपदं चापि तथा प्रशमनेति च | दहेति शोषयेत्येवं प्रयुञ्ज्याद् भीषयेति च || ३४-४१ || एतदाग्नेयमत्युग्रं सुरासुरसुपूजितम् | २२ दयितास्त्रम् बकश्च सूक्ष्मश्चण्डश्च भुजङ्गो दीर्घदण्डवान् || ३४-४२ || व्योम खड्गीशसंयुक्तं वाली प्रक्षेपणेति च | वर्मान्तमेतं मन्त्रं तु दयितं परिचक्षते || ३४-४३ || २३ वायव्यास्त्रम् वालिनं दण्डसहितं त्रिरावृत्तं विनिर्दिशेत् | यक्षरक्षःपदे चैव पिशाचादीनिति क्रमात् || ३४-४४ || अमित्रांश्चेति च पदं ब्रूयाद् दूरमतः परम् | द्विरावृत्तं ततः कुर्यादुत्सारयपदं क्रमात् || ३४-४५ || वायव्यमेतद् विख्यातं त्रैलोक्ये सर्ववन्दितम् | २४ हयशिरोऽस्त्रम् व्योम दण्डयुतं व्योम वाली शीताद्यमक्षरम् || ३४-४६ || प्. ३१९) श्वेतो वह्नियुतो दीर्घो भुजंगो दीर्घसंयुतः | आषाढोऽथ महामायासंयुतो मुण्डमण्डितः || ३४-४७ || कबलीकुर्विति ब्रूयादयं हयशिरोमनुः | २५ क्रौञ्चास्त्रम् नपन्तासरपेत्येष फडन्तः क्रौञ्च ईरितः || ३४-४८ || २६ प्रथमा शक्तिः णिरदाविरप र्तेमूप्तदी व्युत्क्रमतो मनुः | वर्मान्त एष शक्तिभ्यामाद्यः सर्वारिभीषणः || ३४-४९ || २७ द्वितीया शक्तिः नेसेतप्रो र्णिककुशं र्तेमूज्रव इतीरितः | व्युत्क्रेमेण हुमन्तोऽयं शक्तिभ्यामपरो मनुः || ३४-५० || २८ कङ्कालास्त्रम् शिवोत्तमः सबिन्दुश्च क्रोधी दीर्घान्वितोऽनलः | भान्तो दीर्घसमायुक्तो वाली पडिति चान्ततः || ३४-५१ || कङ्काल एष कथितो मन्त्रः सर्वभयंकरः | २९ मुसलास्त्रम् चण्डाद्यन्तौ क्रमान्न्यस्य रूपाद्यन्तौ ततः परम् || ३४-५२ || प्. ३२०) आवर्तयद् घातयेति तदेतन्मुसलं स्मृतम् | ३० कापालास्त्रम् चण्डो भुजङ्गश्चात्रिश्च बको वह्निसमायुतः || ३४-५३ || मुण्डो द्विगण्डो मायी मा मेषद्वयमतः परम् | खड्गीशो भौतिकयुतो वह्निश्चण्डीशसंयुतः || ३४-५४ || अस्त्रान्त एष मन्त्रः स्यात् कापालमतिभीषणम् | ३१ कङ्कणी अत्रिः सदीर्घो वह्निश्च मायया तु समन्वितः || ३४-५५ || आषाढोऽनन्तसहितो वह्निर्दीर्घसमन्वितः | आद्यश्चतुर्थवर्गस्य चण्डीशेन समन्वितः || ३४-५६ || दमयेति द्विरावृत्त्या मनुरेष तु कङ्कणी | ३२ वैद्याधरास्त्रम् हृदयं प्रथमं न्यस्य भगेति च पदं ततः || ३४-५७ || वतीत्येतदपि ब्रूयान्महामाये इति क्रमात् | कवचास्त्रे प्रयोक्तव्ये एतद्वैद्याधरं परम् || ३४-५८ || ३३ असिरक्तास्त्रम् खण्डिताद्यरिपर्यायं पदं शक्ते इति क्रमात् | वर्मान्तमसिरक्ताख्यमस्त्रमेतदुदाहृतम् || ३४-५९ || ३४ - गान्धर्वास्त्रम् प्. ३२१) क्रोधी पिनाकिसंयुक्तो दण्डभौतिकसंयुतः | मोहयेति द्विरभ्यस्य मनुर्गान्धर्व इष्यते || ३४-६० || ३५ प्रस्थापनास्त्रम् पञ्चान्तकः सदण्डः स्यादथो गणपते अपि | लोकेत्यनन्तरं ब्रूयादमित्रानित्यनन्तरम् || ३४-६१ || प्रस्थापयेत्यथाभ्यस्य प्रस्थापनमुदाहृतम् | ३६ प्रशमनास्त्रम् लोहितः सानलो जीवो महामायासमन्वितः || ३४-६२ || अत्रिर्द्विरण्डः पञ्चारिर्लान्तो मायी तलादिमः | मायारूपिणि चेत्येतत् पदमन्ते प्रयोजयेत् || ३४-६३ || एतत् प्रशमनं नाम सर्वशत्रुनिवारणम् | ३७ सौर्यास्त्रम् तारं ततश्च हृदयं परायेति पदं ततः || ३४-६४ || परेति पदमुच्चार्य तेजः पदमनन्तरम् | निबर्हणाय चेत्येतत् फडन्तं सौर्यमुच्यते || ३४-६५ || ३८ दर्पणास्त्रम् अत्रिर्दण्डी च खड्गीशो मायया च समन्वितः | प्. ३२२) अत्रिः सदीर्घो वह्निश्च मायी चाषाढकः स्मृतः || ३४-६६ || अत्रिर्लोहितयुक्तश्च वह्निर्वर्म च फट् ततः | दर्पणास्त्रमिदं प्रोक्तं सर्वारिबलमर्दनम् || ३४-६७ || ३९ शोषणास्त्रम् बको दन्ती च शुक्राद्यो मायायुक्तस्तलादिमः | वैरीति मानसेत्येतत् प्रयोज्यं वर्म चान्ततः || ३४-६८ || एतच्छोषणमित्युक्तं विश्वारातिक्षयंकरम् | ४० - संतापनास्त्रम् आषाढो दीर्घसंयुक्तो लोहितो माययान्वितः || ३४-६९ || आषाढो लोहितो वह्निर्भृगुर्भौतिकसंयुतः | मुण्डयुक्तं सवालि स्याद् भृगुराकाश एव च || ३४-७० || स्रमूर्ते इति च न्यस्य संतापयपदं ततः | आवर्तयेदिमं मन्त्रं संतापनमुदाहृतम् || ३४-७१ || ४१ विलापनास्त्रम् भृगुर्भौतिकसंयुक्तः सवह्निर्दण्डसंयुतः | महाकालः सदीर्घः स्याद् वाली दीर्घान्वितस्ततः || ३४-७२ || आत्मने तु पदं पश्चात् फडन्तः स्याद्विलापनम् | ४२ मदनास्त्रम् हुं येमाहामरर्वादु व्युत्क्रान्तं मदनं स्मृतम् || ३४-७३ || ४३ कंदर्पदयितास्त्रम् प्. ३२३) चलगण्डमथो व्योम सामरधीश्वरं ततः | महाकलः सदन्तः स्याद् व्योम मेषस्ततः परम् || ३४-७४ || मायाविन्निति च ब्रूयादस्त्रायेति पदं ततः | फडन्त एष मन्त्रस्तु कंदर्पदयितं स्मृतम् || ३४-७५ || ४४ पैशाचास्त्रम् निहमोरप इत्येष व्युत्क्रान्तः सशिरोमनुः | पैशाचमिदमाख्यातमखिलारिविमर्दनम् || ३४-७६ || ४५ तामसास्त्रम् अजेश्वरं त्रिरावृतं सदण्डं प्रथमं पठेत् | तिमिरेति पदं ब्रूयाद्धस्तपर्यायमेव च || ३४-७७ || प्रतिसैन्यं पदं पश्चात् संवृण्विति समभ्यसेत् | एतत् तामसमित्युक्तमस्त्रं सर्वारिमोहनम् || ३४-७८ || ४६ सौमनास्त्रम् विष्णुर्दन्ती महाकालः शिवोत्तममतः परम् | शक्ते इति पदं पश्चात् परस्तम्भन इत्यतः || ३४-७९ || वर्मास्त्रे च ततो ब्रूयादेतत् सौमनमुच्यते | ४७ संवर्तास्त्रम् भुजङ्गो दण्डवान् पश्चाद्रिपूनिति पदं वदेत् || ३४-८० || प्. २२४) क्षिपेति द्विः शिरोऽन्तं स्यात् संवर्तमिदमुत्तमम् | ४८ मौसलास्त्रम् तिग्मेति वृत्ते इति च पदे पूर्वं पठेत् क्रमात् || ३४-८१ || भिन्धीति च द्विरभ्यस्तं शिरोऽन्तं मौसलं स्मृतम् | ४९ सत्यास्त्रम् तारं प्रणामपर्यायं परमार्थाय इत्यथ || ३४-८२ || रिपूनिति पदं ब्रूयाज्जहीत्येतद् द्विरभ्यसेत् | सत्यमस्त्रमिदं प्रोक्तं सर्वशत्रुनिबर्हणम् || ३४-८३ || ५० मायाधरास्त्रम् तारं ततश्च हृदयं देवायेति पदं वदेत् | मायात्मने इति पदं पठित्वा तदनन्तरम् || ३४-८४ || फडन्त एष मन्त्रस्तु मायाधरमुदीरितम् | ५१ घोरास्त्रम् शिवोत्तमः सदण्डश्च पुनश्चायं सदन्तकः || ३४-८५ || वह्निस्ततो भुजङ्गः स्यदङ्घ्रीशेन च संयुतः | लोहितो दीर्घयुग्वाली चण्डायेति पदं वदेत् || ३४-८६ || शिरोऽन्त एष मन्त्रस्तु घोरमस्त्रमुदीरितम् | ५२ रत्यस्त्रम् भृगुरौद्रद्विकं रेफं द्विः कृत्वा प्रादिकान् पुनः || ३४-८७ || प्. ३२५) शिवोत्तमं ससत्यं च भुजङ्गेशस्ततः परम् | आषाढोऽमरयुङ्मेषं रत्यस्त्रं च पवित्रकम् || ३४-८८ || ५३ अघोरास्त्रम् चटं वीप्स्य पुनः प्रादिं क्रोधीशं व्योम चाभ्यसेत् | वारुणं च तथा कालं द्विर्वामनसबिन्दुकम् || ३४-८९ || मीनमावृत्य मेषं च आषाढं लोहितं पुनः | शक्त्याधिकमघोरास्त्रं वर्मास्त्रान्तमुदीरितम् || ३४-९० || ५४ सौमास्त्रम् भृगुं सानुग्रहाधीशं दण्डिनं प्रथमं पठेत् | द्विषन्तं पदमुच्चार्य तत उद्वेजयेति च || ३४-९१ || अन्त्यं द्विरभ्यसेदेतत् सौमास्त्रमिदमीरितम् | ५५ त्वाष्ट्रास्त्रम् प्रणवं हृदयं पूर्वं भृगुस्तेनैव संयुतः || ३४-९२ || क्रोधी पिनाकी मेषश्च मायया च समन्वितः | महाकालद्वयं साग्निदीर्घयुक्तं ततः परम् || ३४-९३ || भारभूतियुगाषाढो मीनो दीर्घसमन्वितः | धाम्ने इति पदं ब्रूयात् परायेति पदं ततः || ३४-९४ || एतत् त्वाष्ट्रं समाख्यातं सर्वलोकनमस्कृतम् | ५६ दारुणास्त्रम् विष्णुर्दण्डी पुनश्चाद्यो भुजंगो दीर्घसंयुतः || ३४-९५ || प्. ३२६) आषाढो मायया युक्तो ज्वलनो बिन्दुसंयुतः | चतुर्मुखश्च क्रोधीशः फडन्तः स्यात्तु दारुणम् || ३४-९६ || ५७ भगास्त्रम् विपक्षादिममध्यान्तान् पठेद् विभजनेति च | प्रवृत्तायेति च पदं भगेति तदनन्तरम् || ३४-९७ || आत्मने इति निर्दिश्य भगास्त्रं तत् फडन्तिमम् | ५८ शीतेष्वस्त्रम् बकस्त्रिमूर्तिसहित आषाढश्च शिखी ततः || ३४-९८ || पिनाकी खड्गिको मायी लोहितश्च तथोपरि | संवर्तकः सदण्डश्च क्षिपेति द्विः पठेत् ततः || ३४-९९ || शिरोऽन्त एष मन्त्रस्तु शीतेषुरभिधीयते | ५९ मानवास्त्रम् लोहितश्च भुजंगश्च दीर्घो वाल्यथ लोहितः || ३४-१०० || अग्निर्भान्तश्च वाली च सवह्निर्दीर्घसंयुतः | अत्रिर्दीर्घसमायुक्तो भेदिने इति च क्रमात् | भीमरूपाय चेत्युक्त्वा नमोऽन्तं मानवं स्मृतम् || ३४-१०१ || ६० रौद्रास्त्रम् दहेति द्विरभ्यस्य पूर्वं प्रचण्ड प्रयोगं विधायाथ रूपेति पश्चात् | प्. ३२७) ततो रुद्रधाम्ने न्यस्य पश्चा च्छिरोवृत्तमेतत् परं रौद्रमाहुः || ३४-१०२ || ६१ प्रस्वापनास्त्रम् अत्रिस्त्रिमूर्तिसहितोऽथ शिवोत्तमश्च साग्निर्भृगुस्त्वमरनायकसप्रयुक्तः | सुप्त्यन्तिमः करिपदं च ततः प्रयोज्यं मायात्मिके इति फडन्तमसौ मनुः स्यात् || ३४-१०३ || प्रस्वापनं तदिदमाहुरशेषवैरि- सेनासमस्तपरिमोहनकारि मुख्यम् | इत्थं समस्तपरमास्त्रसमुद्धृतिस्तु तत्त्वान्मया विरचिता परमेष्ठिसूनो || ३४-१०४ || तारं सद्योजातमाषाढमन्ते खड्गेशानं भौतिकेनैव युक्तम् | वह्निं मायासंवृतं तत्र चोक्त्वा हृत्पर्यायं वर्म फट् चान्ततः स्यात् || ३४-१०५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ब्रह्मास्त्रादिमन्त्रस्वरूपनिरूपणं नाम चतुस्त्रिंशोऽध्यायः || ३४ || आदितः श्लोकाः २१५३ संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः ध्यातं स्कृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गोदेवस्य धीमहि || संहारास्त्रस्वरूपप्रश्नः नारदः भगवन् पूर्वमाख्यातं संहारास्त्राण्यशेषतः | सुदर्शनस्यापराङ्गान्निर्जग्मुरिति चेश्वर || ३५-१ || तेषां स्वरूपविज्ञाने वर्तते मे कुतूहलम् | वक्तुमर्हस्यशेषेण यदि सानुग्रहो मयि || ३५-२ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः तदेतत् परमं गुह्यं पुरा नारायणेरितम् | भक्तोऽसीति तव स्नेहाद् वक्ष्यामि शृणु नारद || ३५-३ || १ सत्यवदस्त्रम् लोहितोऽग्निसमायुक्तः खड्गीशो भारभूतिमान् | आषाढयुग्मं मुण्डश्च मायी स्यात् खड्गनायकः || ३५-४ || प्. ३२९) साग्न्याषाढयुगं पश्चात् क्रोधीशं निर्दिशेत् ततः | परमेष्ठिन्निति ब्रूयादथो ऋतमिति क्रमात् || ३५-५ || पिबेति सशिरोमन्त्रः सत्यवानिति विश्रुतः | २ सत्यकीर्त्यस्त्रम् तारं ततश्च हृदयं सत्यधाम्न इति क्रमात् || ३५-६ || शमयेति द्विरावृत्तं सत्यकीर्तिरिति स्मृतम् | ३ - धृष्टास्त्रम् अत्रिः सामरनाथश्च साग्निः पञ्चान्तकः स्मृतः || ३५-७ || महाकालश्च मज्जा च साग्निश्चोमापतिस्तथा | प्रसादयेत्यथाभ्यस्तं धृष्टमस्त्रमिदं विदुः || ३५-८ || ४ - रभसास्त्रम् क्रोधी पिनाकी मायी स्यात् खड्गी मायासमन्वितः | अत्रिः पिनाकी मुण्डश्च दीर्घयुक्तो रसस्तथा || ३५-९ || अग्निर्द्विरण्डश्च भृगुर्दीर्घो वाली ततः परम् | नमोऽन्त एष मन्त्रस्तु रभसः परिकीर्तितः || ३५-१० || ५ प्रतीहारतरास्त्रम् तारं शिरोयुतं मन्त्रं प्रतीहारतरं विदुः | ६ पराङ्मुखास्त्रम् प्. ३३०) लोहितो वह्निसंयुक्तः स्तुतेति च पदं ततः || ३५-११ || स्तोभात्मने इति ब्रूयात् पराङ्मुख इति क्रमात् | आयेति च हृदन्तं तु पराङ्मुखमुदाहृतम् || ३५-१२ || ७ अवाङ्मुखास्त्रम् अमरेशस्तथात्रिश्च सवाल्याषाढनायकः | विद्रावणायेति पदमवेति तदनन्तरम् || ३५-१३ || नतेति च प्रयोक्तव्यं फलाय तदनन्तरम् | शिरोयुक्तमिमं मन्त्रं मन्त्रिणोऽवाङ्मुखं विदुः || ३५-१४ || ८ लक्षाक्षास्त्रम् नियुतापरपर्यायं भेदिने इत्यनन्तरम् | निरासकेति चावृत्तं पदमायेति चेत्यथ || ३५-१५ || हृदयान्तमिमं मन्त्रं लक्षाक्षं परिचक्षते | ९ विषमास्त्रम् खड्गीशो मायया युक्तः कूर्मो मायासमन्वितः || ३५-१६ || आषाढो वह्निसहितो लोहितश्चाग्निसंयुतः | भृगुः सदीर्घो वह्निश्च मर्षयेति द्विरभ्यसेत् || ३५-१७ || एतद्विषममित्युक्तमस्त्रं परमदुर्जयम् | १० दृढनाभास्त्रम् शान्तिं पदं न्यसेत् पूर्वं कुर्वित्येतदतः परम् || ३५-१८ || निबिडेति ततो न्यस्य गात्रशब्दं ततः परम् | विष्कम्भेति शिरोऽन्तं च दृढनाभमुदाहृतम् || ३५-१९ || ११ संहारकास्त्रम् हास्वा यक्राचतसृवि मोन ओं व्युत्क्रमो मनुः | संहारकमिदं चास्त्रं विदुः पूर्वे महर्षयः || ३५-२० || १२ दशाक्षास्त्रम् खड्गीशो मायया युक्तस्तेन युक्तो बकस्तथा | वान्तो दीर्घसमायुक्त आषाढो मुण्ड एव च || ३५-२१ || दीर्घी ख्ड्गेश्वरो वह्निरुमेशो दीर्घसंयुतः | वाली हृदन्तो मन्त्रोऽयं दशाक्षः परिपठ्यते || ३५-२२ || १३ दशशीर्षास्त्रम् तारपूर्वं च हृदयं चलगण्डं ततो न्यसेत् | अम्बरं सामराधीशं वक्त्रायेति पदं ततः || ३५-२३ || वज्रवारणशब्दौ च आयान्तं शतवक्त्रकम् | शिवोत्तमः सदन्तः स्यादग्निर्दीर्घसमन्वितः || ३५-२४ || भृगुराषाढवान् साग्निः कर्तनायेति विन्यसेत् | प्. ३३२) दशेति च पदं पश्चाच्छीर्षायेति पदं ततः || ३५-२५ || शिरोऽन्त एष मन्त्रस्तु दशशीर्षमुदाहृतम् | १४ शतोदरास्त्रम् तारं प्रणामपर्यायं लुप्तास्त्रेति पदं ततः || ३५-२६ || जालायेति प्रयोक्तव्यं बहूदरपदं ततः | आयेत्यन्ते प्रयोक्तव्यं शतोदरमिदं विदुः || ३५-२७ || १५ पद्मनाभास्त्रम् लोहितः पावकश्चैव नकुलीशस्ततः परम् | आषाढो मायया युक्तः प्रवृत्त इति च क्रमात् || ३५-२८ || नाशनायेत्यथाभ्यस्तं स्वस्त्यन्तं पद्मनाभकम् | १६ महानाभास्त्रम् महाकालोऽम्बरं दीर्घं लोहितो दीर्घसंयुतः || ३५-२९ || बकः खड्गीश्वरो मायी नाशनायेति च न्यसेत् | चक्रात्मन इति ब्रूयात् स्वस्त्यन्तो मन्त्रनायकः || ३५-३० || महानाभमिदं प्राज्ञा वदन्त्यखिलसाधकम् | १७ दुन्दुनाभास्त्रम् बकश्चैव महाकालो मायी चाषाढनायकः || ३५-३१ || शूलायेति प्रयोक्तव्यं चण्डनाभाय चेत्यतः | स्वस्ति चैव द्विरभ्यस्तं दुन्दुनाभमिदं विदुः || ३५-३२ || १८ धृतिमाल्यस्त्रम् प्. ३३३) मेषो मायी च साङ्घ्रीशो भृगुश्चैवात्रिरेव च | मायायुक्तस्तथाषाढो दीर्घदण्डसमन्वितः || ३५-३३ || क्रोधी च सामरेशः स्याद् बको दीर्घसमन्वितः | वाली दीर्घसमायुक्तो निवारितपदं ततः || ३५-३४ || तेजसे इति च ब्रूयात् स्वस्त्यन्तोऽयं महामनुः | धृतिमालीति विख्यातः सर्वलोकेषु पूजितः || ३५-३५ || १९ रुचिरास्त्रम् संवर्तकः सामरेशो मीनो बिन्दुसमन्वितः | मायी च क्षामयेत्येतदावृत्तं वृत्तिमान् मनुः || ३५-३६ || द्विरावृत्तः प्रहरणं शं तनोतु पदं ततः | शिरोऽन्त एष मन्त्रस्तु रुचिरः परिकीर्तितः || ३५-३७ || २० पितृसौमनसास्त्रम् लोहितो मायया युक्त आषाढो भारभूतिमान् | देवसारेत्यतः पाठ्यं सर्वाभयपदं ततः || ३५-३८ || प्रदेत्येतत् प्रयोक्तव्यं सर्वशान्तिकराय च | शिरोऽन्त एष मन्त्रस्तु पितृसौमनसं स्मृतम् || ३५-३९ || २१ विधूतास्त्रम् प्. ३३४) तारं तथा च हृदयं खड्गीशो मायया युतः | मीनश्चाङ्घ्रीशसंयुक्त आषाढो दीर्घसंयुतः || ३५-४० || चण्डो मायी पिनाकी चाप्याषाढो दीर्घसंयुतः | लोहितश्च करायेति पदं तत उदीर्य च || ३५-४१ || परमेत्यथ धाम्ने च विधूतमिदमुत्तमम् | २२ मकरास्त्रम् नमस्त्रुटितशब्दौ च पठित्वा प्रथमं ततः || ३५-४२ || शास्त्रास्त्रशब्दौ चोच्चार्य शक्तये इत्यनन्तरम् | शक्तिशालिन इत्युक्त्वा मकरायेति च क्रमात् || ३५-४३ || प्रवृत्तास्त्रपदे चैव महार्णवपदं ततः | विभेदिन इति ब्रूयादेतन्मकरमुत्तमम् || ३५-४४ || २३ करवीरसमास्त्रम् तारपूर्वं नमश्चोक्त्वा तिरस्कृतपदं ततः | गदाशब्दं समुच्चार्य वीर्यायेति ततः पठेत् || ३५-४५ || शिरोऽन्त एष मन्त्रस्तु करवीरसमं स्मृतम् | २४ धनास्त्रम् तारं प्रणामपर्यायं लोहितं वह्निसंयुतम् || ३५-४६ || आषाढोऽनन्तसंयुक्तो लोहितो मीन एव च | प्. ३३५) मुण्डः शिवं कुरुपदं द्विरावृत्तं धनं स्मृतम् || ३५- ४७ || २५ धान्यास्त्रम् वेतवाजीर्तरापेति व्युत्क्रमेण समीरितम् | शिरोऽन्त एष मन्त्रस्तु धान्यमित्युच्यते बुधैः || ३५-४८ || २६ ज्यौतिषास्त्रम् लोहितो वह्निसंयुक्तश्चण्डाद्यन्तौ ततः क्रमात् | बको मुण्डः समायी स्यात् सवह्निर्लोहितस्तथा || ३५-४९ || बको विषं ततो मुण्डो मायी प्रकटितेति च | अथ विश्वं पदं चोक्त्वा ततः प्रशमयेति च || ३५-५० || द्विरभ्यस्तमिमं मन्त्रं ज्यौतिषं परिचक्षते | २७ कृशनास्त्रम् क्रोधी पिनाकी मायी स्यादाषाढं च ततः परम् || ३५-५१ || क्रोधी चानन्तसहितो बकयुग् दीर्घमग्निमत् | मुण्डो वाली शिरोऽन्तश्च कृशनं समुदाहृतम् || ३५-५२ || २८ नैराश्यास्त्रम् मायी खड्गी शिखी चैव महामायी पिनाकवान् | कृतचक्रेति शब्दौ च चक्रायेति च निर्दिशेत् || ३५-५३ || वषडन्तमिमं मन्त्रं नैराश्यं परिचक्षते | २९ विमलास्त्रम् प्. ३३६) खड्गेशः प्रथमं मायी चाषाढो दीर्घवह्निमान् || ३५- ५४ || भृगुश्च मायासंयुक्त आषाढो दीर्घसंयुतः | मायी चण्डः पिनाकी च सानन्तोऽतः परं क्रमात् || ३५-५५ || भृगुः साषाढदीर्घाग्निर्वाली च तदनन्तरम् | विमलायेति चोच्चार्य शिरोऽन्तं विमलं स्मृतम् || ३५-५६ || ३० योगंधरास्त्रम् भृगुर्लान्तः सवह्निश्च मायाशब्दं पठेत् ततः | मयास्त्रायेति च पदं तमोबर्हण इत्यपि || ३५-५७ || मूर्तये इति निर्दिश्य योगं चेति ततः पठेत् | धरायेति पदं चापि महते इत्यनन्तरम् || ३५-५८ || भीषणायेति च ब्रूयादभ्यस्तं हृदयं ततः | योगंधरमिदं प्रोक्तमस्त्रं निखिलवन्दितम् || ३५-५९ || ३१ विनिद्रास्त्रम् मुण्डो मायी तथाकाश आषाढश्च ततः परम् | मेषो मायायुतोऽत्रिश्च सदीर्घाग्निस्ततः परम् || ३५-६० || मुद्रायेति शिरोऽन्तोऽयं विनिद्रमभिधीयते | ३२ नैद्रास्त्रम् विषमग्न्यनिलोपेतं सषष्ठस्वरबिन्दुकम् || ३५-६१ || प्. ३३७) पिण्डमेतच्छिरोऽन्तं च नैद्रमस्त्रविदो विदुः | ३३ - प्रमथनास्त्रम् प्रथमं तारमुच्चार्य हृदयं च ततः परम् || ३५-६२ || विषं ततश्च दण्डीशं मायया च समन्वितम् | आषाढं च बकं चैव पठित्वा तदनन्तरम् || ३५-६३ || ततः क्रोधी च साषाढश्चण्डीशेन समन्वितः | प्रसादयेत्यथावृत्तमस्त्रं प्रमथनं स्मृतम् || ३५-६४ || ३४ सार्चिर्माल्यस्त्रम् वरुणेन समायुक्तो दीर्घयुक्तश्चतुर्मुखः | ततः पिनाकी सानन्तो लान्तो मायी ततः परम् || ३५-६५ || ज्वालान्तो मायया युक्तः पिनाकी च ततः परम् | आद्यं चतुर्थवर्गस्य महासीति पठेत् ततः || ३५-६६ || शक्त इत्यपि वक्त्रव्यं महामहस इत्यपि | मर्षयेति द्विरभ्यस्तं सार्चिर्मालिरयं मनुः || ३५-६७ || ३५ कामरूपास्त्रम् हास्वा नञ्जभरञ्चासरपत्तवृप्र इत्यपि | रस्वा इति व्युत्क्रमेण कामरूपमिदं स्मृतम् || ३५-६८ || ३६ कामरुच्यस्त्रम् ओं नमो इत्युपक्रम्य मुण्डो मायासमन्वितः | प्. ३३८) तृतीयस्वरसंयुक्तश्चण्डो रान्तस्ततः परम् || ३५-६९ || कबन्धेति पदं ब्रूयात् संधानायेति चान्ततः | शिखान्तोऽयं कामरुचिर्मन्त्रः पूर्वैः समीरितः || ३५-७० || ३७ मोहनास्त्रम् भौतिकं दण्डसंयुक्तमङ्कुशं च ततो वदेत् | मोहवारिणिशब्दं च शिरोऽन्तं मोह उच्यते || ३५-७१ || ३८ आवरणास्त्रम् खड्गीशो दीर्घसंयुक्तो वह्निर्मायासमन्वितः | आषाढश्च महाकालो व्योम दीर्घान्वितं ततः || ३५-७२ || महाकालश्च सानन्तो वाली चण्डीशसंयुतः | शिरोऽन्तोऽयं महामन्त्रः प्रोक्तमावरणं बुधैः || ३५-७३ || ३९ जृम्भकास्त्रम् द्विरण्डौ द्वौ क्रमान्न्यस्य सदण्डौ चतुराननम् | मुण्डमुच्चार्य परतः स्वस्तीति पदमुद्धरेत् || ३५-७४ || शिरोऽन्तोऽयं महामन्त्रो जृम्भकः परिकीर्तितः | ४० सर्वनाभकास्त्रम् चण्डोऽनन्तसमायुक्तो मायी चास्त्रिस्ततः परम् || ३५-७५ || आद्यश्चतुर्थवर्गस्य सेनापदमनन्तरम् | प्. ३३९) जीवातव इति ब्रूयाच्छिरोऽन्तं सर्वनाभकम् || ३५-७६ || ४१ भृशाश्वतनयास्त्रम् वेगाद्यन्तौ क्रमादुक्त्वा विश्वाद्यं च ततः परम् | जितशब्दमथोच्चार्य वैनतेयाय इत्यपि || ३५-७७ || शिरोऽन्तोऽयं मनुः प्रोक्तो भृशाश्वतनया इति | ४२ संधानास्त्रम् भृगुश्च वरुणः साग्निर्मुण्डो मायी ततः क्रमात् || ३५-७८ || खड्गीशः साग्निदीर्घश्च लोहितोऽथ उमापतिः | शं कुर्वीति द्विरभ्यस्तो मन्त्रः संधानमुच्यते || ३५-७९ || ४३ वारुणास्त्रम् भृगुर्लान्तोऽग्निसहितो दण्डेन च समन्वितः | भृगुर्व्योमाथ जीवश्च वरुणेन समन्वितः || ३५-८० || शिरोऽन्त एष मन्त्रस्तु वारुणं परिकीर्तितम् | अस्त्राणां मूर्तत्वामूर्तत्वजिज्ञासया नारदेनाहिर्बुध्न्यस्तुतिः नारदः भगवन् देवदेवेश सर्वलोकनमस्कृत || ३५-८१ || सर्वाध्यक्षाप्रमेयात्मन्नचिन्त्यज्ञानगोचर | त्वामाश्रित्य सुराः सर्वे लभन्ते काङ्क्षितं फलम् || ३५-८२ || प्. ३४०) त्वत्तः सर्वं समुद्भूतं जगत् स्थावरजङ्गमम् | त्वयैव पालितं सर्वं संहृतं च महेश्वर || ३५-८३ || त्वमादिः सर्वजगतामनादिस्त्वं जगन्मय | पुरुषस्त्वं त्वमव्यक्तो व्यक्तस्त्वं विश्वभावन् || ३५-८४ || यज्ञस्त्वमिज्यो यष्टा त्वमग्नयस्त्वं त्वमाहुतिः | वषट्कारस्त्वमोंकारो वेदवेद्यस्तथा भवान् || ३५-८५ || त्वत्त एव च भूतानि प्रवर्तन्ते महेश्वर | करणं कारणं कर्ता कार्यं कर्म फलं विभो || ३५-८६ || त्वमेव भूतं भव्यं च भवच्च परमेश्वर | निर्गुणस्त्वं जगत्सृष्टौ जुषमाणो गुणानसि || ३५-८७ || अणीयसामणीयांस्त्वं महांश्च त्वं महीयसाम् | अनुरक्तस्त्वयीशान प्रयाति परमां गतिम् || ३५-८८ || अपरक्तो व्रजत्येव निरयं विकृतिर्न ते | कलाकाष्ठामुहूर्तादिकालश्च त्वं कलात्मकः || ३५-८९ || सर्वदा सर्वभूतेषु निवसन्नपि शंकर | न लिप्यसे तद्विकारैः पद्मपत्रमिवाम्भसा || ३५-९० || करामलकवत् सर्वं सर्वदा कलयस्यतः | प्रोक्तवानसि सर्वास्त्रस्वरूपं पृच्छतो मम || ३५-९१ || अस्त्राणां मूर्तत्वामूर्तत्वप्रश्नः प्. ३४१) किमेषां मूर्तयः सन्ति किं वामूर्तान्यमूनि वै | छेत्तुमर्हसि देवेश तमिमं संशयं विभो || ३५-९२ || तेषां मूर्तत्वप्रतिपादनम् अहिर्भुध्न्यः तेषां भवन्ति गात्राणि भीमरूपाणि नारद | वक्रभीषणदंष्ट्रोग्रमुखत्रस्तजनानि वै || ३५-९३ || भीषिताघूर्णितारक्तवृत्तनेत्रयुतानि वै | विद्युत्पुञ्जप्रतीकाशकेशभीमानि नारद || ३५-९४ || कानिचिद्धूम्रवर्णानि भास्कराभानि कानिचित् | कानिचिच्छुक्लवर्णानि वह्निकल्पानि कानिचित् || ३५-९५ || महापरिघसंकाशभीमरूपैः करैः परैः | यथास्वं धृतशस्त्राणि महान्ति बलवन्ति च || ३५-९६ || वेगवन्ति प्रमाथीनि वैरिदर्पद्रुहाणि च | उपासितानि सततं सुरासुरवरैरपि || ३५-९७ || एवंभूतान्यधिष्ठाय गात्राण्यस्त्राणि नारद | विचरन्ति यथाकाममकुतोभीतिमन्ति च || ३५-९८ || प्. ३४२) अकलितमहिमानि भीषणानि ज्वलितवपूंषि समुद्यतायुधानि | अविहतगमनानि चास्त्रमुख्या न्यनवरतं भुवनेषु संचरन्ति || ३५-९९ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां संहारास्त्रस्वरूपनिरूपणं नाम पञ्चत्रिंशोऽध्यायः || ३५ || आदितः श्लोकाः २२५२ राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुण- प्रधानभावव्यवस्थापनं नाम षट्त्रिंशोऽध्यायः ध्यातं स्कृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गोदेवस्य धीमहि || सौदर्शनयन्त्रस्य पूर्वापराङ्गध्यानार्चनप्रकारप्रश्नः नारदः भगवन् कथिताः सर्वे सर्वास्त्राणां महौजसाम् | प्रवर्तकास्तथा मन्त्रास्तथैव च निवर्तकाः || ३६-१ || एतच्च कथितं सर्वं सर्वज्ञेन त्वया पुरा | सौदर्शनं महायन्त्रमर्चनीयं महात्मभिः || ३६-२ || उक्तेनैव प्रकारेण चतुर्वर्गफलार्थिभिः | राजा चेदर्चयेदेतत् सौदर्शनमुखं परम् || ३६-३ || उभयं चास्य यन्त्रस्य मुखमाराधयेदिति | कथमस्यापराङ्गं च ध्यायेत् कुर्याच्च वा कथम् || ३६-४ || छेत्तुमर्हसि संदेहमिमं मम महेश्वर | प्. ३४४) तदुत्तरकथनम् अहिर्बुध्न्यः एवं ध्यात्वार्चयेद्राजा यन्त्रमेतन्महाद्युति || ३६-५ || तत्र पूर्वाङ्गे यन्त्रमध्ये सुदर्शनध्यानम् यन्त्रमध्ये महात्मानं पुरुषं भीमलोचनम् | ऊर्ध्वपिङ्गलकेशाढ्यं ज्वलद्दंष्ट्रोज्ज्वलाननम् || ३६-६ || तिष्ठन्तमष्टभिर्युक्तं भुजैः परमशोभनैः | चक्राब्जमध्ये तिष्ठन्तमवष्टभ्य महद्धनुः || ३६-७ || समभङ्गमुदाराङ्गं रक्ताम्बरधरं विभुम् | शङ्खचक्राब्जमुसलपाशाङ्कुशगाधरम् || ३६-८ || सर्वाभरणसंयुक्तं पुष्पमालाविभूषितम् | परितः केशवादिद्वादशमूर्तिध्यानम् सुदर्शनमिमं ध्यात्वा परितश्चिन्तयेत् ततः || ३६-९ || तिष्ठतो यदि वासीनान् केशवादीन् सविग्रहान् | उक्तेनैव प्रकारेण भूषणैरायुधैर्युतान् || ३६-१० || प्रधानभूतान् परमान् यथाकामनिवेशितान् | ततो विष्ण्वादिषोडशमूर्तिध्यानम् ततः षोडशभिर्देवैर्विष्ण्वाद्यैरायुधान्वितैः || ३६-११ || मूर्तिमद्भिश्च सोद्योगैः सर्वाभरणसंयुतैः | प्. ३४५) एतैः पञ्जरितं ध्यायेद्यन्त्रराजमनुत्तमम् || ३६-१२ || परितो मूर्तिमत्संहारास्त्रध्यानम् परितस्तान्यपि ध्यायेन्मूर्तिमन्ति महान्ति च | संहारास्त्राणि सर्वाणि साञ्जलीन्यद्भुतानि च || ३६-१३ || अकुतोभयशालीनि शक्तिमन्ति समन्ततः | ततो मूर्तिमत्प्रवर्तकास्त्रध्यानम् ततः प्रवर्तकान्येवं ध्यायीतास्त्राणि नारद || ३६-१४ || मूर्तान्यत्तुमिवाशेषभुवनान्युज्ज्वलानि च | ततो नारसिंहध्यानम् एवं चक्रक्रमेणैतदभिध्यायोपरि स्मरेत् || ३६-१५ || दधानं नारसिंहस्य वपुर्नारायणं परम् | मूलकोशं परं देवमधोभागेऽथ चिन्तयेत् || ३६-१६ || यन्त्रं चक्राकृति श्रीमद् दीप्तनेमिसमन्वितम् | नेमेरस्य चतुर्दिक्षु महाज्वालां विचिन्तयेत् || ३६-१७ || चक्रकौमोदकीशार्ङ्गखड्गहस्तान् स्मरेत् क्रमात् | एवमेकमुखं ध्यायेद्यन्त्रस्यास्य महाद्युतेः || ३६-१८ || अपराङ्गध्यानम् अपराङ्गं महामन्त्रैः सर्वतः समलंकृतम् | प्. २४६) अन्तस्तारं समारभ्य यदि वा विष्णुपञ्जरम् || ३६-१९ || पूर्वोक्तं तद्विना मूर्तेस्तत्तन्मन्त्रसमुच्चयम् | अपराङ्गे सर्वास्त्राणां मन्त्रमात्रध्यानम् यथास्थानं स्मरेत् तस्य पर्यन्ते चिन्तयेत् ततः || ३६-२० || सर्वसंहरणास्त्राणां मन्त्रानेव च केवलम् | तदनन्तरमन्येषामस्त्राणां च प्रवर्तकम् || ३६-२१ || मन्त्रजालमभिध्याय सुनेमि सुरपूजितम् | महायन्त्रं महाशक्ति चक्ररूपमनुत्तमम् || ३६-२२ || उक्तैर्विशेषणैर्जुष्टं सर्वकामैकसाधनम् | अस्य चक्रस्य मध्ये यद्वर्तते पुरुषः परः || ३६-२३ || तस्मान्निगद्यते लोके चक्रवर्तीति सूरिभिः | एतद्यन्त्राभ्यर्चनाद्राज्ञां चक्रवर्तित्वलाभः | तस्मादभ्यर्चयेदेतद्यो राजा भक्तिसंयुतः || ३६-२४ || सोऽचिरेणैव कालेन चक्रवर्तित्वमाप्नुयात् | अन्यैरपि राजहितैषिभिरेतदर्चनं कार्यम् राजा वा राजभृत्या वा मन्त्रिणो वाथवा परे || ३६-२५ || राज्ञां हितैषिणः सर्वे पूजयेयुरिदं परम् | अन्येषामपि श्रीकामानामेतदभ्यर्चनम् अन्ये च ये तु विपुलां श्रियमिच्छन्ति मानवाः || ३६-२६ || प्. २४७) तैर्नित्यमर्चनीयं स्यादिदं सर्वार्थसाधकम् | राज्ञामेव विशेषेण यदेतत् समुदीरितम् || ३६-२७ || तद्राजव्यतिरेकेण ये निर्दिष्टास्तु मानवाः | तेषां विभूतिर्महती राज्ञा संपत्स्यते ध्रुवम् || ३६-२८ || लोहैर्वा शिलया वापि यो हि निर्माय पूजयेत् | विपुलां श्रियमाप्नोति दीर्घमायुश्च विन्दति || ३६-२९ || आरोग्यं चाश्नुते सर्वे तद्वंश्या दीर्घजीविनः | द्विमुखयन्त्रार्चने मन्त्रोपदेष्टुर्ब्राह्मणस्यैवाधिकारः परं मन्त्रोपदेष्टैव ब्राह्मणो द्विमुखं यजेत् || ३६-३० || ज्ञानेन तपसा शक्त्या सोढुं तस्योभयात्मनः | स एव शक्रुयात् तस्य प्रभावं परमं मुने || ३६-३१ || आदित्यमण्डलाक्ष्यादिस्थानां पुरुषाणामभिन्नत्वम् योऽसावादित्यबिम्बस्थः पुरुषो दृश्यते परः | हिरण्मयो य एवान्तरक्षिण्यपि च दृश्यते || ३६-३२ || सोऽप्ययं नाभिचक्रस्य मध्ये यो वर्तते पुमान् | तस्यैव कालचक्रादिप्रवर्तकत्वम् योऽयं कालाख्यचक्रस्य प्रेरकः पुरुषोऽव्ययः || ३६-३३ || प्. ३४८) युगचक्रस्य नेतारमेनमेव विदुर्बुधाः | एनं महर्षयोऽप्याहुर्जगच्चक्रप्रवर्तकम् || ३६-३४ || विमाने संस्थाप्य तस्यैव समभ्यर्चनमैहिकामुष्मिकफलसाधकम् सर्वलोकैककर्तारं सर्वलोकैकसाक्षिणम् | एनं विमाने संस्थाप्य चक्रवर्तिनमव्ययम् || ३६-३५ || यः पूजयति तस्यायं लोकश्चामुष्मिको भवेत् | विमानकरणारम्भस्यापि महाफलकत्वम् सुदर्शनविमानं यः प्रारभेत महामुने || ३६-३६ || इह सर्वानवाप्यार्थान् विष्णुलोकं स यास्यति | विमानकरणार्थस्य कर्षणस्यापि सर्वसंपत्साधनत्वम् सुदर्शनविमानस्य कर्षणं यः करोति वै || ३६-३७ || तस्यामित्रा विनश्यन्ति सन्ति सर्वाश्च संपदः | आरब्धापरिसमाप्तस्यापि विमानकरणस्यान्ततो मुक्तिसाधनता आरभ्यायतनं मध्ये विच्छित्त्या विघ्नितो यदि || ३६-३८ || स सार्वभौमः सकलान् भुक्त्वा भोगान् महीतले | पुनश्च भक्तश्चक्रस्य शेषं निर्वर्तयिष्यति || ३६-३९ || अन्ते वैकुण्ठमासाद्य विष्णुसायुज्यमाप्नुयात् | साङ्गप्रतिष्ठादिकर्तुः फलपरंपरानिरूपणम् प्. ३४९) विमानं परमं कृत्वा प्रतिष्ठाप्य सुदर्शनम् || ३६-४० || ब्राह्मणान् वेदविदुषो वैष्णवान् द्वादशावरान् | तच्छेषभूतांस्तत्रैव प्रतिष्ठाप्य च शक्तितः || ३६-४१ || पर्याप्तजीवनान् कृत्वा दत्त्वा भूमिमठादिकान् | नित्यं योऽभ्यर्चयत्येनं देवं भूतिसमन्वितम् || ३६-४२ || तस्य प्रतिदिनं भूतिरमर्यादा विवर्धते | नीरोगता दीर्घमायुर्लभ्यते नात्र संशयः || ३६-४३ || जन्मान्तरे सार्वभौमो जनित्वा सकलां भुवम् | भुक्त्वा कालेन महता तदनन्तरजन्मनि || ३६-४४ || त्रिविष्टपपतिर्भूत्वा भुङ्क्ते चैन्द्रपदं चिरम् | ततः क्रमेण लब्ध्वायं तत्तल्लोकेशतां गतः || ३६-४५ || तदन्ते परमं धाम वैष्णवं प्रतिपद्यते | सुदर्शनपुरुषमनाराधयतो नृपत्वं दुर्लभम् देवमेनमनाराध्य न कश्चिज्जायते नृपः || ३६-४६ || एतदाराधनतारतम्यात् फलतारतम्यम् एतदाराधनस्यैव तारतम्येन नारद | भोगायुषोस्तारतम्यमश्नुते नृपतिर्ध्रुवम् || ३६-४७ || तस्माद्राज्ञामन्येषां चैतदाराधनावश्यकता तस्मात् सर्वप्रयत्नेन राजैवैनं समर्चयेत् | प्. ३५०) जात्यायुर्भोगकामाश्च ये चान्ये भुवि मानवाः || ३६-४८ || तेऽप्येतत्पूजया सर्वं काङ्क्षितं प्राप्नुवन्ति च | शेषिणः केशवादेः शेषभूतं सुदर्शनं प्रति परिवारतादिकथंताप्रश्नः नारदः सिद्धं सुदर्शनं विष्णोः शेषमायुधसंज्ञितम् || ३६-४९ || कथमस्य परीवाराः केशवाद्याः समीरिताः | विष्ण्वाद्या मूर्तिभेदाश्च कथं वा पञ्जरीकृताः || ३६-५० || कथं वा भगवन्मन्त्राः परिवारत्वमागताः | इमं च संशयं देव च्छेत्तुमर्हसि साम्प्रतम् || ३६-५१ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः शृणु तात महाप्राज्ञ रहस्यमिदमुत्तमम् | त्वदृते शक्नुयात् प्रष्टुमिममर्थं न कश्चन || ३६-५२ || भगवत इव तत्संकल्परूपस्य सुदर्शनस्याप्यनादित्वापरिच्छेद्यत्वे यथा नारायणो देवः पुरुषः पुष्करेक्षणः | अनादिरपरिच्छेद्यस्तथायमपि नारद || ३६-५३ || तदुपपादनाय परमात्मशक्तेर्द्वेधा विभागः द्वे शक्ती तस्य विद्येते विष्णोः सर्वार्थसाधने | प्रधानभूते याभ्यां तु वहत्येष जगद्धुरम् || ३६-५४ || प्. ३५१) एका त्विच्छात्मिका तस्य तथान्या तु क्रियात्मिका | तत्रेच्छारूपिण्याः शक्तेर्लक्ष्मीरूपत्वम् प्रथमा परमा लक्ष्मीर्जगत्त्रातुः कुटुम्बिनी || ३६-५५ || क्रियारूपायाः शक्तेः सुदर्शनरूपत्वम् तत्त्वविद्भिरिदं प्रोक्तं द्वितीयेह सुदर्शनम् | ताभ्यां शक्तिभ्यां विना भगवतोऽप्यकिंचित्करत्वम् तस्माल्लक्ष्म्या विना देवः संकल्पे न प्रभुर्हरिः || ३६-५६ || अनेनापि विना कर्तुं किंचिन्नार्हति केशवः | तस्य शक्तिद्वयस्य सृष्टिस्थितिसंहाराद्युपकरणत्वम् अनेन सर्वं सृजति देवोऽनेनैव पाति च || ३६-५७ || अनेन संहृतिं देवो विश्वस्यान्ते करोति च | अनेन दानवान् दैत्यान्निहन्ति मधुसूदनः || ३६-५८ || क्रियतेऽनेन तत्कर्म सर्वं सर्वगतेन वै | रक्षकं परमात्मानं प्रति शक्तिद्वयस्यापि रक्ष्यकोट्यन्तर्भावः तस्मात् सर्वात्मना चैनं स्वबुद्ध्या परिरक्षति || ३६-५९ || विशिष्य लक्ष्म्या अपि रक्ष्यकोट्यन्तर्भावप्रतिपादनम् यथा स्वं स्वामिना रक्ष्यं रक्ष्यते स्वयमेव हि | एवं सर्वस्य जननीं लक्ष्मीं लक्ष्मीधरः स्वयम् || ३६-६० || चतुर्धा व्यूह्य चात्मानं स्वभूतां परिरक्षति | अतः केशवादीनां परिवारत्वादिकल्पनाया युक्तत्वम् तत् केशवादिमूर्तीनां परिवारत्वकल्पना || ३६-६१ || विष्ण्वादीनां च मूर्तीनां पञ्जरत्वं च युज्यते | सर्वेषामपि मन्त्राणां रक्षकत्वं च सांप्रतम् || ३६-६२ || प्रकारान्तरेणापि गुणप्रधानभावोपपादनम् अथवा भगवानेव स्वयं चक्रस्वरूपधृत् | अवस्थित इति प्राज्ञैः कथ्यते पुरुषोत्तमः || ३६-६३ || प्रतित्रेतायुगं देवः साधुत्राणकृते हरिः | रामलक्ष्मणशत्रुघ्नभरताद्यात्मना स्वयम् || ३६-६४ || चतुर्धावस्थितस्तद्वच्चक्रत्मा हरिरेव हि | गुणप्रधानभावस्तु रामादेरिव युज्यते || ३६-६५ || तदात्मनैव चात्मानं रक्षत्येव जनार्दनः | स्वमूर्तिरक्षणे स्वेन विनान्यन्न भवेद्यतः || ३६-६६ || एतद्रहस्यश्रवणादेरपि क्रमशः परमपुरुषार्थसाधनत्वम् य इदं शृणुते परिपृच्छति वा पठति स्मरतीह नरः सततम् | विपुलामिह भूतिमवाप्य परा- मथ याति पदं परमं स हरेः || ३६-६७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां राज्ञां सुदर्शनयन्त्राराधनविधानकेशवादिगुणप्रधानभावव्य- वस्थापनं नाम षट्त्रिंशोऽध्यायः || ३६ || आदितः श्लोकाः २३१९ ########### END OF FILE #######